जगत्येको भद्रद्विरद इव दानार्द्रसरणि-
र्यशस्वी निःस्वानामहमभिमताशाफलतरुः
।
इति त्यागोदग्रं वहति किल
दर्पं मनसि य-
स्तदुद्भूतं सर्वं सुकृतमपहाय
व्रजति सः ॥१॥
स्वर्गादिसंभोगफलाभिलाषात्पात्राय
पूजां प्रतिपद्यते यः ।
धर्मार्थपण्यक्रयविक्रयोऽसौ
कस्तेन दानप्रभवोऽभिमानः ॥२॥
यद्विद्यादिगुणोत्कर्षविशेषपरितोषितैः
।
दीयते प्रीतिधनयोः स पण्यक्रयविक्रयः॥
३॥
लोकप्रसिद्धिसिद्ध्यै यः
प्रयच्छति गुणस्तवैः ।
करोति वित्तयशसोः स तदा क्रयविक्रयम्
॥४॥
अवमानहतं यच्च दत्तमश्रद्धया
धनम् ।
ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव
तत् ॥५॥
त्यागिनोऽन्यस्य संघर्षे
कीर्त्युत्कर्षजिगीषया ।
दत्तं कारणभूतस्य तस्यैवान्ते
फलप्रदम् ॥६॥
परार्तिशमनं वित्तमज्ञातमनुदीरितम्
।
अफलाकाङ्क्षया युक्तं प्रयात्यल्पमनल्पताम्
॥७॥
कुरुक्षेत्रादिदेशेषु कालेष्वर्कग्रहादिषु
।
आत्मोपकारमात्रेण पात्रे
दानेन किं मदः ॥८॥
देशकालक्रियापात्राण्यविचार्यैव
केवलम् ।
परेषामार्तिशमनं दयार्द्रं
दानमुच्यते ॥९॥
रक्षायै संपदां पुत्रकलत्रसुखसिद्धये
।
दीयते यत्प्रयत्नेन लोभदानेन
तेन किम् ॥१०॥
वादे खलैः खलीकृत्य वेधद्रुतपरीक्षया
।
दीयते यच्चिरक्लिष्टं कष्टदानेन
तेन किम् ॥११॥
त्यक्त्वाशागतसत्पात्रं पूर्णायाभ्यर्थ्य
दीयते ।
यत्तदुच्छ्वाससंतप्तं दग्धदानेन
तेन किम् ॥१२॥
अन्यदाभाषितं पूर्वं दत्तमन्यत्ततोऽल्पकम्
।
यत्सदोषमयोग्यं वा कूटदानेन
तेन किम् ॥१३॥
चिरसेवानुरोधेन लोभकृच्छ्रादनिच्छया
।
अप्रसादेन यद्दत्तं बलादानेन
तेन किम् ॥१४॥
यत्पुष्पधूपतिलकप्रतिपत्तिप्रदर्शितम्
।
दत्तमत्यल्पनिःसारं दम्भदानेन
तेन किम् ॥१५॥
प्रभूतभारसंभारं राजचौरादिविप्लवे
।
दत्त्वा यद्दुष्टमुद्घुष्टं
शल्यदानेन तेन किम् ॥१६॥
अनास्वाद्यमविक्रेयमनादेयमनीप्सितम्
।
दत्तं निरुपकारं यद्वन्ध्यदानेन
तेन किम् ॥१७॥
ऋणवच्चिरसंशोध्यं वचसा प्रतिपादितम्
।
यन्नित्ययाचनद्वेषं याच्यदानेन
तेन किम् ॥१८॥
एकस्मै पूर्णमन्यस्मै कृशं
तुल्यगुणोदये ।
भेदाद्यदर्पितं रागद्वेषदानेन
तेन किम् ॥१९॥
ऋणदैः स्वजनैः पुत्रैर्लब्धक्षामप्रतिग्रहः
।
नित्यमायास्यते येन कलिदानेन
तेन किम् ॥२०॥
न परस्यार्तिशनमं नात्मनः
पुण्यकारणम् ।
दत्ताल्पमूल्येनाप्तं यत्स्वल्पदानेन
तेन किम् ॥२१॥
दुर्ग्रहेषु विरुद्धेषु दशापाकेऽतिदारुणे
।
दीयते दोषशान्त्यै यद्भयदानेन
तेन किम् ॥२२॥
मुमूर्षस्त्यक्तसर्वाशः शयनस्थो
ददाति यत् ।
मूर्च्छास्थानेन मनसा मोहदानेन
तेन किम् ॥२३॥
दत्तं प्रियवियोगोग्रशोकशल्यार्तचेतसा
।
यत्पश्चात्तापजननं बाष्पदानेन
तेन किम् ॥२४॥
पुरोहिताय गुरवे शान्तिस्वस्तिविधायिने
।
दीयते यत्प्रसङ्गेन भृतिदानेन
तेन किम् ॥२५॥
यत्संत्यक्तफलस्पृहं यदुचितं
सर्वस्वभूतं च य-
न्नान्यायेन यदर्जितं परधनस्पर्शेन
शप्तं न यत् ।
दत्त्वा दुःखशतं न यत्स्ववचसा
पश्चान्न यद्गण्यते
तद्दानं धनबीजवापनिपुणः शेषः
प्रकारः कृषेः ॥२६॥
प्राप्तुं स्वर्गवराङ्गनास्तनतटस्पर्शातिरिक्तं
सुखं
दत्तो मेरुरपि प्रयाति तृणतामात्मोपकारेच्छया
।
आपन्नार्तिविलोकने करुणया
श्रद्धासुधापूरितं
सत्त्वोत्साहसमन्वितं तृणमपि
त्रैलोक्यदानाधिकम् ॥२७॥
युधिष्ठिरस्य भूभर्तुः पुरा
कनकवर्षिणः ।
अश्वमेधे विधानेन वर्तमाने
महाक्रतौ ॥२८॥
सज्जासु राजभोज्यासु विविधास्वन्नपालिषु
।
अनिशं रत्नपात्रेषु भुञ्जानेषु
द्विजन्मसु ॥२९॥
विप्रेषु पूर्यमाणेषु मणिकाञ्चनशासनैः
।
उच्छिष्टभूमिं नकुलः स्वबिलात्समुपाययौ
॥३०॥
दीप्तकाञ्चनवर्णेन पार्श्वेनैकेन
शोभितः ।
अपरेणासुवर्णेन वितीर्णजनकौतुकः
॥३१॥
सोऽभ्येत्य तूर्णमुच्छिष्टहेमपात्रच्युतेऽम्भसि
।
लुलोठ शफरोत्फालपरिवर्तविवर्तनैः
॥३२॥
सुवर्णपार्श्वं नकुलं दृष्ट्वा
सर्वे कुतूहलात् ।
मज्जन्तमुच्छिष्टजले क्षितिपाय
न्यवेदयन् ॥३३॥
प्राप्तेन भूभुजा दृष्ट्वा
पृष्ट इवेष्टया ।
सोऽवदद्विस्मयभुवा सुस्पष्टाक्षरया
गिरा ॥३४॥
राजन्नस्यातिदानस्य न पश्याम्युचितं
फलम् ।
अस्मात्प्रभूतसंभारात्सक्तुपात्रं
वरं परम् ॥३५॥
प्रवृत्तेऽस्मिन्महादाने
महतस्ते महीपते ।
वित्ते वृत्ते च चित्ते च
शुद्धिं को वेत्ति तत्त्वतः ॥३६॥
संभारोऽयं भुवनभवनव्याप्तिपर्याप्तभोगः
।
सर्वाशासु प्रततजनतापूरणेऽत्यन्ततुच्छः
।
आपन्नार्तिप्रशमनविधौ सत्त्वशुद्धिप्रदाने
संनद्धानामपि तृणकणः काञ्चनाद्रित्वमेति
॥३७॥
श्रूयताम् यन्मया दृष्टं
भूपते स्वयमद्भुतम् ।
उदेत्युदीरिते यस्मिन्काये
रोमाञ्चकञ्चुकः ॥३८॥
शिलोञ्छवृत्तिना पूर्वं विप्रेण
क्षेत्रचारिणा ।
उपवासकृशेनाप्तं यवस्तोकं
कलत्रिणा ॥३९॥
सक्तुपात्रे ततः सिद्धे कृतदेवपितृक्रियः
।
जायापुत्रविभागेन स्वं भागं
भोक्तुमुद्ययौ ॥४०॥
स प्राणाहुतितोयार्थी ददर्शातिथिमागतम्
।
क्षुत्क्षामकुक्षिं संक्षिप्तसर्वाङ्गशिथिलाकृतिम्
॥४१॥
तस्मै विहितसत्कारः सप्रसादेन
चेतसा ।
श्रद्धासुधावसिक्तं तत्स
ददौ निजभोजनम् ॥४२॥
निगीर्णोऽतिथिना तस्मिन्नक्षीणक्षुद्विकारिणा
।
तद्भार्याप्यादरवती तस्मै
स्वमशनं ददौ ॥४३॥
तेनाप्यतृप्तिमालोक्य तत्सूनुः
श्रद्धयातिथिम् ।
स्वभोजनेन विदधे संपूर्णाशननिर्वृत्तम्
॥४४॥
गते भुक्त्वातिथौ तस्मिन्नुपवासकृशो
द्विजः ।
सत्त्वोत्साहयुतस्तस्थौ क्लान्तोऽपि
निशि निर्व्यथः ॥४५॥
अथाहं सक्तुगन्धेन निर्गतः
क्षुधितो बिलात् ।
प्राप्तस्तत्पर्णकुटिकामुत्सृष्टोच्छिष्टवर्तिनीम्
॥४६॥
तत्राचमनतोयेन स्पृष्टमात्रस्य
मे नृप ।
पस्य मे दक्षिणं पार्श्वं
जतं हेममयच्छवि ॥४७॥
ततोऽहं वामपार्श्वस्य हेमच्छायाप्तये
सदा ।
निर्निद्रश्चिन्तया यातः
कृशतामेव केवलम् ॥४८॥
यद्यत्प्राप्नोति पुरुषः
कर्मयोगात्समीहितम् ।
तत्तत्संपूर्णायैव याति चिन्ताविधेयताम्
॥४९॥
अधुना वर्तमानेऽस्मिन्नश्वमेधे
तव क्रतौ ।
हेमपार्श्वाशयायातो विप्रोच्छिष्टामहीमहम्
॥५०॥
रत्नकाञ्चनपात्राम्बुसिक्तस्य
लुठतश्चिरम् ।
मम कान्तिलवोऽप्यङ्गे न कश्चिदिह
दृश्यते ॥५१॥
सर्वथा सत्त्वशुद्धाय दानायातिलघीयसे
।
नमो महाफलायैव न भोगाङ्गप्रसङ्गिने
॥५२॥
इत्युक्त्वा नकुले याते तत्तथेति
युधिष्ठिरः ।
विचिन्त्य संततोच्छ्वासः
क्षणं स्तिमिततां ययौ ॥५३॥
तस्मात्सुवर्णाम्बररत्नभूमिदानैर्न
दर्पः पुरुषेण कार्यः ।
भवत्युदारं करुणार्द्रसत्त्वं
दानं सदा कस्यचिदेव पुण्यैः ॥५४॥