तपः सदा रागधनाभिमानमोहप्रहाणाय सतामभीष्टम् ।

तेनैव दर्पो यदि किं वृथैव त्यक्तो निकायः क्षपितश्च कायः ॥१॥

 

सर्वात्मना शुद्धधिया विधेयः संसारदोषप्रशमाय यत्नः ।

कोपोपतप्तं धनरागदिग्धं करोति तीव्रं न तपः प्रशान्तिम् ॥२॥

 

चित्तं विरक्तं यदि किं तपोभिश्चित्तं सरागं यदि किं तपोभिः ।

चित्तं प्रसन्नं यदि किं तपोभिश्चित्तं सकोपं यदि किं तपोभिः ॥३॥

 

कोपेन शापश्पुरिताधराणां कामेन कम्पस्फुरिताधराणाम् ।

स्वेदाम्भसा तुल्यसमुद्भवेन निस्तेजसां किं तपसा मुनीनाम् ॥४॥

 

भार्याप्यहल्या किल गौतमस्य क्रुद्धस्य शापेन शिला बभूव ।

नीतो वसिष्ठेन रुषाभिशप्तश्चण्डालतां भूमिपतिस्त्रशङ्कुः ॥५॥

 

भूमग्नमूर्तिर्वररत्नलोभाद्विपाटयन्तीं नयने सुकन्याम् ।

तत्पाणिसंस्पर्शसुखादरेण सेहे निकारं च्यवनः सरागः ॥६॥

 

पाण्डुः प्रियाकण्ठविलम्बिबाहुर्ययौ स्तनन्यस्ततनुर्यदस्तम् ।

दग्धः परीक्षित्फणिफूत्कृतैर्यत्तपस्विकोपस्य विजृम्भितं तत् ॥७॥

 

विसारसंसारतरोर्न येन निःशेषमुन्मूलितमेव मूलम् ।

शापोपतापप्रभुणा परेषां किं तेन मिथ्यातपसा मुनीनाम् ॥८॥

 

न राजसेवारजसा विलुप्तं न भूमिविद्यादिविवादतप्तम् ।

न दम्भदीक्षाकुहकाकुलं यत्कल्याणमित्त्रं विमलं व्रतं तत् ॥९॥

 

ससंचयं गुप्तकलत्रपुत्रं पुनर्गृहीतव्यवाहरभारम् ।

दम्भाभिमानोद्भवकष्टभूतं मिथ्याव्रतं जीवितवृत्त्युपायः ॥१०॥

 

सरागरोगं बहुलप्रमोहं सरोगसंभारमखर्वगर्वम् ।

प्रद्वेषदोषोष्णममेयमायं संसारचिह्नं व्रतमेतदग्र्यम् ॥११॥

 

जटाक्षसूत्राजिनयोगपट्टकन्यादृढग्रन्थिनिपीड्यमानम् ।

विवेकहीनं विरतप्रकाशं व्रतं बृहद्बन्धनमामनन्ति ॥१२॥

 

सरागकाषायकषायचित्तं शीलांशुकत्यागदिगम्बरं वा ।

लौल्योद्भवद्भस्मभरप्रहासं व्रतं न वेषोद्भटतुल्यवृत्तम् ॥१३॥

 

निःसङ्गयोगं धनभोगसङ्गं विलम्बिकङ्कालकपालमालम् ।

कोपाकुलं स्पर्शविवर्जनीयं भारव्रतं तत्कथयन्ति पापम् ॥१४॥

 

बालस्तपस्वी किमतोऽस्ति हास्यं युवा वनैषी किमतोऽस्त्ययोग्यम् ।

वृद्ध सरागः किमतोऽस्ति निन्द्यं मूर्खः प्रमाता किमतोऽस्ति शोच्यम् ॥१५॥

 

क्षमा शमः शासनमिन्द्रियाणां मनः प्रसिक्तं करुणामृतेन ।

तपोऽर्हमेतत्सजने वने वा कायस्य संशोषणमन्यदाहुः ॥१६॥

 

हिमाचले श्यामलदेवदारुवने पुरा निर्झरचारुहास्ये ।

तपस्यतां शोषजुषां मुनीनां कालो ययौ वर्षसहस्रसंख्यः ॥१७॥

 

ततः कदाचिद्भगवान्भवार्तिहारी विहाराय नभःपथेन ।

समं भवान्या वृषभाधिरूढः समाययौ शीतमयूखमौलिः ॥१८॥

 

तस्योदितानां वदनप्रभाणां दीर्घीकृतानेकशशिप्रभाणाम् ।

विलासहास्येन नभो बभूव विभक्तिसंसक्तसितोत्तरीयम् ॥१९॥

 

देवी विलोक्याथ तपःप्रयत्नतीव्रप्रयासप्रकटास्थिशेषान् ।

मुनीन्कृपावेशविषण्णचित्ता शशाङ्कलेखाभरणं बभाषे ॥२०॥

 

देव त्वदाराधननिश्चलानां संत्यक्तसर्वाग्रहनिग्रहाणाम् ।

तप क्रियाशोषितविग्रहाणां नाद्यापि मुक्तिः किमहो मुनीनाम् ॥२१॥

 

कस्मादमी वर्षसहस्रलग्नक्लेशावलग्नास्तनुशोषमग्नाः ।

भवत्पदं नित्यसुखाय नैव निरामयं तन्मुनयः प्रयान्ति ॥२२॥

 

पृथुः प्रसादः प्रथमागतेषु निरादरत्वं चिरसंश्रितेषु ।

स्वाच्छन्द्यलीलाविपुलावलेपादेषु स्वभावः सुलभः प्रभूणाम् ॥२३॥

 

इति प्रियायाः प्रणयोपपन्नमाकर्ण्य वाक्यं गिरिशोऽब्रवीत्ताम् ।

कुर्वन्विषश्यामलकण्ठकान्तिं दन्तप्रभाभिः प्रतिभाविहीनम् ॥२४॥

 

देवि त्वयोक्तम् दयया मुनीनां भक्तानुरोधादुचितं ममैतत् ।

एषां भवोल्लङ्गनविघ्नभूतौ शान्तिं गतौ किं तु न कामकोपौ ॥२५॥

 

वनप्रवेशैर्नियमैरशेषैः क्रियाविशेषैः कृतकायशोषैः ।

न निर्विकारं पदमाप्नुवन्ति कोपेन कामेन च कृष्यमाणाः ॥२६॥

 

प्रत्यक्षमेषां मनसो विकारं संदर्शयाम्येष निषक्तमन्तः ।

तीव्रव्रतैः शुष्यति काय एव न वासनालीनघन/धनप्रमोहः ॥२७॥

 

संत्यक्तभोगाः स्पृहया विमुक्ताः स्नेहेऽप्यरागाः सुजनेऽप्यसङ्गाः ।

भजन्त्यविक्लेशतपःप्रसक्ता युक्ताः प्रकामं पदमव्ययं तत् ॥२८॥

 

उक्त्वेति शंभुर्वृषभात्सलीलं गिरेरिवाग्रादवतीर्य भूमिम् ।

क्षणादभूदद्भुतरूपराशिर्नग्नव्रतः कान्तिसुधावदातः ॥२९॥

 

तस्यामराधीशकिरीटरत्नशोणप्रभार्द्राविव पादपद्मौ ।

प्रचक्रतुर्विद्रुमबालवल्लीनवप्ररोहाद्भुतगर्वमुर्व्याम् ॥३०॥

 

सुस्पष्टजानु प्रचितोरुशोभि नाभिह्रदावर्तविभक्तमध्यम् ।

तत्तस्य रूपं प्रविलम्बिबाहोः पीनांसमासीन्मुखपूर्णचन्द्रम्॥३१॥

 

अनन्यलावण्यसुधाब्धिमध्यस्नातैरिवाङ्गैः स्फटिकावदातैः ।

चक्रे दशाशाः स पृथुप्रकाशा दिगम्बरत्वादिव जातहासाः ॥३२॥

 

पाणिस्थितश्याममयूरपिच्छच्छायाच्छटाविच्छुरितोऽस्य कण्ठः ।

रराज लीनान्तरकालकूटमिषाग्निनेवार्पितधूमलेखः ॥३३॥

 

स लोचनाभ्यां पृथुपक्ष्मलाभ्यामारक्तपर्यन्तमनोहराभ्याम् ।

व्यधादिवानङ्गनवाङ्गसङ्गे दिगङ्गनानामनुरागदीक्षाम् ॥३४॥

 

दृष्ट्वा त्रिलोकीकलिताभिलाषं वपुः स्मरारेर्जनितस्मरं तत् ।

पूर्वापकारस्मृतिजातलज्जं चक्षुः क्षणं क्वापि ययौ तृतीयम् ॥३५॥

 

बभौ स कान्तः कुटिलासितेन स्कन्धस्पृशा कुन्तलसंचयेन ।

अन्वेष्टुमिष्टां मुकुटेन्दुलेखां निशागणेनेव समागतेन ॥३६॥

 

लतावधूपल्लवपाणिमुक्तैः स्मितावदातैर्विबभौ च पुष्पैः ।

रूपान्तरे निह्नुतजह्नुकन्याफेनावशेषैरिव कीर्णकेशः ॥३७॥

 

तेनान्यरूपेण कृता नवैव कान्तिश्चकाशे निजरूपगुप्त्यै ।

जूटादिवेन्दुर्मृदितः कराभ्यां सर्वाङ्गमभ्यङ्गपदे नियुक्तः ॥३८॥

 

रूपं विरूपीकृतमन्मथस्य तत्तस्य कान्त्या कमनीयमासीत् ।

लज्जापहाराद्वनदेवतानां सविस्मयो येन नवाभिलाषः ॥३९॥

 

विवाससस्तस्य ससङ्गमङ्गे लज्जावतीनां स्पृहयैव पेतुः ।

नेत्राणि विद्याधरसुन्दरीणां लीलारविन्दार्धतिरस्कृतानि ॥४०॥

 

नभःस्थितानां त्रिदशाङ्गनानां तद्गात्रसौन्दर्यवशीकृतानाम् ।

प्रकम्पशिञ्जानविभूषणानां नेत्रोत्सवोऽभूद्गतिविघ्नभूतः ॥४१॥

 

सुसिद्धकन्याञ्जलिपल्लवाग्रविमुक्तनीलोत्पलपुष्पकुञ्जम् ।

अङ्गे जगल्लोचनवर्गमस्य सौन्दर्यसंसक्तमिवाबभासे ॥४२॥

 

तद्दर्शने कौतुकनिश्चलानां कर्णावतंसीकृतलोचनानाम् ।

मृगाङ्गनानामपि सस्पृहाभून्नितान्तमन्तःकरणप्रवृत्तिः ॥४३॥

 

तस्य प्रवेशे वदनाधिवासलोभभ्रमद्भृङ्गगणाञ्चितानाम् ।

अभूत्सजृम्भश्वसनाकुलानां मुहुर्लतानां कुसुमेषु कम्पः ॥४४॥

 

शनैः शनैराश्रमसंनिकर्षं तं यौवनं मूर्तमिवापतन्तम् ।

विलोक्य कान्तं मुनिकामिनीनां मनः प्रहर्षोच्छलितं बभूव ॥४५॥

 

तासां तदालोकननिर्निमेषा दृष्टिः परं कर्णपथप्रविष्टा ।

उत्सृष्टलज्जाविपुलाभिलाषादसूचयन्मुग्धमृगीविलासम् ॥४६॥

 

तासां तदर्चारभसोत्थितानां स्रस्तांशुकोत्कम्पिघनस्तनीनाम् ।

नवेन कामेन खलीकृतानां जृम्भाभवोऽभूद्भुजयोर्विलासः ॥४७॥

 

तासां बभौ रोमलता मुखेन्दुभीता तमःश्रीः स्तनरक्षितेव ।

रागाग्निधूमप्रसराग्र्यलेखा तनीयसी नाभिविनिर्गतेव ॥४८॥

 

तस्याधरे चुम्बनलालसेव कण्ठे हठालिङ्गनसस्पृहेव ।

हृदि स्तनन्याससमुत्सुकेव पपात दृष्टिः सहसैव तासाम् ॥४९॥

 

भृङ्गस्वनैराहितहुंकृताभिः पुष्प्यत्प्रसूनैः प्रसृतस्मिताभिः ।

वाताञ्चितैः पल्लवपणिभिस्ता निवार्यमाणा इव मञ्जरीभिः ॥५०॥

 

संतर्ज्यमाना इव होमधूमलेखावलीभ्रूभ्रमणेन दिग्भिः ।

तस्यान्तिके शीलदुकूलमुक्तिसज्जा विलज्जाः प्रसभं बभूवुः ॥५१॥

 

निःश्वासिनीनां स्मरबाणपुङ्खपक्षान्तवातैरिव कम्पितानाम् ।

तासां विलोक्यैव मनोविकारं भ्रूभङ्गभीमा मुनिपर्षदासीत् ॥५२॥

 

कोपोत्कटव्याघ्रवीर्यमाणक्षमामृगीरक्तचितेव तेषाम् ।

आसन्नदोषागमवासरान्तसंध्यानिभाभूत्सहसैव दृष्टिः ॥५३॥

 

दष्टाधराः कम्पविधूर्णमानाः स्वेदार्द्रदेहा विषमं श्वसन्तः ।

ते भेजिरे रागसमुद्गतेर्ष्याः कोपाकुलाः कामुकवृत्तमेव ॥५४॥

 

अन्तर्ज्वलत्कोपकृशानुधूमसंकाशकृष्णाजिनबद्धकक्षः।

त्रिदण्डमुद्यम्य जवेन कश्चिदभ्याद्रवन्नग्नतनुं वृषाङ्कम् ॥५५॥

 

बृसीं समुत्क्षिप्य सकम्पबाहुश्चिक्षेप कश्चित्क्षमया विहीनः ।

येनासनात्क्ष्माविरहादिवाशु मोहे निरालम्बतनुः पपात ॥५६॥

 

कमण्डलुं कश्चिदकाण्डचण्डसंरम्भपिण्डीकृतकोपतुल्यम् ।

आदाय मोहेन पिनाकपाणेः पुरः प्रहाराभिमुखो बभूव ॥५७॥

 

तेषाममर्षाद्भृशमक्षमाणां सोढुं निकारं क्षणमक्षमाणाम् ।

प्रापुः प्रयाताः क्षितिमक्षमाला भ्रूभङ्गतां तस्य तपोवनस्य ॥५८॥

 

तत्संभ्रमादाश्रममञ्जरीणां कम्पाकुलानां कुसुमान्तरोत्थैः ।

आसीत्प्रमोहप्रतिमोऽन्धकारः शापाक्षरामैर्भ्रमरैर्भ्रमद्भिः ॥५९॥

 

ते प्रापुरीर्ष्यापदमन्धकारि वक्त्रं शशाङ्कोपममीक्षमाणाः ।

कण्ठस्थलालोकनकालकूटसंपूरिताक्षा इव मोहमूर्च्छाम् ॥६०॥

 

ते तं स्मितप्रस्फुरिताधराग्रमुदग्रलावण्यविशेषतर्षाः ।

पत्नीविकारोग्रनिकारमूचुः कण्ठान्तरश्वासविकीर्णवर्णाः ॥६१॥

 

कोऽयं विजातिर्विगुणः कलावान्नग्नो वृषाङ्कः प्रविशत्यलज्जः ।

प्रदूषिता येन महर्षिजुष्टा गङ्गेव शुद्धा ललनावलीयम् ॥६२॥

 

अनेन संसूचयता निगूढरूपेण दर्पादकुलीनभावम् ।

नीता पवित्रत्वमियं मुनीनां कापालिकेनेव वनान्तभूमिः ॥६३॥

 

अहो बतास्य प्रतिभा प्रसह्य सतीसमालिङ्गनसस्पृहस्य ।

केनापि कामत्कुहकक्रमेण कान्तं कृतं रूपमनेन नूनम् ॥६४॥

 

उक्त्वेति तस्मै ससृजुः सकोपास्ते दण्डपाषाणबृसीशतानि ।

द्वेषावृताक्ष्णामविवेकजन्मा मोहः प्रमादे गुरुतामुपैति ॥६५॥

 

दूरे भवत्यथ शनैः शिशिरांशुमौलौ

तेषं प्रकोपविपुलानलतापितानाम् ।

तद्दर्शनानुसरणप्रसृतस्य यत्नः

पत्नीजनस्य सुतरां विनिवर्तनेऽभूत् ॥६६॥

 

अथ स भगवान्भर्गः स्वर्गापगापृथुनिर्झर-

प्रसृतहसितस्तस्मादेशात्क्रमेण तिरोहितः ।

प्रशमविमलं व्योम व्याप्य प्रियामवदत्स्मय-

स्मितसितमुखीं दृष्टं देवि त्वया मुनिचेष्टितम् ॥६७॥

 

भस्मस्मेरशरीरता पृथुजटाबन्धः शिरोमुण्डनं

कुण्डी दण्डकमण्डलुप्रणयिता चर्माक्षसूत्रग्रहः ।

काषायव्यसनं निरम्बररुचिः कङ्कालमालाधृतिः

कामक्रोधवशाद्विशेषरुचिरं सर्वं वृथैव व्रतम् ॥६८॥

 

दर्पोत्कोपात्परणितजटासूत्रबन्धच्च मोहा-

दन्तःसीदत्सरसविषयास्वादसंवादसङ्गात् ।

आशापाशव्यसननिचयाद्वासनालीनदोषा-

न्नैषां मुक्तिर्भवति तपसा कायसंशोषणेन ॥६९॥

 

इत्युक्तं त्रिपुरारिणा गिरिसुता श्रुत्वा यथार्थं वचो

निश्चित्य व्रतमप्रशान्तमनसां मिथ्यैव कायक्षयम् ।

संसारोपरमाय मोहरजसः शान्त्यै मुनीनां परं

रागद्वेषविमुक्तये च दयया चक्रे हरस्यार्थनाम् ॥७०॥

 

देव्यार्थितोऽथ भगवान्कृपया स्मरारि-

स्तेषामनुग्रहमयेन विलोकनेन ।

चक्रे स्मितस्नपितदिग्वदनो मुनीनां

लीनस्य मोहरजसः सहसैव शान्तिम् ॥७१॥

 

तपोविशेषैर्निशितप्रयत्नैस्तस्मान्न कार्यः पृथुमोहदर्पः ।

द्वेषेण रागेण मोहदयेन तपः क्षयं याति सह स्मयेन ॥७२॥

 

प्रशान्तोऽन्तस्तृष्णाविषमपरितापः शमजलै-

रशेषः संतोषामृतविसरपानेन वपुषः ।

असङ्गः संभोगः कमलदलकीलालतुल्या

भवारण्ये पुंसां परहितमुदारं खलु तपः ॥७३॥

N/A

References : N/A
Last Updated : May 22, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP