संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
एकादशः सर्गः - गीतम् २२

गीतगोविन्दम् - एकादशः सर्गः - गीतम् २२

गीतगोविन्दम्

राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।

जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥

हरिमेकरसं चिरमभिलषितविलासं सा ददार्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् ॥१॥

हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।

स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥२॥

श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।

नीलनलिनमिव पीतपरागपतलभरवलयितमूलम् ॥३॥

तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।

स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥४॥

वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।

स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥५॥

शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।

तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥६॥

विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।

मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥७॥

श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।

प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥८॥

अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन- प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।

इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥६६॥

भवन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित- स्मितं याते गेहाद्बहिरवहितालीपरिजने ।

प्रियास्यं पश्यन्त्याः स्मरशरसमाकूलसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥६७॥

इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नामैकादशः सर्गः ॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP