संसारदोषप्रशमैकहेतुः करोति विद्या यदि दर्पमोहम् ।

तदन्दकाराय भवत्यवश्यं साभ्रे नभस्यंशुमतोंशुमाला ॥१॥

 

शिक्षाभ्यासेन सुव्यक्तं पठन्त्यपि विहंगमाः ।

क एष विद्यया दर्पः कष्टप्राप्तैकदेशया ॥२॥

 

सा विद्या या मदं हन्ति सा श्रीर्यार्थिषु वर्षति ।

धर्मानुसारिणी या च सा बुद्धिरभिधीयते ॥३॥

 

यो विद्यागुरुरायाति लघुतां शीलविप्लवात् ।

तस्मै पण्डितमूर्खाय विपरीतात्मने नमः ॥४॥

 

विद्यां प्राप्य कृतं येन विद्वेषकलुषं मनः ।

तेनात्मा हन्त मूर्खेण स्नात्वा पांसूत्करैर्वृतः ॥५॥

 

विद्या श्रीरिव लोभेन द्वेषेणायाति निन्द्यताम् ।

भाति नम्रतयैवैषा लज्जयेव कुलाङ्गना ॥६॥

 

स्पृहणीय़ा सतां तावद्विद्या संतोषशालिनी ।

यावन्न पार्थिवास्थानपण्यस्थाने प्रसारिता ॥७॥

 

सद्गुणाः शुचयस्तावद्यावद्वादेन शोधकैः ।

प्रक्षाल्य न परीक्ष्यन्ते खलैर्भूपालसंसदि ॥८॥

 

अश्माप्यहृदयो यस्य गुणसारं परीक्षते ।

उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ॥९॥

 

कविभिर्नृपसेवासु चित्रालंकारहारिणी ।

वाणी वेश्येव लोभेन परोपकरणीकृता ॥१०॥

 

वादिभिः कलहोदर्कतर्कसंपर्ककर्कशा ।

वाणी क्रकचधारेव धर्ममूले निपातिता ॥११॥

 

साधुतेजोवधायैव तार्किकैः कर्कशीकृता ।

वाणी विवादिभिः क्रूरैः सौनिकैरिव कर्तरी ॥१२॥

 

शीलं नैव बिभर्ति कीर्तिविमले धत्ते न धर्मे धियं

मात्सर्येण मनीषिणां प्रतनुते पारुष्यदोषं गिरा॥

तर्कोक्त्या परलोककर्म नयति प्रायेण संदिग्धतां

यस्तस्याफलशास्त्रपाटनपटोर्मूढस्य किं विद्यया ॥१३॥

 

ये संसत्सु विवादिनः परयशःशल्येन शूलाकुलाः ।

कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम् ।

तेषां रोषकषायितोदरदृशां द्वेषोष्णनिःश्वासिनां

दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेगभूः ॥१४॥

 

शोच्यतां यात्यशीलेन विद्वेषेणापवित्रताम् ।

दर्पशापहता विद्या नश्यत्येव सहायुषा ॥१५॥

 

तपोवने मुनिवरौ मान्यौ मुनिमनीषिणाम् ।

पुरा रैभ्यभरद्वाजौ सुहृदौ चक्रतुः स्थितिम् ॥१६॥

 

पुत्रावभूतां रैभ्यस्य विद्याविमलदर्पणौ ।

स्पृहणीयौ गुणज्ञानां सर्वावसुपरावसू ॥१७॥

 

भरद्वाजस्य पुत्रोऽभूद्यवक्रीताभिधः सुताः ।

भवन्तविद्याः प्रायेण पितृप्रणयलालिताः ॥१८॥

 

स युवा रैभ्यतनयौ सर्वत्र श्रुतिविश्रुतौ ।

पश्यन्नात्मनि सासूयः पश्चात्तापाकुलोऽभवत् ॥१९॥

 

स गत्वा जाह्नवीतीरं निराहारकृशश्चिरम् ।

चचार निश्चलतनुस्तीव्रं विद्याप्तये तपः ॥२०॥

 

तं तपस्तापितात्मानं स्वयमेत्य शतक्रतुः ।

उवाच मिथ्यानिर्बन्धः कोऽयं ते मुनिपुत्रक ॥२१॥

 

अनधीता गुरुमुखात्कथं विद्याधिगम्यते ।

अनभ्यासेन पाण्डित्यं नभःकुसुमशेखरः ॥२२॥

 

अधुना विद्यया किं ते विद्यार्हं शैशवं गतम् ।

यत्फलं किल विद्यायास्तस्मिन्नवहितो भव ॥२३॥

 

शीलं परहितासक्तिरनुत्सेकः क्षमा धृतिः ।

अलोभश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् ॥२४॥

 

विवेकरहिता विद्या द्वेषरोषोष्मशोषिता ।

दर्पाशनिनिपातेन हता वल्लीव निष्फला ॥२५॥

 

एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः ।

यद्विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥२६॥

 

त्यक्त्वा प्रशमसंतोषौ विद्यायाः प्रथमं फलम् ।

नानाविपर्ययपथैर्गच्छन्त्यर्थफलार्थिनः ॥२७॥

 

उपकाराय या पुंसां न परस्य न चात्मनः ।

पत्रसंचयसंभारैः किं तया भारविद्यया ॥२८॥

 

अन्यायः प्रौढवादेन नीयते न्यायतां यया ।

न्यायश्चान्यायतां लोभत्किं तया क्षद्रविद्यया ॥२९॥

 

स्वजिह्वास्तुतिभिर्नित्यं पत्नीवोद्घाटितांशुका ।

क्रियते या सभामध्ये किं तया धृष्टविद्यया ॥३०॥

 

अनुष्ठानेन रहिता पाठमात्रेण केवलम् ।

रञ्जत्येव या लोकं किं तया शुकविद्यया ॥३१॥

 

गोप्यते या श्रुतज्ञस्य मूर्खस्याग्रे प्रकाश्यते ।

न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥३२॥

 

परोत्कर्षं समाच्छाद्य विक्रयाय प्रसार्यते ।

या मुहुर्धनिनामग्रे किं तया पण्यविद्यया ॥३३॥

 

न तीर्यते यया घोरः संसारमकराकरः ।

नित्यं चित्तानुबन्धिन्या किं तया मोहविद्यया ॥३४॥

 

नित्याभ्यासप्रयासेन जीवितं क्षीयते यया ।

त्रिवर्गस्योपरोधेन किं तया कष्टविद्यया ॥३५॥

 

न विवेकोचितां बुद्धिं न वैराग्यमयं मनः ।

संपादयति या पुंसां किं तया जडविद्यया ॥३६॥

 

शौचाशौचविवादेन त्यक्ता (?) श्रोत्रियता यया ।

मिथ्याभिमानयोगिन्या किं तया दम्भविद्यया ॥३७॥

 

परमात्सर्यशल्येन व्यथा संजायते यया ।

सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥३८॥

 

परसूक्तापहारेण स्वसृभाषितवादिना ।

उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥३९॥

 

अनभ्यासहतोत्साहा परेण परिभूयते ।

या लज्जाजननी जाड्यात्किं तया मन्दविद्यया ॥४०॥

 

लोभः प्रभूतवित्तस्य रागः प्रव्रजितस्य च ।

न यया शान्तिमायाति किं तयालीकविद्यया ॥४१॥

 

यया भूपतिमाश्रित्य परेषां गुणनिन्दकः ।

दानमानोन्नतिं हन्ति किं तया दोषविद्यया ॥४२॥

 

गृहे धाराधिरुढापि सभायां न प्रवर्तते ।

प्रतिभाभङ्गसङ्गाद्या किं तया मूकविद्यया ॥४३॥

 

चण्डं पिण्डार्थिनां द्वेषपिशुनानां शुनामिव ।

यया संजायते युद्धं किं तया वधविद्यया ॥४४॥

 

विस्मृता यावलिप्तस्य कण्ठे कृतगतागता ।

जीववृत्तिरिव क्षीणा किं तया मृतविद्यया ॥४५॥

 

रसायनी जराजीर्णश्चिररोगी यया भिषक् ।

धातुवादी दरिद्रश्च किं तया हास्यविद्यया ॥४६॥

 

यया मुग्धमृगाः कूटैः पीड्यन्ते तीव्रमार्गणैः ।

आशापाशावलम्बिन्या किं तया लुब्धविद्यया ॥४७॥

 

परोपतापः क्रियते वश्यादिकुहकैर्यया ।

यन्त्रतन्त्रानुसारिण्या किं तया व्याजविद्यया ॥४८॥

 

गुरुर्गर्वात्कविर्द्वेषाद्यतिर्भोगपरिग्रहात् ।

नृपः पापाद्द्विजः क्रोधात्सा विद्या वार्यते यया ॥४९॥

 

विद्यागुणास्ते विदुषां ये विवेकनिबन्धनम् ।

स्वल्पशिल्पकलातुल्याः शेषा जीवितहेतवः ॥५०॥

 

वीणेव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः ।

व्यसोः कुसुममालेव विद्या स्तब्धस्य निष्फला ॥५१॥

 

द्वेषदर्पहता विद्या कामक्रोधहता मतिः ।

लोभमोहहता वृत्तिर्येषां तेषां किमायुषा ॥५२॥

 

दूरे व्याकरणं कुरुष्व विषमं धातुक्षयक्षोभितं

मीमांसा विरसा न शोषयति किं तर्कैरलं कर्कशैः ।

न क्षीबः पतति स्मरभ्रमकरैः किं नव्यकाव्यासवै-

स्तस्मान्नित्यहिताय शान्तमनसां वैराग्यमारोग्यदम् ॥५३॥

 

इत्युक्तः सुरराजेन निश्चयान्न चचाल सः ।

अभिमानगृहीतानां दुर्निवारो हि दुर्ग्रहः ॥५४॥

 

अथ वृद्धद्विजो भूत्वा सिकतामुष्टिभिः शनैः ।

शक्रः प्रचक्रमे कर्तुं गङ्गायां सेतुबन्धनम् ॥५५॥

 

तं दृष्ट्वा निष्फलक्लेशविफलोद्योगनिश्चलम् ।

मुनिसूनुः कृपाविष्टः पप्रच्छाभ्येत्य सस्मितः ॥५६॥

 

ब्रह्मन्क एष निर्बन्धस्तव वन्ध्यसमुद्यमे ।

निष्फलं विपुलायासं न प्राज्ञाः कर्म कुर्वते ॥५७॥

 

अस्मिन्कुटिलकल्लोलदोलाविक्षोभितेऽम्भसि ।

हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ॥५८॥

 

इत्युक्ते मुनिपुत्रेण ब्राह्मणस्तमभाषत ।

अहो परोपदेशेषु सर्वो भवति पण्डितः ॥५९॥

 

अनधीतां बलाद्विद्यां तपसा प्राप्तुमिच्छसि ।

यथा त्वं निष्फलारम्भस्तथाहमपरो जडः ॥६०॥

 

एतद्द्विजवचः श्रुत्वा यथार्थं स्थगितोत्तरः ।

तथापि दृढसंकल्पः स्वकृत्यान्न चचाल सः ॥६१॥

 

अथास्य तीव्रतपसा शक्रः प्रादाद्वरं वरम् ।

सर्वविद्यानिधिर्येन सहसैव बभूव सः ॥६२॥

 

प्राप्तविद्यः स सोत्साहस्तूर्णं गत्वा स्वमाश्रमम् ।

निजां तपःफलावाप्तिकथां पित्रे न्यवेदयत् ॥६३॥

 

तं मदाक्रान्तमश्रान्तवृत्तसंस्कृतवादिनम् ।

भरद्वाजः प्रमोदेऽपि स्वेदाकुल इवावदत् ॥६४॥

 

पुत्र प्राप्ता त्वया विद्या तपस्तापात्किमुच्यते ।

किं त्वागामिभयादेतन्न युक्तं प्रतिभाति मे ॥६५॥

 

इतः समीपे रैभ्यस्य कोपनस्य तपोवनम् ।

विद्यामदान्धौ तत्पुत्रावर्वावसुपरावसू ॥६६॥

 

तावश्रान्तश्रुतोन्मादौ त्वं चाभिनवपण्डितः ।

तत्संगमे द्वेषमयः सदा संनिहितः कलिः ॥६७॥

 

ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः

सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः ।

अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः

कष्टा नूतनपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥६८॥

 

तव तत्र प्रयातस्य युक्तायुक्तविवादिनः ।

भविष्यति मुनेः शापादवश्यं मदनिग्रहः ॥६९॥

 

शुक्तिकारजतज्ञाननीलपीतादिदर्शनैः ।

उन्मादं जनयत्येव विद्यादर्पपिशाचिका ॥७०॥

 

एष विद्योपदेशेन विनाशः प्रार्थितस्त्वया ।

रैभ्याश्रमो न गन्तव्यः कर्तव्यं यदि मद्वचः ॥७१॥

 

इत्युक्तोऽप्यसकृत्पित्रा स गत्वा रैभ्यपुत्रयोः ।

व्यधाद्विवादनिर्वेदैः सदा विद्यामदक्षितिम् ॥७२॥

 

तं दर्पमत्तं साकोपभीमभ्रूभङ्गदुर्मुखौ ।

तावूचतुर्मनःसक्तविद्याविद्वेषशूलिनौ ॥७३॥

 

कनीयानावयोर्यस्माद्वयसा त्वं श्रुतेन च ।

करोषि वादैराक्षेपं तस्मादायुःक्षयोऽस्तु ते ॥७४॥

 

इत्युक्तोऽपि क्रुधा ताभ्यां न दर्पाद्विरराम सः ।

न प्रसन्नं न च क्रुद्धं गणयन्ति मदोद्धताः ॥७५॥

 

अत्रान्तरे भ्रमद्भृङ्गमालाभ्रूभङ्गविभ्रमः ।

कालः प्रोषितकान्तानां पुष्पकालः समाययौ ॥७६॥

 

क्षिप्तपत्त्राः सुमनसां रजःकलुषितेक्षणाः ।

सद्वेषा इव विद्वांसश्चेरुर्मलयमारुताः ॥७७॥

 

माधुर्यललितोदारवाणीविलसितैर्मुहुः ।

कवीनामिव संघर्षः कोकिलानामजायत ॥७८॥

 

रैभ्ये प्रयाते पुत्राभ्यां सह स्नातुं सरित्तटम् ।

भरद्वाजात्मजोऽभ्येत्य प्रविवेश तदाश्रमम् ॥७९॥

 

तत्र पुष्पोच्चयव्यग्रां धर्मपत्नीं पुरावसोः ।

सोऽपश्यत्सुप्रभां नाम रूपदर्पापहां रतेः ॥८०॥

 

उटजाङ्गनसक्तानां हरिणीनां विलोकने ।

विलासदीक्षां कुर्वाणां तरलापाङ्गमङ्गिभिः ॥८१॥

 

तां दृष्ट्वा चन्द्रवदनां मदनानन्ददेवताम् ।

बभूवोत्क्रान्तमर्यादः सहसैव मुनेः सुतः ॥८२॥

 

स ब्रह्मचारी कामेन नवेन तरलीकृतः ।

अभिलाषोचितं वक्तुमनभिज्ञोऽप्युवाच ताम् ॥८३॥

 

उन्मादनमिदं रूपमनुरूपं मनोभुवः ।

समुत्सिक्तमिवासक्तं करोति मम मानसम् ॥८४॥

 

विद्याविनयमुत्सृज्य संत्यज्य गुरुयन्त्रणाम् ।

त्वयि प्रवृत्तं चित्तं मे प्राग्जन्मप्रेमबन्धनम् ॥८५॥

 

जानामि यत्कृतस्यास्य विपाके कर्मणः फलम् ।

तथाप्यभिमतं धर्तुं न शक्नोमि करोमि किम् ॥८६॥

 

न श्रुतेन न वित्तेन न वृत्तेन न कर्मणा ।

प्रवृत्तं शक्यते रोद्धुं मनोभवपथे मनः ॥८७॥

 

इत्युक्त्वा तां भयोद्भ्रान्तनयनामाश्रमोन्मुखीम् ।

गन्तुं प्रवृत्तां सोऽभ्येत्य जग्राहांशुकपल्लवे ॥८८॥

 

कदली कुञ्जरेणेव तरसा तेन निर्जने ।

कृष्यमाणा तमवदत्सा निषेधचलाङ्गुलिः ॥८९॥

 

मा मा मलिनय स्वच्छं शीलं मम तथात्मनः ।

विद्याया निरवद्यायाः किमेतदुचितं फलम् ॥९०॥

 

शीलशुक्लांशुकां त्यक्त्वा लज्जां निजवधूमिव् ।

गृह्णासि परनारीणां पाणिना पटपल्लवम् ॥९१॥

 

किमेतदित्यनुचितं दृष्ट्वा नूनं कमण्डलुः ।

उद्ग्रीवः कौतुकेनेव मुखं तव निरीक्षते ॥९२॥

 

बिभ्रतोऽन्तर्गतरसां कुसुमेषुरुचिं नवाम् ।

जटावल्कलभारस्ते तरोरिव न शान्तये ॥९३॥

 

पापसंकल्पमात्रेण त्रपयाधोमुखी तव ।

पतिता स्पर्शभीत्येव कम्पलोलाक्षमालिका ॥९४॥

 

आसनाब्जे सरस्वत्या जपलोलरदच्छदे ।

दुर्नयोक्तिर्न युक्तेयं मुखे तव मनीषिणः ॥९५॥

 

इयं तपोवनमही विवेकजननी कथम् ।

जनयत्यभिलाषं ते जननीवाजितात्मनः ॥९६॥

 

दुर्मदो (दुर्दमो) यौवनभरस्तुरङ्ग इव हारकः ।

सर्वथा शिथिलात्मानमवटे क्षिपति क्षणात् ॥९७॥

 

धिग्धियं किं विवेकेन दूरे विश्राम्यतु श्रुतम् ।

धार्यते यैर्न संसारविकारस्खलितं मनः ॥९८॥

 

क्व विद्या विदिताशेषकार्याकार्यविमर्शधीः ।

मूढता क्व च दुष्कर्ममहापापकुटुम्बिनी ॥९९॥

 

इत्युच्यमानोऽपि यदा न स तत्याज दुर्ग्रहम् ।

शीलापहारसंत्रस्ता सा तदा समचिन्तयत् ॥१००॥

 

किं करोम्यजने लब्धा विवशाहं प्रमादिना ।

उत्सृष्टधर्मनिमयाः किं न कुर्वन्त्यवारिताः ॥१०१॥

 

अयं स्मरातुरस्तावद्वचसा न निवर्तते ।

वञ्च्यन्ते सान्त्ववादेन कामक्रोधमदोद्धता ॥१०२॥

 

इति ध्यात्वा तमवदत्सा शनैर्मृदुवादिनी ।

गच्छ त्वं स्वयमेष्यामि निशि शून्यलतागृहे ॥१०३॥

 

स्नात्वा सपुत्रः कालेऽस्मिन्नायाति श्वशुरो मम ।

ज्वलज्ज्वलनतुल्यस्य तस्याग्रे किं करिष्यसि ॥१०४॥

 

इत्युक्तः स तया प्रायात्सत्यं विज्ञाय तद्वचः ।

दुष्प्रापमपि मन्यन्ते सुलभं काममोहिताः ॥१० ५॥

 

रैभ्यं ततः समायातमग्न्यागाराग्रतः स्थितम् ।

स्नुषा प्रोवाच कोपाग्निधूमेनेवाश्रुवर्षिणी ॥१०६॥

 

भरद्वाजात्मजस्तात पापस्तव सुहृत्सुतः ।

ममाद्य विजने शीलविप्लवेऽभ्यर्थितां गतः ॥१०७॥

 

स मया दुर्ग्रहग्रस्तः समेष्यामीति वञ्चितः ।

विमुच्ये नान्यथा हस्तात्तस्य स्वस्तिमती सती ॥१०८॥

 

एतदाकर्ण्य सहसा प्रज्वलन्मन्युना मुनिः ।

बभूव दुर्निमित्तोल्कापातक्रूरे इवांशुमान् ॥१०९॥

 

विद्यावतां स्फुरत्यन्तर्विवेकः स्वस्थचेतसाम् ।

विकारकाले संमोहश्चित्ते विद्या च पुस्तके ॥११०॥

 

स निःश्वसन्नथ क्रोधज्वरारम्भारुणेक्षणः ।

अभिचारजपेनेव कम्पमानाधरोऽभ्यधात् ॥१११॥

 

अहो बत भरद्वाजः पुत्रस्याध्ययने व्यधात् ।

धर्मोपदेशं यत्नेन नग्नीकर्तुं पराङ्गनः ॥११२॥

 

इत्युक्त्वामर्षसंरम्भादपरं वक्तुमक्षमः ।

स प्रविश्याग्निसदनं प्रतीकारपरोऽभवत् ॥११३॥

 

उत्पाट्य विकटाटोपकोपः प्रौढाग्निपिङ्गलम् ।

स जुहाव जटां वह्नौ क्रूरक्रोधसटामिव ॥११४॥

 

द्वितीयायां हुतायां च शूलभृद्घोरराक्षसः ।

कृत्यासखः समुद्भूतः प्रोवाच प्रणतो मुनिम् ॥११५॥

 

किं करोमि मुने कस्य विनाशायास्मि निर्मितः ।

त्रैलोक्यमपि निर्दग्धुं संनद्धोऽहं त्वदाज्ञया ॥११६॥

 

इति ब्रुवाणं तं रैभ्यः क्रूराकारमभाषत ।

भरद्वाजसुतं गच्छ कवलीकुर्वपण्डितम् ॥११७॥

 

इति तेन समादिष्टः स व्रजन्कम्पितावनिः ।

अर्धशौचं मुनिसुतं दृष्ट्वा दुरात्समाद्रवत् ॥११८॥

 

तस्मिन्नभिद्रुते वेगाद्दीप्तशूले निशाचरे ।

भयभग्नगतिः प्राप शरणं न मुनेः सुतः ॥११९॥

 

पलायमानः संप्राप्तः स जवात्पितुराश्रमत् ।

अग्न्यागारं विशन्रुद्धः शूद्रेणाशौचदूषितः ॥१२०॥

 

दासस्पृष्टः स निःशौचः पतितः संभ्रमात्क्षितौ ।

रक्षः शूलहतः पश्चात्सहसा भस्मसादभूत् ॥१२१॥

 

अत्रान्तरे भरद्वाजः प्रविशन्निजमाश्रमम् ।

विध्वस्तच्छायमालोक्य सोद्वेगः समचिन्तयत् ॥१२२॥

 

मम पुष्पफलादानप्रत्यावृत्तस्य वह्नयः ।

सदोत्तिष्ठन्ति पुरतस्तेऽद्य किं निश्चला इव ॥१२३॥

 

इति संचिन्त्य दृष्ट्वाग्रे भस्मभीतं सुतं मुनिः ।

श्रुत्वा च दासकथितं वृत्तान्तं न्यपतद्भुवि ॥१२४॥

 

स लब्धसंज्ञः शनकैरवदद्बाष्पगद्गदम् ।

रैभ्योऽपि विद्वान्कालेन प्राप्नोतु स्वसुताद्वधम् ॥१२५॥

 

हा पुत्र रक्षितेनापि क्षणक्षयनिपातिना ।

न जीवामि सदोषेण कायेनेव त्वया विना ॥१२६॥

 

इत्युक्त्वा पुत्रशोकेन चिताग्निमविशन्मुनिः ।

महत्स्वपि नवोत्सेकादभग्नप्रसराः शुचः ॥१२७॥

 

अथ याते शनैः काले बृहद्युम्नस्य भूपतेः ।

याजकौ जग्मतुर्गेहमर्वावसुपरावसू ॥१२८॥

 

प्रवृत्ते विधिवत्तस्य दीर्घसत्त्रे पृथुश्रियः ।

दानमानोदयः कोऽपि तयोर्याजकयोरभूत् ॥१२९॥

 

कदाचिद्दिनपर्यन्तसंध्यायां निजमाश्रमम् ।

परावसुः समागच्छन्दृष्ट्वा पितरमग्रतः ॥१३०॥

 

कृष्णाजिनोत्तरासङ्गं दण्डेन मृगशङ्कया ।

जघान शापविवशः स तेनाभूद्विचेतनः ॥१३१॥

 

जनकं हतमालोक्य ब्रह्महत्याभयाकुलः ।

गत्वा यज्ञभुवं भ्रात्रे स तमर्थं न्यवेदयत् ॥१३२॥

 

अर्वावसुस्तमवदद्भ्रातः किं क्रियते विधेः ।

भवन्ति यस्य संकल्पादेवंरूपा विपर्ययाः ॥१३३॥

 

धर्मार्थी पापमाप्नोति शीलार्थी शीलविप्लवम् ।

विधौ विधुरतां याते द्रविणार्थी दरिद्रताम् ॥१३४॥

 

ब्रह्महत्याव्रतं तीव्रं भवतोऽर्थे चराम्यहम् ।

त्वमस्य कुरु भूभर्तुः संपूर्णां याजनक्रियाम् ॥१३५॥

 

उक्त्वेत्यर्वावसुर्भ्रातुः पापशान्त्यै धृतव्रतः ।

चकार सर्वतीर्थेषु तीव्रनिष्कृतिपारणम् ॥१३६॥

 

तं समाप्तव्रतं प्राप्तं राज्ञो यज्ञवसुंधराम् ।

दूरात्परावसुर्ज्ञात्वा पितृघ्नः समचिन्तयत् ॥१३७॥

 

अयं मे दक्षिणाकाले भागहर्ता समागतः ।

मदभाग्यैश्चिरं तीव्रव्रतक्लिष्टोऽपि जीवति ॥१३८॥

 

इति संचिन्त्य सोऽभ्येत्य प्रोवाच पृथिवीपतिम् ।

लोभमात्सर्ययोरङ्के पतितः पातकेच्छया ॥१३९॥

 

राजन्यज्ञमहीमेष किल्बिषी ब्रह्महत्यया ।

प्रविशत्यविकल्पेन मद्भ्राता वार्यतामितः ॥१४०॥

 

इत्युक्तस्तेन नृपतिः कृतघ्नेन विपर्ययात् ।

तस्य प्रवेशमज्ञानान्निष्पापस्य न्यवारयत् ॥१४१॥

 

अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् ।

पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥१४२॥

 

मिथ्यापवाददानेन नैव भ्रात्रे चुकोप सः ।

निकारे कारणं दैवं मन्यन्ते हि मनीषिणः ॥१४३॥

 

तेन तस्यानृशंस्येन निर्विकारतया तया ।

तुष्टाः क्रतुसमासीनास्तमूचुस्त्रिदिवौकसः ॥१४४॥

 

प्रशमेन तवानेन प्रसन्नास्ते वयं मुने ।

वरार्होऽपि वराचार गृह्यतां प्रवरो वरः ॥१४५॥

 

इत्युक्तः स सुरैः प्रीत्या तानुवाच कृताञ्जलिः ।

यदि युष्मद्वरार्होऽहं दीयतां यन्ममेप्सितम् ॥१४६॥

 

मत्पित्रा योऽभिचारेण भरद्वाजात्मजो हतः ।

स जीवत्वस्मृतक्रूरनिकारः स च तत्पिता ॥१४७॥

 

अस्मत्पिता मृगधिया यः परावसुना हतः ।

सोऽपि विस्मृततत्कोपः स्वस्थः प्राप्नोतु जीवितम् ॥१४८॥

 

इत्यर्थिते वरे तेन तथेत्याख्यायि तैः सुरैः ।

यवक्रीतभरद्वाजरैभ्याः प्रापुः स्वजीवितम् ॥१४९॥

 

इत्येते मुनयोऽपि दर्पविफले याते श्रुते शोच्यतां

क्रोधान्ध्येन पुनः प्रनष्टविमलालोके विवेके च्युते ।

शीले रागमहोष्मणा विगलिते द्वेषेण नाशं गताः

कस्यान्यस्य धनाभिमानमलिना विद्या विधत्ते गुणम् ॥१५०॥

 

चेतः शान्त्यै द्वेषदर्पोज्झितेन यत्नः कार्यः सर्वथा पण्डितेन ।

विद्यादीपः कामकोपाकुलाक्ष्णां दर्पान्धानां निष्फलालोक एव ॥१५१॥

 

अलोभः परमं वित्तमहिंसा परमं तपः ।

अमाया परमा विद्या निरवद्या मनीषिणाम् ॥१५२॥

 

शुक्रस्य विद्या धनदार्थहर्तुमार्याप्रपञ्चोपचितस्य शोच्या ।

कचस्य वाचस्पतिजन्मनोऽपि व्याजेन विद्या विफलीबभूव ॥१५३॥

 

स्पृशति मतिं नहि तेषां द्वेषविषः कलिसर्पः ।

यदि शमविमलमतीनां स्वमनसि भवति न दर्पः ॥१५४॥

N/A

References : N/A
Last Updated : May 22, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP