श्रीललितानीराजनसप्तकं

सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना.


श्रीललिता-त्रिपुर-सुन्दर्यै नमः ।

जय जय जय ललिते ।
जय जगदीश्वरि मातः श्रीसुन्दरी ललिते,
 त्वं मां पालय नित्यं विश्वेश्वरि वरदे ।
मञ्जुल मङ्गलदायिनि परमानन्द प्रदे,
 सकलमनोरथ पूरिणि मातः श्री ललिते ॥१ जय जय जय ललिते

जय श्रीचक्रनिवासिनि कामेश्वरि त्रिपुरे,
 दीनं मामवलोकय कृपया श्रीललिते ।
शिववामाङ्क-विहारिणी मोहित भूतपते,
 कलित-कलाधरमुकुटे नेत्र त्रय-शोभे ॥२ जय जय जय ललिते

धनुरङ्कुशरपाशैः शोभित-कर-कमले,
 शिशुं स्वकीयं पालय मातः श्रीललिते ।
अरुण-विभा-भव-भासित-भुवनेश्वरि विद्ये,
 भव-भय-भञ्जनकारिणि भवनाटकनिपुणे ॥३ जय जय जय ललिते

विधिहरिसुरपतिमुकुटैः वन्दितपदपद्मे ,
 नीराजनमवलोकय भगवति चितिरूपे ।
संवित्त्व-स्वरूपिणि निगमागमगीते,
 सन्तत-चिन्तित-सञ्चित्-स्वानन्दे ललिते ॥४ जय जय जय ललिते

बिन्दुनाद-भवभासिनि शिवशक्तिप्रथिते,
 स्पन्दसुधारस-वर्णिणि शाम्भवि शक्ति शिवे ।
नीराजनमिदममलं आरात्त्रिक-समये,
 भक्त्या गायति सकलं भद्रं सञ्चिनुते ॥५ जय जय जय ललिते

नृत्यति गायति कलयति मुदितमना मनुते,
 रूपं पश्यति त्वरितं तव ललितं ललिते ।
निरुपाधिक-कामेश्वर-कामेश्वरि ललिते,
 अरुणिम तरुणि-मण्डल मण्डित श्रीसदने ॥६ जय जय जय ललिते

निष्कल-तत्त्व-प्रकाशिनि परमेश्वरि ललिते,
 दत्तात्रेयानन्दं नाथय श्रीललिते ।
चरणसरोजे नमितं लोकय श्रीललिते,
 शरणागत-प्रतिपालिनि पालय श्रीललिते ॥७ जय जय जय ललिते

इति श्रीललितानीराजनसप्तकं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 07, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP