श्रीजगन्नाथसप्तकम्

सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना.


प्रकाशकान्तचिन्मयं प्रसन्नदारुविग्रहं
प्रफुल्लफुल्लसुन्दरं पुरीप्रमोदमन्दिरम् ।
विषाणुसङ्घशोषिणं विशालवैद्यघोषिनं
सहास्यगोललोचनं महाप्रभुं भजाम्यहम् ॥१॥

परम्पराविमण्डितं तटे वटे मठे रतं
 महाप्रसादमज्जितं महानुभावसज्जितम् ।
सुवर्णकीर्णनिर्जितं समन्दमन्दहासितं
 पहण्डिनृत्यपण्डितं जगद्गुरुं भजाम्यहम् ॥२॥

त्रितापपापनाशकं त्रिधातुदोषघातकं
 सुपञ्चभूतशोधकं विषाणुवेगरोधकम् ।
नितान्तशान्तिदायकं महार्तिनाशकारकं
 सदा जगत्सुरक्षकं महाप्रभुं भजाम्यहम् ॥३॥

रथे कदापि सत्वरं विचित्रवीर्य्यमीश्वरं
 मुखारविन्दसिन्दूरं सगद्गदं सुधासरम् ।
महापुराणसत्करं महेश्वरीपुरःसरं
 सघोषहर्षतत्परं सदाशिवं भजाम्यहम् ॥४॥

निवासनीलपर्वतं प्रफुल्लपीतसत्पटं
 समस्तवैष्णवाश्रितं समुद्रकूलनिर्जितम् ।
नितान्तशान्तचिद्घनं घनाघनप्रभायुतं
 नियन्तृरोगभौतिकं भिषग्वरं भजाम्यहम् ॥५॥

ग्रहेशदर्पहारिणं खगेशयानचारिणं
 नृशंस-कंसमर्दनं समस्तगोपशासनम् ।
सरागराधिकाधवं कृपालुनीलमाधवं
 नवीनयौवनोज्वलं भजे निचोलमुज्ज्वलम् ॥६॥

नियोगभोगभक्षणं वियोगवेगमर्षणं
 सुपुष्पहारधारिणं चराचरस्य पारिणम् ।
समन्त्रतन्त्रनायकं  प्रवीणवेणुवादकं
 विषाणुमुक्तिदायकं भजे सुखप्रदायकम् ॥७॥

इति प्रदीप्तनन्दशर्मविरचितं श्रीजगन्नाथसप्तकं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 07, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP