चन्द्रकवचम् - अस्य श्रीचन्द्रकवचस्तोत्र...

वैदिक साहित्य में सोम का स्थान भी प्रमुख देवताओं में मिलता है। 


अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः ।

अनुष्टुप् छन्दः ,  श्रीचन्द्रो देवता ,  चन्द्रप्रीत्यर्थं जपे विनियोगः ।

समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् ।

वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥१॥

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ।

शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥२॥

चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ।

प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः ॥३॥

पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ।

करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥४॥

हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ।

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥५॥

ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ।

अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ॥६॥

सर्वाण्यन्यानि चाङ्गानि पातु चन्दूऽखिलं वपुः ।

एतद्धि कवचं दिव्यं भुक्तिमुक्तिप्रदायकम् ।

यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥७॥

॥ इति श्रीचन्द्रकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : August 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP