संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सप्तकम्| श्रीनटराजहृदयभावनासप्तकम् सप्तकम् श्रीजगन्नाथसप्तकम् श्रीदयानन्दसप्तकम् धन्वन्तरिवन्दना श्रीनृसिंहसप्तकम् श्रीरेणुकासप्तकम् श्रीललितानीराजनसप्तकं श्रीशरभ निग्रहदारुण सप्तकम् श्रीनटराजहृदयभावनासप्तकम् सप्तरत्नम् श्रीसरस्वतीसप्तकम् श्रीनटराजहृदयभावनासप्तकम् सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना. Tags : godgoddesssaptakamstotraदेवतादेवीसंस्कृतसप्तकम्स्तोत्र श्रीनटराजहृदयभावनासप्तकम् Translation - भाषांतर ॐ श्रीगणेशाय नमः ।कामशासनमाश्रितार्तिनिवारणैकधुरन्धरंपाकशासनपूर्वलेखगणैः समर्चितपादुकम् ।व्याघ्रपादफणीश्वरादिमुनीशसंघनिषेवितंचित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥१॥यक्षराक्षसदानवोरगकिन्नरादिभिरन्वहंभक्तिपूर्वकमत्युदारसुगीतवैभवशालिनम् ।चण्डिकामुखपद्मवारिजबान्धवं विभुमव्ययंचित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥२॥कालपाशनिपीडितं मुनिबालकं स्वपदार्चकंह्यग्रगण्यमशेषभक्तजनौघकस्य सदीडितम् ।रक्षितुं सहसावतीर्य जघान यच्छमनं च तंचित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥३॥भीकरोदकपूरकैर्भुवमर्णवीकरणोद्यतांस्वर्धुनीमभिमानिनीमतिदुश्चरेण समाधिना ।तोषितस्तु भगीरथेन दधार यो शिरसा च तंचित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥४॥योगिनः सनकादयो मुनिपुंगवा विमलाशयाःदक्षिणाभिमुखं गुरुं समुपास्य यं शिवमादरत् ।सिद्धिमापुरनूपमांतमनन्यभावयुतस्त्वहंचित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥५॥क्षीरसागरमन्थनोद्भवकालकूटमहाविषंनिग्रहीतुमशक्यमन्यसुरासुरैरपिबोऽर्थितः ।रक्षति स्म जगत्त्रयं सविलासमेव निपीय तंचित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥६॥सर्वदेवमयं यमेव भजन्ति वैदिकसत्तमाः ज्ञानकर्मविबोधकाः सकलागमाः श्रुतिपूर्वकाः ।आहुरेव यमीशमादरतश्च तं सकलेश्वरंचित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥७॥॥ इति शिवम् ॥ N/A References : N/A Last Updated : January 07, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP