सप्तरत्नम्

सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना.


वाञ्छा राजा तथा छेदो वृक्षं वित्तेन किं तथा ।
खर्गोधनेन किं ज्ञेयं सप्तरत्नमिदं क्रमात् ॥

वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता
 विद्यायां व्यसनं म्वयोषिति रतिर्लोकापवादाद्भयम् ।
भक्तिश्चक्रिणि शक्तिरात्मदमने संसर्गमुक्तिः खले
 रते यत्र वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥१॥

राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः
 कान्ता सत्यविना हयो गतिविना भूषा च ज्योतिर्विना ।
योद्धा शूरविना तपो ब्रतविना छन्दो विना गीयते
 भ्राता स्नेहविना नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ॥२॥

छेदश्चन्दनचूतचम्पकवने रक्षास्ति साकोटके
 हिंसा हंसमयूरकोकिलकुले काकेष नित्यादरः ।
मातङ्गेन खर क्रयः समतुला कर्पूरकार्पासयोः
 एषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥३॥

वृक्षं क्षीणफलं त्यजन्न्ति विहगाः शुष्कं सरः सारसाः
 पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः ।
निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः
 सर्वे कार्यवशाजनोभिरमते कस्यास्ति को वल्लभः ॥४॥

वित्तेन किं वितरणं यदि नास्ति दीने
 कि सेवया यदि परोपकृतौ न यत्नः ।
किं सङ्गमेन तनयो यदि नेक्षणीयः
 किं यौवनेन विरहो यदि वल्लभायाः ॥५॥

स्वर्गः किं यदि वल्लभा निजवधूः किं वा विभूषा विधिः
लावन्यं यदि किं सुधाकरकरः श‍ृङ्गारगर्भा गिरः
मृत्युः किं यदि दुर्जनेष्ववनतिः किं धिक् यदि पार्थना
प्राप्तेष्टः करिकेतनो यदि भवेत् किं कल्पभूमीरुहैः ॥६॥

धनेन किं यो न ददाति याचके
 बलेन किं यश्च रिपून्न वाधते ।
श्रुतेन किं यो नच धर्ममाचरेत्
 किमात्मना यो न जितेन्द्रियो भवेत् ॥७॥

इति सप्तरत्नं समाप्तम् ॥

N/A

References : N/A
Last Updated : January 07, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP