संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सप्तकम्| धन्वन्तरिवन्दना सप्तकम् श्रीजगन्नाथसप्तकम् श्रीदयानन्दसप्तकम् धन्वन्तरिवन्दना श्रीनृसिंहसप्तकम् श्रीरेणुकासप्तकम् श्रीललितानीराजनसप्तकं श्रीशरभ निग्रहदारुण सप्तकम् श्रीनटराजहृदयभावनासप्तकम् सप्तरत्नम् श्रीसरस्वतीसप्तकम् धन्वन्तरिवन्दना सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना. Tags : godgoddesssaptakamstotraदेवतादेवीसंस्कृतसप्तकम्स्तोत्र धन्वन्तरिवन्दना Translation - भाषांतर विशिष्टरोगौषध-बोधभावात् रोग-व्रजाभाव-विधान-वीरम् ।न तत्र यान्तश्च कदापि मोहं धन्वन्तरिं वैद्यवरं नमामि ॥१॥पीयूषपाणिं कुशलं क्रियासु धीरं निरीहं शुभदं दयालुम् ।प्रबुद्धसाङ्गागद-वेद-विद्यं धन्वन्तरिं वैद्यवरं नमामि ॥२॥स्वस्थेषु मैत्रीं करुणां रुजार्ते प्रीति सुसाध्ये विदधानमेव ।उपेक्षणञ्चासु-मुमुक्षुमर्त्ये धन्वन्तरिं वैद्यवरं नमामि ॥३॥इच्छन्तमग्र्यं परमं स्व-धर्मं दुःखात्प्रयत्नेन सदातुराणाम् ।निजात्म-जानामिव रक्षितारं धन्वन्तरिं वैद्यवरं नमामि ॥४॥भूतानुकम्पेति परो हि धर्मः निश्चित्य पथ्येन गदघ्नमस्मात् ।सुसिद्धिमन्तं सुखिनम्प्रशान्तं धन्वन्तरिं वैद्यवरं नमामि ॥५॥पुंसां गदानां विविधे निदाने लिङ्गे सुशान्तौ च भवाप्रवृत्तौ ।चतुर्विधज्ञान-विशेषभाजं धन्वन्तरिं वैद्यवरं नमामि ॥६॥देशस्य कालस्य तनोर्गदानां द्रव्यस्य दोषस्य रसस्य चापि ।अशेष-तत्त्वज्ञवरं प्रभावात् धन्वन्तरिं वैद्यवरं नमामि ॥७॥स्पर्शावगम्यैर्बहुभिस्तु भावैः शरीर जातैर्गदपीडितानाम् ।आयुः प्रमाणान्यवबुध्यमानं धन्वन्तरिं वैद्यवरं नमामि ॥८॥असाध्यवर्जं परियाप्य याप्यान् साध्यामयान् सिद्धसुयोगसङ्घैः ।निघ्नन्तमव्याहतबुद्धिवेगं धन्वन्तरिं वैद्यवरं नमामि ॥९॥इति हरिनारायणशर्मा वैद्य विरचिता धन्वन्तरिवन्दना समाप्ता । N/A References : N/A Last Updated : January 07, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP