संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सप्तकम्| श्रीसरस्वतीसप्तकम् सप्तकम् श्रीजगन्नाथसप्तकम् श्रीदयानन्दसप्तकम् धन्वन्तरिवन्दना श्रीनृसिंहसप्तकम् श्रीरेणुकासप्तकम् श्रीललितानीराजनसप्तकं श्रीशरभ निग्रहदारुण सप्तकम् श्रीनटराजहृदयभावनासप्तकम् सप्तरत्नम् श्रीसरस्वतीसप्तकम् श्रीसरस्वतीसप्तकम् सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना. Tags : godgoddesssaptakamstotraदेवतादेवीसंस्कृतसप्तकम्स्तोत्र श्रीसरस्वतीसप्तकम् Translation - भाषांतर विहसन्ती वरवदने ! रतिमतिमेधां च सुधां च विकिरन्ती ।अज्ञानावृतगात्रं स्वकृपापात्रं विधेहि मामीशे ॥१॥वितरन्ती शं, वादं वाचि, विषादं विनाशय चज्ञानम् ।वितरापूर्वाह्लादं, जहि मतिसादं प्रसीद वागीशे ! ॥२॥कलयन्ती हृदि हारं हीरकसारं प्रभां प्रवर्षन्ती ।रचय स्वीयविहारागारं हृदयं मदीयमयि धीशे ! ॥३॥दीनोद्धारं कारं मातः ! पारं नयाशु विनतोऽहम् ।दुर्वृत्तीनां कदनं कुरु मे वदनं सदा स्वकं सदनम् ॥४॥अर्पय सदयां दृष्टिं सपदि समर्पय च शास्त्रसम्बोधम् ।सन्तर्पय मम चान्तर्वरदे ! वरदेवि ! पाहि दासस्ते ॥५॥सार्तस्वराणां त्वमु चेन्न मातः ! कार्तस्वराब्जासनसन्निविष्टे! ।अज्ञाननाशं कुरुषे स्वकानां, का नाम वामा न पुनश्च शक्तिः ॥६॥मातस्त्वदीयपदपङ्कजकल्पिताशो, दासोऽस्मि ते च जगतो नितरां निराशः ।सद्यः प्रसीद शरणे तव बद्धपाशः क्रन्दामि मेऽपि तनुतां हृदि सत्प्रकाशम् ॥७॥इति रामकृपालु द्विवेदी साहित्याचार्यस्य विरचितं श्रीसरस्वतीसप्तकं सम्पूर्णम् । N/A References : N/A Last Updated : January 07, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP