पद्मोपमानां दिनसुन्दराणां
कोऽयं नृणामस्थिररूपदर्पः ।
रूपेण कान्तिः क्षणिकैव येषां
हारिद्ररागेण यथांशुकानाम् ॥१॥
पर्यन्तरेखाङ्गविभागहीनचित्रोपमं
बालवपुः प्रकृत्या ।
तद्यौवनेनैव विकासमेति चैत्रोत्सवेनेव
शिरीषपुष्पम् ॥२॥
अलोमशं पूर्णशशाङ्कशोभं मुखं
तु यूनां कतिचिद्दिनानि ।
जाते ततः श्मश्रुविशालजाले
शेवाललीनाब्जतुलां बिभर्ति ॥३॥
धूमेन चित्रं तुहिनेन पद्मं
तमिस्रपक्षेण सुधांशुबिम्बम् ।
शीतं निदाघेन न भाति तोयं
जरावतारेण च चारुरूपम् ॥४॥
रूपं क्षणस्वीकृतरक्तमांसग्रासप्रसक्ताकृतकामदोषा
।
केशग्रहेणैव जरा जनानां वेश्येव
वित्तं कवलीकरोति ॥५॥
पाकक्रमेणैव विचित्रकर्मा
प्रतिक्षणं देहभृतामलक्ष्यः ।
करोति कालः परिणामशक्त्या
रूपं विरूपं चतुरप्रवाहः ॥६॥
न लक्ष्यते कालगतिः सवेगचक्रभ्रमभ्रान्तिविधायिनीयम्
।
ह्यो यः शिशुः स स्फुटयौवनोऽद्य
प्रातर्जराजीर्णतनुः स एव ॥७॥
पुंसामवस्थात्रितयत्रिभागे
रूपप्रदं यौवनमेव नान्यत् ।
तस्मिन्मदोन्मादगदाङ्गभङ्गव्यङ्ग्यादिदोषोपहते
क्व रूपम् ॥८॥
यदा नरः शोचति दुःखतप्तस्त्यक्ताशनः
शोकविवर्णवक्त्रः ।
न स्नाति नोत्तिष्ठति नैव
शेते तदा क्व रूपं क्व च यौवनश्रीः ॥९॥
यदा स्थितः प्रेत इवास्थिशेषः
कारागृहे धूसरितोर्ध्वकेशः ।
प्रकीर्णयूकामलकालकायस्तदा
क्व रूपस्य गतोऽभिमानः ॥१०॥
यदा सदाङ्गीकृतदैन्यदुःखसेवाप्रवासेन
विनष्टकायः ।
नित्यप्रवासभ्रमभग्नजानुर्न
रूपलब्धस्य तदास्ति रुपम् ॥११॥
यदा प्रहारैर्दलिताखिलाङ्गः
खण्डोष्ठनासः स्फुटिताक्षिदन्तः ।
युवा पिशाचत्वमिवोपयाति तदापि
रूपं विगतस्वरूपम् ॥१२॥
यदा न धीमानरिषु प्रमाथी
न वाक्पटुश्चित्रमनुष्यतुल्यः ।
तदा सुरूपादविचाररम्याद्वरं
विरूपः स्पृहणीयरूपः ॥१३॥
यदा दरिद्रः परिधानहीनस्त्रपानिलीनः
कुरुतेऽतियाञ्चाम् ।
कपोलसंजातवलीविकारस्तदा सुरूपोऽपि
परं विरूपः ॥१४॥
विद्वत्संसदि वादिभिः कविवरैर्भाषानभिज्ञः
परं
मूर्खः शंकरवाहनस्तुतिपदैर्यः
संज्ञया हस्यते ।
विक्रीतः परदेशपण्यसदने धूर्तैरिवानुत्तरः
।
पुंसश्चित्रमयूरचारुवपुषः
किं तस्य रूपश्रिया ॥१५॥
कालं मुहूर्ताङ्गुलिमण्डलेन
दिनत्रियामाञ्जलिना पिबन्तम् ।
रूपं विलोक्यैव वपुश्च केषां
भङ्गेन नाङ्गान्यलसीभवन्ति ॥१६॥
रूपं वयः शौर्यमनङ्गभोगं
प्रज्ञाप्रभावं विभवं वपुश्च ।
अश्नाति कालभ्रमरः समन्तात्पुंसां
नि किंजल्कमिवाम्बुजानाम् ॥१७॥
कदाचित्सह गन्धर्वैः सभास्थाने
शचीपतिम् ।
नृत्तेनाप्सरसः सर्वा गीतेन
च सिषेविरे ॥१८॥
तासां मध्ये बभौ कान्ता वृत्तीनामिव
कैशिकी ।
उर्वशी स्वमुखे मैत्रीं वदन्तीवेन्दुपद्मयोः
॥१९॥
शक्रसेवागतास्तत्र तां दृष्ट्वेन्दुमुखीं
सुराः ।
मेनिरे धन्यमात्मानं शृङ्गारस्याङ्गतां
गतम् ॥२०॥
नृत्यन्ती सा बभौ हारमध्यरत्नेषु
बिम्बिता ।
युगपत्प्रविशन्तीव हृदयानि
दिवौकसाम् ॥२१॥
लीना देवविमानेषु हंसास्तद्गतिनिर्जिताः
।
तत्कटाक्षजितश्चक्रे निद्रां
चन्द्रे मृगः क्षणम् ॥२२॥
तस्याः सेर्ष्याप्सरोनेत्रमालेव
पतिता बभौ ।
स्तनयोः शेखरस्रस्ता नीलोत्पलदलावली
॥२३॥
उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर-
त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः
सक्तः स्तनोत्सङ्गयोः ।
वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार
क्षणं
तस्या नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियम्
॥२४॥
तस्या नृत्तविलोकने पुलकितं
दृष्ट्वा रतिर्मन्मथं
निःश्वासाञ्चितचारुरूप(?)रजसा
चक्रे पुरस्तात्पटम् ।
उद्वीक्ष्याक्षिपरम्परामपि
हरेस्तत्रावसन्ना शची
कोपान्दोलितकेलिपद्ममधुपैर्मध्येऽन्धकारं
व्यधात् ॥२५॥
विघ्नं न चक्रुर्ननु नृत्तलीलासंदर्शने
पुण्यवतां नराणाम् ।
तत्रोर्वशीरूपवशीकृतानां
निमेषशून्यानि विलोचनानि ॥२६॥
देवयोरश्विनोस्तत्र रूपमाधुर्यधुर्ययोः
।
मिथः कथा समभवत्तद्गुणाकृष्टचित्तयोः
॥२७॥
एकोऽब्रवीदहो रूपमस्यास्तरलचक्षुषः
।
निमीलन्नियमा येन मुनयोऽप्याकुलीकृताः
॥२८॥
अस्यां संसदि कस्यास्ये पतन्त्येताः
सुजन्मनः ।
स्मरसंभोगसंवादलज्जाकुटिलिता
दृशः ॥२९॥
वृत्तसंगमयोरेव परस्परविलोकने
।
न्यासं शृङ्गारसर्वस्वमनङ्गेनार्पितं
रहः ॥३०॥
रणोत्सृष्टतनोः कण्ठे सोत्कण्ठा
भुजबन्धनम् ।
कस्येयं तरलापाङ्गा रङ्गोत्तीर्णा
करिष्यति ॥३१॥
इति ब्रुवाणमपरः सस्मितस्तमभाषत
।
अहो नु विस्मृतः किं ते भूतलेन्दुः
पुरूरवाः ॥३२॥
विक्रमाभरणं दिक्षु लावण्यतिलकं
भुवः ।
उर्वशीभोगसुभगं यस्यैतद्गीयते
यशः ॥३३॥
तेन रूपगुणोत्साहैरुर्वशीयं
वशीकृता ।
पुरः स्थितापि शक्रस्य मनसा
तत्र तिष्ठति ॥३४॥
रूपसाम्येन शीतांशुवंशे जातः
स लज्जते ।
न करोति रतेरग्रे तत्कथां
मत्सरी स्मरः ॥३५॥
न जाने बत हेवाकः कोऽयं कुसुमधन्वनः
।
नैवार्पयति यत्पाणौ तस्यैव
शरपञ्चकम् ॥३६॥
भुवः समस्ताम्बुधिमेखलाया
वोढारमाजानुविलम्बिबाहुम् ।
लीलागुरुं तं हृदये वहन्ती
तन्वी कथं नृत्यति नैव विद्मः ॥३७॥
द्रष्टव्यः स नृपस्तावदप्रस्तावेऽपि
यत्नतः ।
को वेत्ति तद्विधं रत्नं
पुण्यैरास्ते कियच्चिरम् ॥३८॥
इयुक्त्वा तौ कृतक्षोणीपतिदर्शननिश्चयौ
।
नृत्ते निवृत्ते जम्भारिं
प्रणम्य ययतुर्भुवम् ॥३९॥
राजधानीं समासाद्य तौ पुरूरवसः
क्षणात् ।
अवारितौ विविशतुर्वेत्रिभिः
सुरगौरवात् ॥४०॥
तौ तं ददृशतुः स्नानविहिताभ्यङ्गसंगमम्
।
पीयूषनवनीतेन लग्नस्नेहमिवोडुपम्
॥४१॥
स्नातोत्तारितकेयूरमहार्हमणिकंकणम्
।
लावण्याभरणं तस्य विरराजोर्जितं
वपुः ॥४२॥
शून्यश्रवणपाशस्य तस्य कण्ठः
समाययौ ।
निर्भूषणनिवेशोऽपि विशेषरमणीय़ताम्
॥४३॥
विचार्य तस्या मर्यादं सौन्दर्योदार्यमश्विनौ
।
प्रशशंसतुराश्चर्यनिर्माणातिशयं
विधेः ॥४४॥
स तौ कृताञ्जलिः प्रीत्या
कृतासनपरिग्रहौ ।
पप्रच्छ स्वच्छहृदयस्त्वरागमनकारणम्
॥४५॥
तावूचतुः क्षितिपते महीकुसुमधन्वनः
।
त्रैलोक्याभरणं रूपं तवावां
द्रष्टुमागतौ ॥४६॥
निसर्गेण जगत्सर्गनिरर्गलगुणादरात्
।
कौतुकालोकसारेव दृष्ट्वा
सृष्टिः प्रजापतेः ॥४७॥
विलोकितस्त्वं वसुधासुधांशुः
पूर्णमण्डलः ।
रूपपीयूषपानेन प्राप्ता प्रीतिः
किमुच्यते ॥४८॥
इत्युक्तः प्रणयात्ताभ्यां
किंचित्कुसुमितस्मितः ।
तावूचे नृपतिर्मान्यमानेनाभ्यधिकारः
॥४९॥
भवत्संदर्शनेनाहमस्म्यनुग्रहभाजनम्
।
द्रष्टव्या द्रष्टुमायान्ति
पुण्यपुण्येन केवलम् ॥५०॥
तीर्थाप्तिः साधुसंपर्कः
पूज्यपूजामहोत्सवः ।
अस्मिन्विरसनिःसारे संसारे
सारसंग्रहः ॥५१॥
स्नानाभ्यक्तेन न मया युवयोरुचितः
कृतः ।
पुण्यसाफल्यनिःशल्यकल्याणायार्चनादरः
॥५२॥
अग्न्यागारान्तरे तावन्मुहूर्तं
क्रियतां स्थितिः ।
कृतस्नानः समेष्यामि पूजाप्रणयपात्रताम्
॥५३॥
इयुक्तौ तेन ययतुस्तौ हुताशनमन्दिरम्
।
स्नातं विभूषितं भूपं द्रक्ष्याव
इति कौतुकात् ॥५४॥
अथ राजा कृतस्नानः सर्वाभरणभूषितः
।
पुरोहितेन सहितस्तत्समीपमुपाययौ
॥५५॥
तौ दृष्ट्वा पृथिवीपालं तारहारं
किरीटिनम् ।
क्षणं नैवोचतुः किंचिद्विषण्णौ
विनताननौ ॥५६॥
कृतार्चने नरपतौ तौ पप्रच्छ
पुरोहितः ।
अकस्माद्युवयोः कस्मादप्रसाद
इवेक्ष्यते ॥५७॥
विनयातिक्रमोऽस्माकं यातः
कचिन्न हेतुताम् ।
पृष्टौ पुरोहितेनेति तौ शनैस्तमभाषताम्
॥५८॥
आवयोर्नाप्रसन्नत्वं न युष्माकमतिक्रमः
।
किं तु कालगलत्सर्वभावालोकनविस्मयः
॥५९॥
अधुनैव नरेन्द्रोऽयं दृष्टोऽभ्यङ्गेऽपि
यादृशः ।
क्षणपाकेन कालस्य दृश्यते
नैव तादृशः ॥६०॥
दिनेन्धनवने नित्यं दह्यमानेऽर्कवह्निना
।
नीयते कालधूमेन रूपचित्रमचित्रताम्
॥६१॥
निश्चित्य सर्वभावानां नित्यमेतामनित्यताम्
।
रूपेऽभिमानं कः कुर्यात्स्वप्नचित्रपटोपमे
॥६२॥
जराजीर्णानि रूपाणि रोगार्तानि
वपूंषि च ।
आयूंषि काललीढानि दृष्ट्वा
कस्य भवेन्मदः ॥६३॥
योऽयं विकोक्यते लोकः स्फाराकारविकारवान्
।
उच्छूनतामुपगतास्त एते शुक्रबिन्दवः
॥६४॥
अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः
क्रमः ।
यत्पाकपरिणामेन सर्वं यात्यन्यरूपताम्
॥६५॥
राज्ञः स्नानक्षणे याभूल्लावण्यलहरी
तनोः ।
पीता क्षणेन सा तेन प्रवृत्तान्यक्षणोचिता
॥६६॥
संपूर्णस्यायुषो मात्रा रूपस्य
विभवस्य च ।
होरायात्राम्बुधारेव गलत्येवानिशं
नृणाम् ॥६७॥
कलाकाष्ठामुहुर्तानां कालस्य
व्रजतां जवात् ।
न लक्ष्यते विभागेन दीपस्येवार्चिषां
गतिः ॥६८॥
बालः प्रभाते मध्याह्ने तरुणः
स्थविरोऽस्तगः ।
दिने दिने दिनेशोऽपि क्रियते
काललीलया ॥६९॥
शुष्यन्त्यम्बुधयस्तरङ्गगहनैरालिङ्गिताशाङ्गना
गच्छन्त्युद्गततुङ्गशृङ्गमुकुटोदग्रा
गिरीन्द्राः क्षयम् ।
भ्रश्यत्येव वसुंधरापि सहिता
दिग्दन्तिभिर्यद्वशा-
त्सर्वाशी सततं प्रधावति
महाकालः स कोऽप्याकुलः ॥७०॥
इत्युक्त्वा नृपमामन्त्र्य
दिवं जग्मतुरश्विनौ ।
नृपश्च तद्वचश्चिन्ताशान्तरूपमदोऽभवत्
॥७१॥
तस्मान्न कार्यः सुधिया विचार्य
साश्चर्यसौन्दर्यविलासदर्पः ।
संसारमोहप्रसरे घनेऽस्मिन्विद्युल्लताविस्फुरितं
हि रूपम् ॥७२॥
प्रातर्बालतरोऽथ कुद्मलतया
कान्ताकुचाभः शनै-
र्हेलाहासविकाससुन्दररुचिः
संपूर्णकोषस्ततः ।
पश्चान्म्लानवपुर्विलोलशिथिलः
पद्मः प्रकीर्णेऽनिलै-
स्तस्मिन्नेव दिने स पङ्ककलिलक्लिन्नस्तटे
शुष्यति ॥७३॥
वैरूप्यं सहजं जराहृतरुचिर्यातो
ययातिः पुरा
कान्त्या तर्जितकामकीर्तिरभवद्दुर्दर्शमूर्तिर्नलः
।
सौदासस्य मनोहरं वपुरभूत्संत्रासनं
देहिनां
रूपे कस्य भविष्यति प्रतिदिनम्लायिन्यनित्ये
धृतिः ॥७४॥
तस्मादस्थिररूपं विचार्य
रूपं भवस्वरूपं च ।
अनुरूपमदनशमनं स्थिरपदसंप्राप्तये
सुधियाम् ॥७५॥