अहं शूरः क्रूरप्रतिभटघटापाटनपटु-
स्तरस्वी सेनायां हयगजघटानामधिपतिः
।
इति प्रौढः पुंसां निजभुजबलाक्रान्तजगतां
भवत्यन्तर्दर्पः परिभवपदं
कालगलितः ॥१॥
शौर्येण दर्पः पुरुषस्य कोऽयं
दृष्टस्तिरश्चामपि शूरभावः ।
औचित्यहीनं विनयव्यपेतं दयादरिद्रं
न वदन्ति शौर्यम् ॥२॥
बालस्य शौर्यं कुसुमोपमस्य
मातुः प्रहारे प्रणयस्मितेषु ।
वृद्धस्य शौर्यं शिथिलाङ्गसंधेः
स्वश्लाघया पूर्वकथापथेषु ॥३॥
वयस्त्रिभागे तरुणस्य शौर्यं
यदेव दर्पप्रभवाभिभूतम् ।
तच्चित्तवृत्तेर्विविधस्वभावात्पर्यायशो
यात्यतिवैपरीत्यम् ॥४॥
verse 5 corrupted
ह्यो येन भग्नाः पुरतोऽरिसेना
भीतः स एवाद्य भवत्यधीरः ।
वृत्रेण शक्रः समरे निगीर्णः
फेनेन शक्रः स जघान वृत्रम् ॥६॥
verse 7 corrupted
यः कार्तवीर्यस्य च दोःसहस्रं
विच्छेद वीरो नहि युधि जामदग्न्यः ।
स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी
बभूव ॥८॥
रामोऽपि साहायकलाभलोभाच्चक्रे
कपेः संश्रयदैन्यसेवाम् ।
शूरप्रतापः शिशिरर्तुनेव
कालेन लीढस्तनुतामुपैति ॥९॥
वाली प्रसह्य प्लवगः करेण
सोल्लासकैलाससहं दशास्यम् ।
निक्षिप्य कक्षाञ्चलसंधिबन्धे
सप्ताब्धिसंध्याविधिमन्वतिष्ठत् ॥१०॥
युद्धोद्धता भूपतयः प्रसिद्धा
बद्धा जरासंधनृपेण पूर्वम् ।
सभीमसेनेन भुजायुधेन द्विधा
कृतः संधिविदारणेन ॥११॥
भीमोऽपि कर्णेन विकीर्णधैर्यः
प्रमूढशक्तिः कृपया विमुक्तः ।
कर्णेऽर्जुनस्याततकार्मुकस्य
क्षणात्क्षणं याचकतां प्रयातः ॥१२॥
त्यक्त्वार्जुनः कृष्णकलत्रवर्गं
जगाम गोपालबलाभिभूतः ।
न ज्ञायते दैवपथानुयाता शौर्यस्य
वृत्तिः करिकर्णलोला ॥१३॥
भीरुः शूरत्वमायाति शूरोऽप्यायाति
भीरुताम् ।
न क्वचिच्चपलस्यास्य शौर्यस्य
नियता स्थितिः ॥१४॥
बाणस्त्र्यक्षेण कंसारिचक्रधारापथातिथिः
।
आजन्मभक्तिप्रणयी रक्षणार्हो
न रक्षितः ॥१५॥
वेगाप्ते कालयवने मुचुकुन्दमशिश्रियत्
।
शौरिः शयनपर्यङ्कतलसंकुचिताकृतिः
॥१६॥
शिशुपालस्य शिरसि च्छिन्ने
चक्रेण चक्रिणा ।
दृष्टिः कृता न चापेषु नृपैस्तत्पक्षिपातिभिः
॥१७॥
भीमनिष्पीयमाणसृग्दृष्टो
दुर्योधनानुजः ।
अशस्त्राभिरेव स्त्रीभिर्द्रोणकर्णकृपादिभिः
॥१८॥
स्फाराजगरसंरुद्धभुजद्वन्द्वो
वृकोदरः ।
जननीकरुणाक्रन्दनिनादमुखरोऽभवत्
॥१९॥
महतामपि पूर्वेषामेवंरूपा
मदक्षितिः ।
सामान्यविक्रमोद्दामश्लाघा
केनाभिनन्द्यते ॥२०॥
अशक्ते रौद्रतातैक्ष्ण्यं
तीव्रपापेषु धीरता ।
छद्मधीर्वाचि पारुष्यं नीचानां
शौर्यमीदृशम् ॥२१॥
निष्कारणनृशंसस्य शौर्यं
हिंस्रत्वमुच्यते ।
यः सर्प इव संनद्धः प्राणभाधाय
देहिनाम् ॥२२॥
एतदेव परं शौर्यं यत्परप्राणरक्षणम्
।
नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम्
॥२३॥
न कश्चिद्बुद्धिहीनस्य शौर्येण
क्रियते गुणः ।
पर्जन्यगर्जितामर्षी श्वभ्रे
पतति केसरी ॥२४॥
किं शौर्येण सरागस्य मदक्षीबस्य
दन्तिनः ।
बन्धकीलाभलोभेन यः क्षिपत्यवटे
तनुम् ॥२५॥
शौर्यं विक्रीतकायस्य सेवकस्य
किमद्भुतम् ।
मेषस्येव वधो यस्य सूनाबद्धस्य्
निश्चितः ॥२६॥
न दर्पविकृतं शौर्यं न मायामलिनं
मनः ।
न द्वेषोष्णं श्रुतं येषां
गण्यन्ते तद्गुणा बुधैः ॥२७॥
कुलं कुतनयेनेव लोभेनेव गुणोदयः
।
ऐश्वर्यं दुर्नयेनेव शौर्यं
दर्पेण नश्यति ॥२८॥
प्रभावभवनस्तम्भ इव दम्भोद्भवोऽभवत्
।
सप्ताब्धिपरिखालेखमेखलायाः
प्रभुर्भुवः ॥२९॥
तस्य निःशेषितारातेः सदा
युद्धमनोरथः ।
अप्राप्तप्रतिमल्लस्य ययौ
हृदयशल्यताम् ॥३०॥
स सुरासुरयुद्धाप्तदर्पदर्पितमानसः
।
कः कोऽस्ति शूरः संरम्भादित्यपृच्छत्सदाजनम्
॥३१॥
दर्पकण्डूलदोर्दण्डं पृच्छन्तं
रभसेन तम् ।
सर्वावमानसंनद्धं जगादाभ्येत्य
नारदः ॥३२॥
नास्ति त्वत्सदृशः शूरस्त्रैलोक्ये
सत्यमुच्यते ।
किं तु जाने रणार्हौ ते नरनारायणावृषी
॥३३॥
बदर्याश्रमसंसक्तौ तीव्रे
तपसि निष्ठितौ ।
युद्धेच्छौ तौ यदि स्यातां
तत्पूर्णस्ते मनोरथः ॥३४॥
नारदेनेत्यभिहिते स बदर्याश्रमं
ययौ ।
विलोकयन्निजभुजौ प्रत्यासन्नरणोत्सवौ
॥३५॥
दृष्ट्वा तेजोनिधी तत्र नरनारायणौ
नृपः ।
मनोरथपथाभ्यस्तं ययाचे युद्धमुद्धतः
॥३६॥
तं युद्धकामुकं तिर्यग्दृशा
गम्भीरधीरया ।
विलोक्योवाच सावज्ञस्मितदिग्धाधरं
नरः ॥३७॥
महीपते निवर्तस्व न वयं युद्धकोविदाः
।
युक्तस्तैरेव सङ्ग्रामस्तव
ये भूम्यनन्तराः ॥३८॥
इत्युक्तोऽपि यदा राजा न
चचाल रणादरात् ।
तदा तं दृप्तमैषीकनिशितास्त्रैरपूरयत्
॥३९॥
प्रदीप्तज्वलनाकारैः शरैराकीर्णविग्रहः
।
विनष्टविग्रहरुचिर्नृपस्तत्याज
धीरताम् ॥४०॥
अकाण्डखण्डितोच्चण्डदर्पज्वरभरो
नृपः ।
कृपणः प्राणरक्षायै तमेव
शरणं ययौ ॥४१॥
वारितास्त्रस्ततस्तेन भग्नमानमनोरथः
।
लज्जाविकुण्ठकण्ठः स्वां
राजधानीं ययौ नृपः ॥४२॥
इति मानस्य महतामपि घोराशनिर्मदः
।
लोहस्य स्वमलेनेव क्षयो दर्पेण
तेजसः ॥४३॥
तस्मात्सदा मानधनेन पुंसा
दर्पः प्रयत्नेन निवारणीयः ।
दर्पोग्रवक्त्रस्य सुहृज्जनोऽपि
सर्वात्मना तिव्रनिपातसज्जः ।
अदर्पशौर्यस्पृहणीयसत्त्वा
गोविप्ररक्षाक्षपितस्वदेहाः ।
प्रयान्ति वीराः सुकृतामृताद्रैर्यशःशरीरैरजरामरत्वम्
॥४५॥