मानसागरी - अध्याय २ - शुक्रभावफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


उरसिगे तनुगे भृगुनन्दने भवति कार्य्यरतः परपण्डितः । विमलशल्यगृही सदने रतो भवति कौतुकहा विधिचेष्टितः ॥१॥

परधनेन धनी धनगे भृगौ भवति योषिति वित्तपरो नरः । रजतसीसधनी गुणशैशवः कृशतनुः सुवचा बहुबालकः ॥२॥

सहजमंदिरवर्तिनि भार्गवे प्रचुरमोहयुतो भगिनीसुतः । भवति लोचनरोगसमन्वितो धनयुतः प्रियवाक् च सदम्बरः ॥३॥

भवति बन्धुगते भृगुजे नरो बहुकलत्रसुतेन समावृतः । सुरमते सुखमध्यवरे गृहे वसनपानविलाससमावृतः ॥४॥

तनयमन्दिरगे भृगुनन्दने भृगुसुतो दुहितावरपूजितः । बहुधनो गुणवान्वरनायको भवति चापि विलासवतीप्रियः ॥५॥

भवति वै कुशलोद्भवपण्डितो रिपुगृहे भृगुजेऽस्तगते नरः । जयति वैरिबलं निजतुङ्गगे भृगुसुते सुखदे किल षष्ठगे ॥६॥

युवतिमन्दिरगे वसते नरो बहुसुतेन धनेन समन्वितः । विमलवंशभवः प्रमदापतिर्भवति चारुवपुर्मुदितस्सुखी ॥७॥

निधनसद्मगते भृगुजे जनो विमलधर्मरतो नृपसेवकः । भवति मांसप्रियः पृथुलोचनो निधनमेति चतुर्थवयेऽपि वा ॥८॥

विमलतीर्थपरोऽच्छतनुस्सुखी सुरवरद्विजवर्णरतः शुचिः । निजभुजार्जितभाग्यमहोत्सवो भवति धर्मगते भृगुजे नरः ॥९॥

दशममन्दिरगे भृगुवंशजे बधिरबन्धुयुतः स च भोगवान् । वनगतोऽपि च राज्यफलं लभेत्समरसुन्दरवेषसमन्वितः ॥१०॥

लभनभावगते भृगुनन्दने वरगुणावहितोऽप्यनलव्रतः । मदनतुल्यवपुः सुख भाजनं भवति हास्यरतिः प्रियदर्शनः ॥११॥

निजमिते व्ययवर्तिनि भार्गवे भवति रोगयुतः प्रथमं नरः । तदनु दम्भपरायणचेतनः कृशबलो मलिनः सहितः सदा ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP