धनेन दर्पः किमयं नराणां
लक्ष्मीकटाक्षाञ्चलचञ्चलेन ।
यत्कंधराबद्धमपि प्रयाति
नैकं पदं कालगतस्य पश्चात् ॥१॥
सुरक्षितं तिष्ठति निर्निमित्तमरक्षितं
तिष्ठति दैवयोगात् ।
स्थितं कदर्यस्य च चोपयुक्तमुन्मत्तनृत्तोपममेव
वित्तम् ॥२॥
कर्मोक्तिनर्मनिर्माणैः प्रातः
प्रातः प्रधावताम् ।
धनं धनं प्रलपतां निधनं विस्मृतं
नृणाम् ॥३॥
विच्छाययोर्निर्व्यययोः कष्टक्लिष्टकलत्रयोः
।
विशेषः क्लेशदोषस्य कः कदर्यदरिद्रयोः
॥४॥
ये धनादानसंनद्धा नेक्षन्ते
निधनावधिम् ।
निन्दन्तो लुब्धतां तेषामन्तेऽन्ये
भुञ्जते धनम् ॥५॥
उक्तं परस्यामिषतामनुक्तं
यात्यदृश्यताम् ।
हृदये शल्यतां धत्ते निधने
धनिनां धनम् ॥६॥
धनेन जीवितेनेव कण्ठस्थेन
निरीक्षते ।
पर्यन्तेऽप्यप्रकाशेन बन्धूनां
मुखमातुरः ॥७॥
यदर्जितं परिक्लेशैरर्जितं
यन्न भुज्यते ।
विभज्यते यदन्तेऽन्यः कस्यचिन्मास्तु
तद्धनम् ॥८॥
विद्या विवादाय धनं मदाय
प्रज्ञाप्रकर्षः परवञ्चनाय ।
अत्युन्नतिर्लोकपराभवाय येषां
प्रकाशस्तिमिरं हि तेषाम् ॥९॥
अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरै-
र्गतच्छायः कायश्चिरविरसरूक्षाशनतया
।
अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलभया-
त्कदर्याणां कष्टं स्फुटमधनकष्टादपि
परम् ॥१०॥
श्रावस्त्यां सार्थवाहोऽभूदर्थनाथ
इवापरः ।
नन्दो नाम निरानन्दः कीर्तनेनार्थिनामपि
॥११॥
स कदर्यः सदा सर्वजनस्योद्वेगदुःसहः
।
मूर्धशायी निधानानां कालव्याल
इवाभवत् ॥१२॥
कृत्वा समस्तं दिवसं धनानां
निधानकुम्भीगणनाविधानम् ।
स लाजपेयापलमानशीलमश्नाति
रात्रावुदरं सशूलम् (?) ॥१३॥
निर्व्यञ्जनं निर्लवणं विनष्टममृष्टपाकं
विनिविष्टकष्टम् ।
अदृष्टहासं व्ययसंनिरोधात्तस्याभवद्वेश्म
सशोकमूकम् ॥१४॥
विच्छायं निःसुखानन्दं निर्दीपं
जलवर्जितम् ।
तस्य कष्टं कदर्यस्य परलोकमभूद्गृहम्
॥१५॥
स भक्तसंचये नित्यमभक्तः
संततामयैः ।
सुवर्णवान्विवर्णोऽभूत्संपूर्णश्चिन्तया
कृशः ॥१६॥
पुण्यप्राप्या मतिर्नाम धनर्द्धिरिव
रूपिणी ।
भार्याभूत्तदयोग्यस्य तस्य
दैवविपर्ययात् ॥१७॥
सदा प्रच्छाद्य सा भर्तुश्चकारातिथिसत्क्रियाम्
।
तेन व्ययविवादेषु शोषिता
कलहाग्निना ॥१८॥
तस्यां तस्याभवत्सूनुः सगुणश्चन्दनाभिधः
।
पित्रा लोभान्धकारेण नीतः
पद्म इवान्यताम् ॥१९॥
कदाचित्स्वगृहद्वारि दृष्ट्वा
लब्धान्नमर्थिनम् ।
चकार कलहं नन्दः पत्न्या
शोणितपातनम् ॥२०॥
सोऽवदत्कोपदष्टौष्ठः श्वसन्भार्यामधोमुखीम्
।
तत्स्पर्सपापं स्तनयोः क्षाल्यन्तीमिवाश्रुभिः
॥२१॥
मम दास्यति को भिक्षां त्वत्पाणिक्षीणसंपदः
।
दारिद्र्यजननी यस्य स्थिता
त्वं दुर्भगा गृहे ॥२२॥
स्त्रियो यत्र प्रगल्भन्ते
भर्तुराच्छाद्य कर्तृताम् ।
गृहं भवत्यवश्यं तदास्पदं
परमापदाम् ॥२३॥
गृहमेकं गृहस्थस्य गृहाणां
शतमर्थिनः ।
भार्याभर्जितवित्तस्य नष्टा
गृहपतेर्गतिः ॥२४॥
तृप्तिदं दर्शनेनापि जन्तोर्जीवितजीवितम्
।
द्रविणं येन रक्षन्ति स्वकायं
भक्षयन्ति ते ॥२५॥
जीवन्नप्यक्रियो निःस्वः
शवोऽप्यर्थेन सक्रियः ।
दारिद्र्यं मरणं लोके धनमायुः
शरीरिणाम् ॥२६॥
एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते
।
यत्स्कन्धबन्धे जीवद्भिः
शवः शिबिकयोह्यते ॥२७॥
प्रयच्छसि किमर्थिभ्यस्त्वमन्नं
क्लेशसंचितम् ।
दीयते यत्किल प्राप्त्यै
तत्प्राप्तं किं न रक्ष्यते ॥२८॥
पुत्रदारादिसंबन्धः पुंसां
धननिबन्धनः ।
क्षीणात्पुत्राः पलायन्ते
दारा गच्छन्ति चान्यतः ॥२९॥
पण्डिताः कवयः शूराः कलावन्तस्तपस्विनः
।
वैद्यस्येव सवित्तस्य वीक्षन्ते
मुखमातुराः ॥३०॥
इति तस्य वचः श्रुत्वा कृपणस्यार्थनिष्कृपम्
।
सा तमूचे समुचितं सत्त्वस्याभिजनस्य
च ॥३१॥
सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे
धनार्जनम् ।
धर्माचारविनीनानां द्रविणं
मलसंचयः ॥३२॥
यत्करोत्यरुचिं क्लेशं तृष्णं
मोहं प्रजागरम् ।
न तद्धनं कदर्याणां हृदयव्याधिरेव
तत् ॥३३॥
वर्धते यो धनव्याधिः सुखभोगवियोगकृत्
।
तस्याशु शमनं पथं राजवैद्यचिकित्सया
॥३४॥
लोभान्नाभूद्गृहे यस्य कदाचित्कश्चिदुत्सवः
।
नृत्यन्ति पटहैस्तस्य निधने
धनभागिनः ॥३५॥
कणाचामतुषाङ्गारान्यत्नेन
परिरक्षसि ।
मूषकापहृतं कोषे रत्नराशिं
न पश्यसि ॥३६॥
धनेन दर्पः को नाम यत्क्षणेन
विनश्यति ।
रक्ष्यमाणं व्ययेनैव भक्ष्यमाणमुपप्लवैः
॥३७॥
विचार्यमाणस्तत्त्वेन दैवाधीनतया
नृणाम् ।
न कस्यांचिदवस्थायां धनलोभः
प्रशस्यते ॥३८॥
कलौ काले खले मित्रे पुत्रे
दुर्व्यसनान्विते ।
तस्करेषु प्रवृद्धेषु लुब्धे
राज्ञि धनेन किम् ॥३९॥
ॠणिकैः कलहैर्नित्यमच्छिन्नगुणनागतेः
।
दानद्विषोऽनपत्यस्य मन्दाग्नेश्च
धनेन किम् ॥४०॥
सहसासादितार्थस्य राजद्रोहादिपातकैः
।
भयादव्ययशीलस्य शल्येनेव
धनेन किम् ॥४१॥
घोरप्रतिग्रहग्रामग्रस्तोदग्रगुणौजसः
।
तद्विभागानभिज्ञस्य धूर्ताप्तस्य
धनेन किम् ॥४२॥
रात्रिसेवावसन्नस्य शीतवातातपस्थितेः
।
प्रभुदृष्टिप्रहृष्टस्य कष्टार्हस्य
धनेन किम् ॥४३॥
प्रभूतलाभलोभेन प्रयुक्तार्थस्य
सर्वतः ।
भूर्जदृष्टेन तुष्टस्य नष्टबुद्धेर्धनेन
किम् ॥४४॥
मलशीलस्य वणिजस्थूत्कृतस्य
जुगुप्सया ।
लशुनस्याशुचेः पाकगन्धेनेव
धनेन किम् ॥४५॥
काङ्क्षितेनाप्यलब्धेन भोगार्हे
नवयौवने ।
जराजीर्णशरीरस्य भारेणेव
धनेन किम् ॥४६॥
प्रव्रज्यात्यक्तगेहस्य जनगौरवपूजया
।
धनसंघटितार्थस्य बन्धेनेव
धनेन किम् ॥४७॥
शिशोरङ्कुशशून्यस्य पातितस्यापथे
विटैः ।
क्षणक्षयोपयोगेन स्वप्नेनेव
धनेन किम् ॥४८॥
भार्यया स्वैरचारिण्या ग्रामस्थस्य
नियोगिनः ।
प्रसभं भुज्यमानेन पापाप्तेन
धनेन किम् ॥४९॥
शिष्यसंपादिताशेषभोगवस्त्रादिसंपदः
।
गुरोर्दम्भेन सिद्धस्य संचितेन
धनेन किम् ॥५०॥
राजकोषनियुक्तस्य चौर्यचिह्नेन
केवलम् ।
व्ययेन शङ्कनीयस्य वधेनेव
धनेन किम् ॥५१॥
अज्ञातभाविचौरादिदोषैर्नित्यविनाशिना
।
हास्यैकहेतुना लोके गणकस्य
धनेन किम् ॥५२॥
पिटकस्येव पूर्णस्य पीडनीयस्य
भूभुजा ।
निष्पाकशाकभोज्यस्य ग्रामीणस्य
धनेन किम् ॥५३॥
कलमाक्रान्तविश्वस्य मषीकृष्णस्य
भोगिनः ।
आसन्नबन्धनस्यान्ते दिविरस्य
धनेन किम् ॥५४॥
गृहिणीविग्रहोग्रस्य मुहुस्तृण
उपेक्षया (?) ।
कोपोपवासनिःश्वाससंतप्तस्य
धनेन कि ॥५५॥
मलिनस्य कुवस्त्रस्य स्वल्पाशनपरस्य
च ।
दारिद्र्याधिककष्टस्य कदर्यस्य
धनेन किम् ॥५६॥
निर्धनाः सुखिनो दृष्टाः
सधनाश्चातिदुःखिताः ।
सुखदुःखोदये जान्तोर्दैवाधीने
धनेन किम् ॥५७॥
समानेषु व्यतीतेषु स्वजने
शून्यचेतसः ।
विरसासारसंसारविरक्तस्य धनेन
किम् ॥५८॥
यथावाप्तोपयुक्तार्थनिश्चिन्तस्य
विपश्चितः ।
अत्यल्पपरितुष्टस्य संतुष्टस्य
धनेन किम् ॥५९॥
बालस्तृणे च कनके च समानदृष्टि-
रिष्टं न वेत्ति विषयेष्वविशेषबुद्धिः
।
वित्तेन कोषपरिपोषसहेन तस्मि-
न्काले विवेकविकलो वद किं
करोति ॥६०॥
प्राणाधिकस्य सुहृदस्तरुणीजनस्य
पुत्रस्य वा गुणनिधेः सहसा
वियोगे ।
शोकेन शोचति यदा विवशः शरीरी
रत्नाचलैरपि तदा वद किं करोति
॥६१॥
नार्थं शृणोति न पुनः स्थितिमीहते
वा
स्पर्शं न वेत्ति न रसं न
तथाधिवासम् ।
वृद्धः प्रयाति पवनेन यदा
जडत्वं
भोगैर्धनेन च तदा वद किं
करोति ॥६२॥
रोगार्दितः स्पृशति नैव दृशापि
भोज्यं
तीव्रव्यथः स्पृहयते मरणाय
जन्तुः ।
सर्वौषधेषु विफलेषु यदा विरौति
धान्यैर्धनेन च तदा वद किं
करोति ॥६३॥
निद्राच्छेदसखेदबान्धवजनः
सोद्वेगवैद्योज्झितः
पाकक्वाथकदर्थितः परिजनैस्तन्द्रीभयात्क्षोभितः
।
भग्नस्वास्थ्यमनोरथः प्रियतमावष्टब्धपादद्वयः
पर्यन्ते वपुषः करोति पुरुषः
किं शल्यतुल्यैर्धनैः ॥६४॥
अलंकृतः काञ्चनकोटिमूल्यैर्महार्हरत्नैर्गजवाजिवाहैः
।
निमेषमात्रं लभते न जीवं
कालेन काले शिखया गृहीतः ॥६५॥
निश्चेतनः काष्ठसमानकायस्त्यक्तः
क्षणात्पुत्रकलत्रमित्रैः ।
भुभाशुभप्राक्तनकर्मभागी
यत्नाप्तरत्नैर्वद किं करोति ॥६६॥
तस्मात्प्रभूतविभवोद्भवविभ्रमेण
भूताभिभूत इव मा भव साभिमानः
।
एताः श्रियः प्रबललोभघनान्धकार-
विद्युल्लतापरिचिताः सहसैव
यान्ति ॥६७॥
नष्टे लज्जितवित्तनाथविभवे
साम्राज्यभोगे पुरा
श्रूयन्ते नलरामपाण्डुतनयाः
कष्टं प्रविष्टा वनम् ।
शक्रः श्रीविरहे विवेश नलिनीनालान्तरलं
ह्रिया
कस्यास्था विविधावधानविधिना
निःसंनिधाने धने ॥६८॥
इत्युक्तोऽप्यसकृत्पत्न्या
स्वलोभान्न चचाल सः ।
स्वभावः सर्वभूतानां सहजः
केन वार्यते ॥६९॥
ततः स काले लोभेन भिषग्भैषज्यवर्जितः
।
कोषे निधानकुम्भेषु लीनपृष्टो
व्यपद्यत ॥७०॥
अदत्तभुक्तमुत्सृज्य धनं
सुचिररक्षितम् ।
मूषका इव गच्छन्ति कदर्याः
स्वक्षये क्षयम् ॥७१॥
तस्य यातस्य निरयं निनाय
नृपतिर्धनम् ।
पर्यन्ते राजगामिन्यो लुब्धानां
धनसंपदः ॥७२॥
तत्सूनोश्चन्दनस्याथ शेषार्थेनापि
भूयसा ।
बभूव भूरिसंभारभोगव्ययमहोत्सवः
॥७३॥
मा कश्चिन्नाम नन्दस्य मन्दाग्नेरिह
भाषताम् ।
भोगभङ्गभयेनेति प्रातस्तत्राबवीज्जनः
॥७४॥
धिग्धिग्धनं कुनिधनं नन्दस्येवात्मबाधनम्
।
दीयतां भुज्यतां सर्वमित्यूचुः
पुरवासिनः ॥७५॥
ततः काले मते बाह्यकोष्ठद्वारान्तवासिनी
।
वृद्धान्धा सुषुवे पुत्रं
चण्डाली खण्डिकाभिधा ॥७६॥
अन्धः कुब्जः कृशः खञ्जः
कुष्ठी स्थूलगलग्रहः ।
समूह इव दुःखानां स तस्यास्तनयोऽभवत्
॥७७॥
तदपुण्यैः परिक्षीणे मातुः
क्षीरे स निश्चलः ।
कृपया बान्धवस्त्रीभिः शुनीक्षीरेण
वर्धितः ॥७८॥
एतदेव विरुद्धानां वैचित्र्यं
पूर्वकर्माणाम् ।
कृच्छ्रावसन्ना जीवन्तिं
विपद्यन्ते यदीश्वराः ॥७९॥
व्रणैः स पूतिकलिलक्लाम्यत्कृमिकुलैर्वृतः
।
पक्वणे कुणपाकारस्तस्थौ क्लिन्नतृणास्तरे
॥८०॥
तस्मिन्नप्यतिवात्सल्यात्पुत्रास्थां
जननी स्थिराम् ।
बबन्ध वासनालीनः स्नेहमोहो
हि दुःसहः ॥८१॥
स वर्धमानः शनकैः स्मशानाङ्गारधूसरः
।
पक्वणोग्रपिशाचानामप्युद्वेगकरोऽभवत्
॥८२॥
यष्टीनिषण्णगमनः कुष्टक्लेदजुगुप्सितः
।
स जगाम पथा येन प्रययौ तेन
नापरः ॥८३॥
अत्रान्तरे चन्दनस्य पितुः
श्राद्धदिने महान् ।
बभूवार्थिसमूहान्नदाने कलकलस्वनः
॥८४॥
ततः कर्परमादाय स चण्डालशिशुः
शनैः ।
आचामयाचकः कृच्छ्राद्द्वाराग्रभुवमाययौ
॥८५॥
तं दृष्ट्वा चन्दनः सौधाद्विप्राणां
मार्गदूषणम् ।
निवार्यतामयं प्राप्तस्तूर्णमित्यवदत्क्रुधा
॥८६॥
प्रभुभ्रूभङ्गभीतेन लगुडेनाहतस्ततः
।
द्वारपालेन सावर्तः स कपोत
इवाभवत् ॥८७॥
स निर्भिन्नललाटास्थिप्रक्षरत्क्षतजोक्षितः
।
क्षणं संमूर्च्छितः प्राप
क्लेशभोगाय जीवितम् ॥८८॥
अदूरवर्तिनी श्रुत्वा चण्डाली
तद्यथारवम् ।
उपसृत्य शुशोचार्ता स्पृशन्ती
तस्य शोणितम् ॥८९॥
केन निष्करुणेनेदं दर्शितं
बत पौरुषम् ।
प्रक्लिन्नकायविकले येनास्मिन्सुभटायितम्
॥९०॥
कायापापमयीं दुःखदशां दृष्ट्वास्य
दुःसहाम् ।
वैराग्यावसरे केन क्रौर्यमेवंविधं
कृतम् ॥९१॥
आर्तिमेवंविधामस्य हृदयक्लेदिनीमिमाम्
।
विलोक्य कुर्यात्कः पापं
पापं हि पदमापदाम् ॥९२॥
यद्यनेन महत्पापं न कृतं
पूर्वजन्मनि ।
तदुच्यतां स्फुरत्कष्टा दृष्टा
कस्येदृशी दशा ॥९३॥
ये दृश्यन्ते विपत्क्लेशविशेषविषमव्यथाः
।
त एव गुरवः पापवापस्य
(?) करणे नृणाम् ॥९४॥
करुणार्हेषु शूराणामुपकारिषु
वैरिणाम् ।
वञ्चकानामपापेषु पापसंख्यां
करोति कः ॥९५॥
तारं रोदिषि किं पुत्र सहस्वाघातजां
रुजम् ।
अशर्मकर्मनिर्माणं मर्मच्छेदि
शरीरिणाम् ॥९६॥
इति तस्यां प्रलापिन्यां
प्रेक्षवाप्ते जने जिनः ।
अनाथबन्धुः करुणासिन्धुस्तेनाययौ
पथा ॥९७॥
भवभ्रमासक्तपरिश्रमाणां रागादिदोषैरुपतापितानाम्
।
आश्वासनेनामृतसोदरेण लिम्पन्निव
द्यां द्युतिचन्दनेन ॥९८॥
दृष्ट्वा तमापद्गतमुग्ररोगभग्नं
निमग्नं व्यसने विविग्नम् ।
व्यलम्बतार्द्रः करुणारसेन
तत्तापशान्त्यै भगवाञ्जिनेन्द्रः ॥९९॥
तत्संनिधानेन मुहूर्तमात्रं
स निर्व्यथः स्वास्थ्यमिवाससाद ।
निहन्ति पापं कुशलं प्रसूते
संदर्शनं सत्त्वहिताशयानाम् ॥१००॥
ज्ञात्वाथ चन्दनः प्राप्तं
भगवन्तं तथागतम् ।
विकसत्कुसुमस्मेरं पूजामादाय
निर्ययौ ॥१०१॥
भगवानपि साश्चर्यप्रभावादुद्गतं
भुवः ।
हैमं कमलमारुह्य तस्थौ पर्यङ्कलीलया
॥१०२॥
प्रणतं चरणालीनं पूजाव्यग्रकरं
पुरः ।
बभाषे भगवान्प्रीतो भिक्षुसंसदि
चन्दनम् ॥१०३॥
किमयं याचमानोऽपि वराकस्ताडित्ः
क्रुधा ।
कृतं न कृपणे कस्मात्करुणाकोमलं
मनः ॥१०४॥
दयार्द्राः सर्वसत्त्वेषु
भवन्ति विमलाशयाः ।
एवंविधानां दुःखानां कारणं
कलुषं मनः ॥१०५॥
कृतक्रूरापकारेषु विद्वेषपरुषेष्वपि
।
भवन्ति सन्तः क्लेशोष्मशोषितेषु
न कर्कशाः ॥१०६॥
क्लिष्टः कष्टं कदर्योऽयं
लोभेनापरजन्मनि ।
अप्रदानोद्यतेनाद्य कायक्लेशेन
पीडितः ॥१० ७॥
एष नन्दस्तव पिता पूर्णार्थमलसंचयात्
।
आवृतः पापरोगेण चण्डालत्वमुपागतः
॥१०८॥
जन्मान्तरेऽप्यतोऽन्यस्मिन्रोगयोगान्मुमूर्षणा
।
सुवर्णं दत्तमेतेन तेनायं
सधनोऽभवत् ॥१०९॥
अन्त्यक्लेशदशायां यन्मुमूर्षुः
संप्रयच्छति ।
तच्चाभोग्यं भवत्यस्य लोभादन्येषु
जन्मसु (?) ॥११०॥
दत्त न वित्तं करुणानिमित्तं
लोभप्रवृत्तं कृतमेव चित्तम् ।
यैः संचयोसाहरसैः प्रनृत्तं
शोचन्ति ते पातकमात्मवृत्तम् ॥१११॥
इत्युक्त्वा भगवान्पुण्यां
विदधे धर्मदेशनाम् ।
यया क्लेशप्रहाणार्हमर्हत्त्वं
प्राप चन्दनः ॥११२॥
तस्मान्न दर्पः पुरुषेण कार्यः
प्रवर्धमानेन धनोदयेन ।
अदानभोगोपहतं हि वित्तं पुंसां
परत्रेह च दुर्निमित्तम् ॥११३॥