संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
अष्टमः सर्गः - गीतम् १७

गीतगोविन्दम् - अष्टमः सर्गः - गीतम् १७

गीतगोविन्दम्

विलक्ष्यलक्ष्मीपतिः

अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।

अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥४९॥

रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।

वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥

हरिहरि याहि माधव याहि केशव मा वद कैतववादं तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥५०॥

कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् ।

दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥२॥

वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।

मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥३॥

चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।

दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥४॥

दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।

कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥५॥

बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।

कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥६॥

भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।

प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥७॥

श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।

शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥८॥

तदेवं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् ।

ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥५०॥

इति गीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP