मानसागरी - अध्याय २ - त्रिग्रहयोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


यंत्राश्वकूटकुशलोऽसृग्वेदनापीडितोऽतिशूरश्च । आदित्यचन्द्रभौमैरेकस्थैर्जायते सुततो विहीनः ॥१॥

विद्याधनरुपयुतः काव्यकथाकविसभाप्रियः सधनः । नृपसेवकः प्रियवागेकस्थे सूर्यचन्द्रबुधे ॥२॥

धर्मपरो नृपसचिवो दृढमेधा मानकृच्च बन्धूनाम् । देवद्विजार्चनरतो रविशशिजीवैः सहैकस्थैः ॥३॥

सुवपुः क्षिपतारिणो नरपतिसुभगः सदा प्रवरतेजाः । रविशशिशुक्रैः सहितैर्भवति नरो दन्ताविकृतश्च ॥४॥

धर्मपरो विगतधवो गजाश्वपरिपालकः सुकर्मरतः । रविरवितनयशशाङ्कैरेकस्थैर्विगतशीलश्च ॥५॥

भानुभौमबुधैर्योगे ख्यातः साहसिको नरः । निष्ठुरो गतलज्जश्च धनस्त्रीपुत्रमण्डितः ॥६॥

जीवसूर्यकुजैर्योगे प्रचण्डः सत्यभाषणः । राजमन्त्री नरश्चापि सुवाक्यो निपुणो भवेत् ॥७॥

शुक्रभौमार्कसंयोगे सुभगो नयनातुरः । कुशीलो वत्सलो दक्षो विषयासक्तमानसः ॥८॥

शनिसूर्यकुजैर्योगे मूर्खो गोधनवर्जितः । रोगार्तः स्वजनैर्हीनो विकलः कलहाकुलः ॥९॥

बुधजीवार्कसंयोगे नेत्ररोगी महाधनी । शास्त्रशिल्पकलाभिज्ञो लिपिकर्ता भवेन्नरः ॥१०॥

शुक्रसुर्यबुधैर्योगे गुरुवर्गैर्निराकृतः । अभिशप्तो दिशो याति स्त्रीहेतोस्तप्तमानसः ॥११॥

शनिसूर्यबुधैर्योगे दुराचारः पराजितः । बन्धुभिश्च परित्यक्तो विद्वेषी जायते नरः ॥१२॥

(शुक्रजीवार्कसंयोगे राजमन्त्री च निर्धनः ।

दुष्टचक्षुश्च शूरश्च प्राज्ञश्च परकर्मकृत् ॥

शनिशुक्रार्कसंयोगे कलामानविवर्जितः ।

कुष्ठी शत्रभयोद्विग्नो दुराचारी नरो भवेत् ॥)

मन्दजीवार्कसंयोगे पुत्रमित्रकलत्रवान् । निर्भयो नृपतिद्वेष्टा स्वेष्टबन्धुर्भवेन्नरः ॥१३॥

चन्द्रचान्द्रिकुजैर्योगे नीचाचारश्च पापकृत । आजीवितहती लोके बन्धुहीनश्च जायते ॥१४॥

चन्द्रजीवकुजैर्योगे स्त्रीलोलो वर्णसंयुतः । कान्तश्च सङ्गतः स्त्रीणां चन्द्रतुल्यमुखो भवेत् ॥१५॥

चन्द्रशुक्रकुजैर्योगे दुःशीलायाः पतिः सुतः । सदा भ्रमणशीलश्च शीतभीतोऽपि जायते ॥१६॥

शनिचन्द्रकुजैर्योगे बाल्ये स्यान्मृतमातृकः । क्षुद्रावलोकविद्विष्टो विषमो जायते नरः ॥१७॥

जीवचन्द्रबुधैर्योगे तेजस्वी धनवानपि । पुत्रमित्रादिसंयुक्तो वाग्ग्मी ख्यातश्च कीर्त्तिमान् ॥१८॥

बुधेन्दुभार्गवैर्योगे विद्ययालंकृतो नरः । सेर्ष्यो धनातिलोभी च नीचाचारश्च जायते ॥१९॥

बुधेन्दुमन्दसंयोगे प्राज्ञो भूपतिपूजितः । अत्युच्चो विपुलाङ्गश्च वाग्ग्मी भवति मानवः ॥२०॥

शुक्रजीवेन्दुसंयोगे साध्वी पुत्रश्च पण्डितः । साधुः सर्वकलाभिज्ञः सुभगो जायते नरः ॥२१॥

जीवेन्दुमन्दसंयोगे नीरोगः स्त्रीगतो नरः । शास्त्रार्थविज्ञः सर्वज्ञो ग्रामपत्तनपालकः ॥२२॥

शनिशुक्रेन्दुसंयोगे लिपिकर्ता च वेदवित् । पुरोहितकुलोत्पन्नो भवेत्पुस्तकवाचकः ॥२३॥

जीवभौमबुधैर्योगे सुकविर्युवतिप्रियः । परोपकारकृत्तीक्ष्णो गान्धर्वकुशलो भवेत् ॥२४॥

भृगुभौमबुधैर्योगे विकलाङ्गश्च चञ्चलः । अकुलीनः सदोत्साही तृप्तश्च मुखरो नरः ॥२५॥

बुधमन्दकुजैर्योगे प्रवासी नेत्ररोगवान् । प्रेष्यो वदनरोगी च हास्यलुब्धो भवेन्नरः ॥२६॥

जीवकाव्यकुजैर्योगे दिव्यनारीयुतः सुखी । सर्वानन्दकरो लोके जायते नृपतेः प्रियः ॥२७॥

जीवमन्दकुजैर्योगे कुष्ठाङ्गो राजपूजितः । नीचाचारो निर्धनश्च भवेन्मित्रैर्विगर्हितः ॥२८॥

भृगुमन्दकुजैर्योगे दुःशीलायाः पतिः शुभः । प्रवासशीलो दुःखी च जातको जायते सदा ॥२९॥

बुधेज्यभृगुसंयोगे सुतनुर्नृपपूजितः । जितारिर्दीर्घकीर्तिश्च सत्यवादी भवेन्नरः ॥३०॥

बुधार्किजीवसंयोगे सुदारो बहुभोगवान् । धनैश्वर्ययुतः प्राज्ञः सुखधैर्ययुतो भवेत् ॥३१॥

मन्दशुक्रबुधैर्योगे मुखरः पारदारिकः । असङ्गत्यां कलाभिज्ञः स्वदेशनिरतो भवेत् ॥३२॥

मन्देज्यशुक्रसंयोगे राजा भवति कीर्तिमान् । नीचवंशेऽपि संभूतःशीलयुक्तो नृपो भवेत् ॥३३॥

प्रायः पापैर्युते चन्द्रे मातुर्नाशो रवौ पितुः । शुभग्रहैः शुभं वाच्यं मिश्रितैर्मिश्रितं फलम् ॥३४॥

शुभास्त्रयो ग्रहा युक्ताः कुर्वन्ति सुखिनं नरम् । पापास्त्रयो दुःखितं च दुर्विनीतं विगर्हितम् ॥३५॥

N/A

References : N/A
Last Updated : March 22, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP