संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सप्तकम्| श्रीशरभ निग्रहदारुण सप्तकम् सप्तकम् श्रीजगन्नाथसप्तकम् श्रीदयानन्दसप्तकम् धन्वन्तरिवन्दना श्रीनृसिंहसप्तकम् श्रीरेणुकासप्तकम् श्रीललितानीराजनसप्तकं श्रीशरभ निग्रहदारुण सप्तकम् श्रीनटराजहृदयभावनासप्तकम् सप्तरत्नम् श्रीसरस्वतीसप्तकम् श्रीशरभ निग्रहदारुण सप्तकम् सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना. Tags : godgoddesssaptakamstotraदेवतादेवीसंस्कृतसप्तकम्स्तोत्र श्रीशरभ निग्रहदारुण सप्तकम् Translation - भाषांतर ॐ श्रीगणेशाय नमः ।विनियोगः -अस्य श्री निग्रहदारुणसप्तकमालामन्त्रस्य श्रीसदाशिवऋषिःबृहती छन्दः श्रीशरभो देवता मम वैरिविनाशार्थे भगवन्श्रीशरभ सालुव पक्षिराज देवता प्रसन्नार्थे जपे विनियोगः ।ध्यानम् -चन्द्रार्काग्निस्त्रिदृष्टिः कुलिशवरनखश्चञ्चलोऽत्युग्रजिह्वः काली दुर्गा च पक्षौ हृदयजठरगो भैरवो वाडवाग्निः ।ऊरूस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः संहर्ता सर्वशत्रून् स जयति शरभः शालुवः पक्षिराजः ॥कोपोद्रेकातिनिर्यन्निखिलपरिचरत्ताम्रभारप्रभूतं ज्वालामालाग्रदग्धस्मरतनुसकलं त्वामहं शालुवेश ।याचे त्वत्पादपद्मप्रणिहितमनसं द्वेष्टि मां यः क्रियाभिः तस्य प्राणप्रयाणं परशिव भवतः शूलभिन्नस्य तूर्णम् ॥१॥शम्भो त्वद्धस्तकुन्तक्षतरिपुहृदयान्निःस्रवल्लोहितौघं पीत्वा पीत्वाऽतिदिर्घा दिशि दिशि विचरास्त्वदगणाश्चण्डमुख्याः ।गर्जन्तु क्षिप्रवेगा निखिलजयकरा भीकराः खेललोलाः सन्त्रस्ताब्रह्मदेवाः शरभ खगपते त्राहि नः शालुवेश ॥२॥सर्वाद्यं सर्वनिष्ठं सकलभयकरं त्वत्स्वरूपं हिरण्यं याचेऽहं त्वाममोघं परिकरसहितं द्वेष्टि मां यः क्रियाभिः ।श्रीशम्भो त्वत्कराब्जस्थितकुलिशकराघातवक्षःस्थलस्य प्राणाः प्रेतेशदूतग्रहगणपरिखाः क्रोशपूर्वं प्रयान्तु ॥३॥द्विष्मः क्षोण्यां वयं हि तव पदकमलध्याननिर्धूतपापाः कृत्याकृत्यैर्विमुक्ता विहगकुलपते खेलया बद्धमूर्ते ।तूर्णं त्वत्पादपद्मप्रधृतपरशुना तुण्डखण्डीकृताङ्गः सद्द्वेषी यातु याम्यं पुरमतिकलुषं कालपाशाग्रबद्धः ॥४॥भीम श्रीशालुवेश प्रणतभयहर प्राणजिद्दुर्मदानां याचेऽहं चास्य वर्गप्रशमनमिह ते स्वेच्छया बद्धमूर्ते ।त्वामेवाशु त्वदङ्घ्र्यष्टकनखविलसद्ग्रीवजिह्वोदरस्य प्राणा यान्तु प्रयाणं प्रकटितहृदयस्यायुरल्पायतेश ॥५॥श्रीशूलं ते कराग्रस्थितमुसलगदावृत्तवात्याभिघातात् यातायातारियूथं त्रिदशविघटनोद्धूतरक्तच्छटार्द्रम् ।सद्दृष्ट्वाऽऽयोधने ज्यामखिलसुरगणाश्चाशु नन्दन्तु नाना भूता वेतालपूगः पिबतु तदखिलं प्रीतचित्तः प्रमत्तः ॥६॥अल्पं दोर्दण्डबाहुप्रकटितविनमच्चण्डकोदण्डमुक्तै- र्बाणैर्दिव्यैरनेकैः शिथिलितवपुषः क्षीणकोलाहलस्य ।तस्य प्राणावसानं पर शरभ विभोऽहं त्वदिज्याप्रभावैः तूर्णं पश्यामि यो मां परिहसति सदा त्वादिमध्यान्तहेतो ॥७॥इति निशि प्रयतस्तु निरासनो यममुखः शिवभावमनुस्मरन् ।प्रतिदिनं दशवारदिनत्रयं जपति निग्रहदारुणसप्तकम् ॥८॥इति गुह्यं महाबीजं परमं रिपुनाशनम् ।भानुवारं समारभ्य मङ्गलान्तं जपेत्सुधीः ॥९॥इति श्री आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे नरसिंहकृता शरभस्तुतिः समाप्ता ॥ N/A References : N/A Last Updated : January 07, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP