संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सप्तकम्| श्रीरेणुकासप्तकम् सप्तकम् श्रीजगन्नाथसप्तकम् श्रीदयानन्दसप्तकम् धन्वन्तरिवन्दना श्रीनृसिंहसप्तकम् श्रीरेणुकासप्तकम् श्रीललितानीराजनसप्तकं श्रीशरभ निग्रहदारुण सप्तकम् श्रीनटराजहृदयभावनासप्तकम् सप्तरत्नम् श्रीसरस्वतीसप्तकम् श्रीरेणुकासप्तकम् सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना. Tags : godgoddesssaptakamstotraदेवतादेवीसंस्कृतसप्तकम्स्तोत्र श्रीरेणुकासप्तकम् Translation - भाषांतर श्रीगणेशाय नमः ।पुरतो विलोक्य वृषभं पार्श्वे लिङ्गं परात्परस्य विभोः ।पृष्ठे स्कन्दगणेशौ त्वां कालीं मन्महे मातः ॥१॥न त्वं लक्ष्मीमातः यल्लक्ष्मीनायकस्य माताऽसि ।जनयित्रि राक्षसारेः तस्मात्त्वां मन्महे कालीम् ॥२॥संहारनायिकत्वात् मारीत्वादुग्रवेषरूपत्वात् ।मध्यमलोकनिवासात् त्वां कालीं मन्महे मातः ॥३॥जमदग्निः शिवभागः भागस्त्वं देवि शैलकन्यायाः ।एवं ज्ञात्वा यस्त्वां भजति स धन्यो महाभागः ॥४॥त्वां चण्डिकां प्रचण्डामाहुस्तन्त्राणि जनिमतां मातः ।तस्मात्त्वं शिवकान्ता न श्रीर्न प्रेयसी च विधेः ॥५॥गौरी श्रीर्वा वाग्वा न विशेषो जगति भक्तलोकस्य ।मम तु विशिष्टा गौरी साक्षादस्याः सुतो यदहम् ॥६॥तिसृषु परदेवतासु श्रेष्ठत्वं नोच्यते मयैकस्याः ।प्रीतिर्मे गिरिजायां लक्ष्मीतो भारतीतश्च ॥७॥॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्यनरसिंहसूनोर्गणपतेः कृतिः रेणुकासप्तकं समाप्तम् ॥ N/A References : N/A Last Updated : January 07, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP