प्रशान्ताशेषविघ्नाय दर्पसर्पापसर्पणात् ।

सत्यामृतनिधानाय स्वप्रकाशविकासिने ॥१॥

 

संसारव्यतिरेकाय हृतोत्सेकाय चेतसः ।

प्रशमामृतसेकाय विवेकाय नमो नमः ॥२॥

 

क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः ।

स्वासथ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥३॥

 

कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा ।

प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥४॥

 

अहंकाराभिभूतानां भूतानामिव देहिनाम् ।

हिताय दर्पदलनं क्रियते मोहशान्तये ॥५॥

 

कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम् ।

लग्नः कोऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥६॥

 

कुलस्य कमलस्येव मूलमन्विष्यते यदि ।

दोषपङ्कप्रस्तान्तस्तदावश्यं प्रकाशते ॥७॥

 

यथा जात्यतुरंगस्य न शक्यज्जात्य(?)मुच्यते ।

तथा गुणवतः सूनुर्निर्गुणस्तत्कुलोद्भवः ॥८॥

 

एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः ।

अपरः पापकृन्मूर्खः कुलं कस्यानुर्वर्तताम् ॥९॥

 

लोके कुलं कुलं तावद्यावत्पूर्वसमन्वयः ।

गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥१०॥

 

कुलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम् ।

कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ॥११॥

 

कुलीनस्य कुलीनस्य नवदारिद्र्यलज्जया ।

किं कुलेनाकुलीनाग्रे याञ्चादैन्यप्रलापिनः ॥१२॥

 

गुणवत्कुलजातोऽपि निर्गुणः केन पूज्यते ।

दोग्ध्रीकुलोद्भवा धेनुर्वन्ध्या कस्योपयुज्यते ॥१३॥

 

स्वयं कुलकृतस्तस्माद्विचार्य त्यज्यतां मदः ।

गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥१४॥

 

मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं

स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् ।

एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः

संसक्तस्मररूढगूढचरितं तत्त्वेन जानाति कः ॥१५॥

 

कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा ।

योषित्स्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥१६॥

 

सूर्यवंशे त्रिशङ्कुर्यश्चण्डालोऽभून्महीपतिः ।

दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥१७॥

 

भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः ।

गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥१८॥

 

कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः ।

सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥१९॥

 

मथुरायामभूत्पूर्वं ब्राह्मणः श्रीमतां वरः ।

यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥२०॥

 

तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा ।

बभूव वल्लभा पत्नी लावण्यललिताकृतिः ॥२१॥

 

तस्यां तस्याभवत्कान्तः सुवृत्तः सगुणाग्रणीः ।

पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥२२॥

 

स धीमान्वेदविद्वादी कविः सर्वकलालयः ।

सभासु विदुषां चक्रे लज्जयावनतं शिरः ॥२३॥

 

तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः ।

प्रशमाय पिता स्नेहात्पथ्यं वक्तुं प्रचक्रमे ॥२४॥

 

पुत्र मिथ्याभिमानेन किं प्रयातोऽसि मूढताम् ।

यन्मदद्विरदारूढः पूज्यपूजासु लज्जसे ॥२५॥

 

नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम् ।

मूढानां क्रियते येन क्षनं हस्तावलम्बनम् ॥२६॥

 

कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः ।

मदः साधुजनाविष्टः कुलविद्याधनोद्भवः ॥२७॥

 

अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी ।

मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥२८॥

 

एतदेव कुलीनत्वमेतदेव गुणार्जनम् ।

यत्सदैव सतां सत्सु विनयावनतं शिरः ॥२९॥

 

दयैव विदिता विद्या सत्यमेवाक्षयं धनम् ।

अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥३०॥

 

अभोगसुभगा भूतिरदैन्यधवलं कुलम् ।

अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥३१॥

 

द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये ।

दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता ॥३२॥

 

त्यागिना किं दरिद्रेण किं कुलीनेन पापिना ।

तुष्टेन किं कदर्येण दर्पान्धेन बुधेन किम् ॥३३॥

 

वैरायते सुहृद्भावः प्रदानं हरणायते ।

दर्पभूताभिभूतस्य विद्या मौर्ख्यशतायते ॥३४॥

 

गुणिनां मत्सरः शत्रुर्लुब्धानामतियाचकः ।

सर्व एव सदर्पाणां न कश्चित्प्रियवादिनाम् ॥३५॥

 

तस्मात्कार्यस्त्वया पुत्र नाहंकारः कदाचन ।

दर्पोद्ग्रीवः किलोग्रेण मोहग्राहेण गृह्यते ॥३६॥

 

वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा

रूपेणातिमनोहरेण महता वित्तेन वृत्तेन वा ।

रोहन्मोहमहातरुर्मदमयः संजायते यः सदा

तस्यादौ दृढरूढमूलदलने कार्योऽभियोगस्त्वया ॥३७॥

 

गुणेष्वनादरं पुत्र प्राप्तश्रीरपि मा कृथाः ।

संपूर्णोऽपि घटः कूपाद्गुणच्छिन्नः पतत्यधः ॥३८॥

 

कुलाभिमानं त्यज संवृत्ताग्रं धनाभिमानं त्यज दृष्टनष्टम् ।

विद्याभिमानं त्यज पण्यरूपं रूपाभिमानं त्यज काललेह्यम् ॥३९॥

 

पुत्र प्रयत्नेन विबोधितोऽसि न मुञ्चसि त्वं यदि दर्पमोहम् ।

तदेष ते यास्यति शल्यभावं तीव्राभितापप्रसवोऽभिमानः ॥४०॥

 

विभूतिनलिनीगजः सुजनमानभङ्गशनि-

निपातपथदैशिकः सुकृतचित्रधूमोद्गमः ।

पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः

सदा समदचेतसां गुणविनाशहेतुर्मदः ॥४१॥

 

अनित्यतेयं यदि नित्यता स्यात्सर्वं न पाके विरसं यदि स्यात् ।

कुलार्थविद्यादिकृतोऽभिमानस्तदैष ते स्यान्न विडम्बनीयः ॥४२॥

 

अहं वादी विद्यापरिचयगुरुः सर्वविदुषा-

महं मानी वाणीप्रसरपरिपाकेन सुकविः ।

अहं लीलाहंसः कुवलयदृशां मानसचरः

करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥४३॥

 

लक्ष्मीः क्षणक्षयवती परिरक्षितापि

कायोऽप्यपायनिचयस्य निकाय एव

संभोगयोगसुखसंगतिरप्यतथ्या

मिथ्याभिमानकलनाघन एष शापः ॥४४॥

 

इत्युक्तोऽप्यसकृत्पित्रा लीलामीलितलोचनः ।

स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥४५॥

 

पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिन-

स्तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् ।

सस्वेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः

कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥४६॥

 

स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात् ।

प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥४७॥

 

तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः ।

खरस्तीव्रव्यथार्तोऽभूत्प्रक्षरत्क्षतजोक्षितः ॥४८॥

 

स्रुताक्षः कथितक्लेशः स्वस्वनोचितसंज्ञया ।

सोऽवदत्संमुखायातां गर्दभीं जननीं निजाम् ॥४९॥

 

मातर्ब्राह्मणपुत्रोऽयं पश्य मामधमाशयः ।

विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ॥५०॥

 

किं करोमि यमेनाहं लब्धोऽनेन दुरात्मना ।

अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥५१॥

 

इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी ।

तमुवाच ससंतापं स्नेहसंक्रन्ततद्यथा ॥५२॥

 

वहैन्ं दुर्मदं पुत्र सहस्व विषमां व्यथाम् ।

अस्य नास्त्येव हृदये दारुणे करुणाकणः ॥५३॥

 

रौद्रः शूद्रेण जातोऽयं ब्राह्मण्यां ब्रह्मवर्जितः ।

परदुःखं न जानाति चण्डं चण्डालचेष्टितः ॥५४॥

 

दयादरिद्रं हृदयं वचः क्रकचकर्कशम् ।

योनिसंकरजातानामेतत्प्रत्यक्षलक्षणम् ॥५५॥

 

नवनीतोपमा वाणी करुणाकोमलं मनः ।

एकबीजप्रजातानां भवत्यवनतं शिरः ॥५६॥

 

रटति कटुकाटोपं कोपादकारणवैरवा-

न्स्पृशति न दयां दैन्यापन्ने विजातितया शठः ।

क्षणरसिकतालोलः सेवाश्रितानवमन्यते

गुणिषु कुरुते गर्वोद्गारानखर्वगलः खलः ॥५७॥

 

इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः ।

सर्वप्राणिस्वनाभिज्ञः संमोहाभिहतोऽपतत् ॥५८॥

 

स लब्धसंज्ञः सुचिरान्मेरुशृङ्गादिव च्युतः ।

तत्याज सहसा दर्पं नष्टाखिलकुलोन्नतिः ॥५९॥

 

संमूर्च्छितो विषेणेव स गत्वा मातुरन्तिकम् ।

यथाश्रुतं निवेद्यास्यै सर्वं पप्रच्छ तां रहः ॥६०॥

 

तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता ।

अधोमुखी तमवदद्वैलक्ष्यलुलिताक्षरैः ॥६१॥

 

लज्जाकरमसत्कर्म कथं तत्कथयामि ते ।

संसारादपि साश्चर्यं गहनं स्त्रीविचेष्टितम् ॥६२॥

 

अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् ।

अपि विद्युद्विलसिताद्विलोलं ललनामनः ॥६३॥

 

न बाध्यन्ते गुणैः पत्युर्न लक्ष्यन्ते परीक्षकैः ।

न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥६४॥

 

धनयौवनसंजातदर्पकालुष्यविप्लवाः ।

केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ॥६५॥

 

देहप्रदाः प्राणहरा नराणां भीरुस्वभावाः प्रविशन्ति वह्निम् ।

क्रूराः परं पल्लवपेशलाङ्ग्यो मुग्धा विदग्धानपि वञ्चयन्ति ॥६६॥

 

अहं पुर रजःस्नाता काले कुसुमुलाञ्छने ।

एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥६७॥

 

व्रतदीक्षापरे पत्यौ सेर्ष्येव विनतानना ।

उन्नतस्तनविन्यस्तहस्ता चिरमचिन्तयम् ॥६८॥

 

एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदस्वनैः ।

सोत्कण्ठमिव गायन्ति लताः पुष्परजखलाः ॥६९॥

 

उद्भिन्नयौवनाक्रान्ता प्रियभोगवियोगिनी ।

व्रतशेषजुषः पत्युर्दोषेणैवास्मि निष्फला ॥७०॥

 

इति चिन्ताक्षणे तस्मिंल्लग्नाभिमुखदर्पणः ।

नापितः परिहासाख्यः शीलशत्रुरिवाययौ ॥७१॥

 

स मामेकाकिनीं दृष्ट्वा नष्टसंवृत्तिकातराम् ।

पस्पर्शोत्कम्पिनीं पादनखग्रहणलीलया ॥७२॥

 

तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया ।

अधोमुखी च्युतं शीलं वीक्षमाणेव मूर्च्छिता ॥७३॥

 

अविदूरे चरन्ती सा खरी सर्वं ददर्श तत् ।

गूढगर्भप्रदं चैतत्कर्म मे कुलपातकम् ॥७४॥

 

आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया ।

संवृत्तान्येव शोभन्ते शरीराणि कुलानि च ॥७५॥

 

इति मातुर्वचः श्रुत्वा यातः स सहसान्धताम् ।

जातिमानावपतनान्निर्जीवित इवाभवत् ॥७६॥

 

अथ गत्वा निराहारः स कैलासाट्टाहासिनीम् ।

आशां ब्राह्मण्यबद्धाशश्चचार सुचिरं तपः ॥७७॥

 

तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः ।

ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ॥७८॥

 

पुनः पुनः स तपसा संतापितजगत्त्रयः ।

सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥७९॥

 

छन्दोदेवाभिधानोऽथ सोऽभवद्भुवि विश्रुतः ।

प्रत्यब्दमेकदिवसे ह्यर्चनीयो मृगीदृशाम् ॥८०॥

 

संमोहपातालविशालसर्पस्तस्मान्न कार्यः कुलजातिदर्पः ।

शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ॥८१॥

 

माता न यस्यास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य ।

यस्य प्रसक्ता दयिता न तृष्णा स एव लोके कुशली कुलीनः ॥८२॥

N/A

References : N/A
Last Updated : May 21, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP