संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ८२ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ८२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८२ Translation - भाषांतर ॥ पार्वत्युवाच ॥वीरेशस्य महेशान श्रूयते महिमा महान् ॥परां सिद्धिं परोपतुस्तत्र सिद्धाः परः शताः ॥१॥कथमाविर्भवस्तस्य काश्यां लिंगवरस्य तु ॥आशुसिद्धिप्रदस्येह तन्मे ब्रूहि जगत्पते ॥२॥॥ महेश्वर उवाच ॥निशामय महादेवि वीरेशाविर्भवं परम् ॥यं श्रुत्वापि नरः पुण्यं प्राप्नोति विपुलं शिवे ॥३॥आसीदमित्रजिन्नाम राजा परपुरंजयः ॥धार्मिकः सत्त्वसंपन्नः प्रजारंजनतत्परः ॥४॥यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः ॥सदैवावभृथस्नानपरिक्लिन्न शिरोरुहः ॥५॥विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु ॥विद्याब्धिपारदृश्वा च गुणवान्गुणिवत्सलः ॥६॥कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः ॥सत्यवाक्छौचनिलयः स्वल्पवाग्विजितेंद्रियः ॥७॥रणांगणे कृतांताभः संख्यावांश्च सदोजिरे ॥कामिनीकामकेलिज्ञो युवापि स्थविरप्रियः ॥८॥धर्मार्थैधितकोशश्च समृद्धबलवाहनः ॥सुभगश्च सुरूपश्च सुमेधाः सुप्रजाश्रयः ॥९॥स्थैर्य धैर्य समापन्नो देशकालविचक्षणः ॥मन्यमानप्रदो नित्यं सर्वदूषणवर्जितः ॥१०॥वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय सः ॥चकार राज्यं निर्द्वंद्वं विष्वगीति विवर्जितम् ॥११॥अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः ॥अभुनक्प्रचुरान्भोगान्समंताद्विष्णुसात्कृतान् ॥१२॥हरेरायतनान्युच्चैः प्रतिसौधं पदेपदे ॥तस्य राज्ये समभवन्महाभाग्यनिधेः शिवे ॥१३॥गोविंदगोपगोपाल गोपीजनमनोहर ॥गदापाणे गुणातीत गुणाढ्य गरुडध्वज ॥१४॥केशिहृत्कैटभाराते कंसारे कमलापते ॥कृष्णकेशव कंजाक्ष कीनाश भयनाशन ॥१५॥पुरुषोत्तम पापारे पुंडरीकविलोचन ॥पीतकौशेयवसन पद्मनाभ परात्पर ॥१६॥जनार्दन जगन्नाथ जाह्नवीजलजन्मभूः ॥जन्मिनां जन्महरण जंजपूकाघनाशन ॥१७॥श्रीवत्सवक्षः श्रीकांत श्रीकर श्रेयसां निधे ॥श्रीरंगशार्ङ्गकोदंड शौरे शीतांशुलोचन ॥१८॥दैत्यारे दानवाराते दामोदर दुरंतक ॥देवकीहृदयानंद दंदशूकेश्वरेशय ॥१९॥विष्णो वैकुंठनिलय बाणारे विष्टरश्रवः ॥विष्वक्सेन विराधारे वनमालिन्वनप्रिय ॥२०॥त्रिविक्रमत्रिलोकीश चक्रपाणे चतुर्भुज ॥इत्यादीनि पवित्राणि नामानि प्रतिमंदिरम् ॥२१॥स्त्रीवृद्धबालगोपाल वदनोदीरितानि तु ॥श्रूयते यत्रकुत्रापि रम्याणि मधुविद्विषः ॥२२॥सुरसाकाननान्येव विलोक्यंते गृहेगृहे॥चरित्राणि विचित्राणि पवित्राण्यब्धिजापतेः ॥२३॥सौधभित्तिषु दृश्यंते चित्रकृन्निर्मितानि तु ॥ऋते हरिकथायास्तु नान्या वार्ता निशम्यते ॥२४॥हरिणा नैव विध्यंते हरिनामांशधारिणः ॥तस्य राज्ञो भयाद्व्याधैररण्यसुखचारिणः ॥२५॥न मत्स्या नैव कमठा न वराहाश्च केनचित् ॥हन्यंते क्वापि तद्भीत्या मत्स्यमांसाशिनापि वै ॥२६॥अप्युत्तानशयास्तस्य राष्ट्रे मित्रजितः क्वचित् ॥स्तनपानं न कुर्वंति संप्राप्य हरिवासरम् ॥२७॥पशवोपि तृणाहारं परित्यज्य हरेर्दिने ॥उपोषणपरा जाता अन्येषां का कथा नृणाम् ॥२८॥महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ॥तस्मिन्प्रशासति भुवं संप्राप्ते हरिवासरे ॥२९॥स एव दंड्योऽभूत्तस्य राज्ञो मित्रजितः क्षितौ ॥यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि ॥३०॥अंत्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः ॥संप्राप्य वैष्णवीं दीक्षां दीक्षिता इव संबभुः ॥३१॥शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः ॥वासुदेवे समर्प्यंते तानि तैरफलेप्सुभिः ॥३२॥विना मुकुंदं गोविदं परमानंदमच्युतम् ॥नान्यो जप्येतमन्येत न भज्येत जनैः क्वचित् ॥३३॥कृष्ण एव परो देव कृष्णएव परागतिः ॥कृष्ण एव परो बंधुस्तस्यासीदवनीपतेः ॥३४॥एवं तस्मिन्महीपाले राज्यं सम्यक्प्रशासति ॥एकदा नारदः श्रीमांस्तं दिदृक्षुः समाययौ ॥३५॥राज्ञा समर्चितः सोथ मधुपर्क विधानतः ॥नारदो वर्णयामास तममित्रजितं नृपम् ॥३६॥॥ नारद उवाच ॥धन्योसि कृतकृत्योसि मान्योप्यसि दिवौकसाम् ॥सर्वभूतेषु गोविंदं परिपश्यन्विशांपते ॥३७॥यो वेद पुरुषो विष्णुर्यो यज्ञपुरुषो हरिः ॥योंतरात्मास्य जगतः कर्ता हर्ताविता विभुः ॥३८॥तन्मयं पश्यतो विश्वं तव भूपालसत्तम ॥दर्शनं प्राप्य शुभदं शुचित्वमगमं परम् ॥३९॥एक एव हि सारोत्र संसारे क्षणभंगुरे ॥कमलाकांत पादाब्ज भक्तिभावोऽखिलप्रदः ॥४०॥परित्यज्य हि यः सर्वं विप्णुमेकं सदा भजेत् ॥सुमेधसं भजंते तं पदार्थाः सर्व एव हि ॥४१॥हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो ॥स एव स्थैर्यमाप्नोति ब्रह्मांडेऽतीव चंचले ॥४२॥यौवनं धनमायुष्यं पद्मिनीजलबिंदुवत् ॥अतीव चपलं ज्ञात्वाऽच्युतमेकं समाश्रयेत् ॥४३॥वाचि चेतसि सर्वत्र यस्य देवो जनार्दनः ॥स एव सर्वदा वंद्यो नररूपी जनार्दनः ॥४४॥निर्व्याज प्रणिधानेन शीलयित्वा श्रियःपतिम् ॥पुरुषोत्तमतां को न प्राप्तवानिह भूतले ॥४५॥अनया विष्णुभक्त्या ते संतुष्टेंद्रियमानसः ॥उपकर्तुमना ब्रूयां तन्निशामय भूपते ॥४६॥बाला विद्याधरसुता नाम्ना मलयगंधिनी ॥क्रीडंती पितुराक्रोडे हृता कंकालकेतुना ॥४७॥कपालकेतुपुत्रेण दानवेन बलीयसा ॥आगामिन्यां तृतीयायां तस्याः पाणिग्रहृं किल ॥४८॥पाताले चंपकावत्यां नगर्यां सास्ति सांप्रतम् ॥हाटकेशात्समागच्छंस्तया हंसाश्रुनेत्रया ॥४९॥दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निथामय ॥ब्रह्मचारिन्मुनिश्रेष्ठ गंधमादनशैलतः ॥५०॥बालक्रीडनकासक्तां मोहयित्वा निनाय सः ॥कंकालकेतुर्दुर्वृत्तो दुर्जयोन्यास्त्रघाततः ॥५१॥स्वस्य त्रिशूलघातेन म्रियते नान्यथा रणे ॥जगत्पर्याकुलीकृत्य निद्रात्यत्रविनिर्भयः ॥५२॥यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् ॥मद्दत्तेन त्रिशूलेन नयेद्भद्रं भवेन्नरः ॥५३॥यदत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्टदानवात् ॥ममापि हि वरो दत्तो भगवत्या महामुने ॥५४॥विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति ॥आ तृतीया तिथि यथा तद्वाक्यं तथ्यतां व्रजेत् ॥५५॥तथा निमित्तमात्रं त्वं भव यत्नं समाचर ॥इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम् ॥युवानं चापि धीमंतं त्वामनु प्राप्तवानहम् ॥५६॥तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम् ॥आनयाशु महाबाहो शुभां मलयगंधिनीम् ॥५७॥सा तु विद्याधरी जीवेद्विलोक्य त्वां नरेश्वर ॥पार्वतीवचनाद्दुष्टं घातयिष्यत्ययत्नतः ॥५८॥इति नारदवाक्यं स निशम्यामित्रजिन्नृपः ॥अनल्पोत्कलिको जातो विद्याधरसुतां प्रति ॥५९॥उपायं चापि पप्रच्छ गंतुं तां चंपकावतीम् ॥नारदेन पुनः प्रोक्तः स राजा गिरिराजजे ॥६०॥तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप ॥भवान्द्रक्ष्यति पोतस्थः कल्पवृंदारथस्थितम् ॥६१॥तत्र दिव्यांगना काचिद्दिव्यपर्यंक संस्थिता ॥वीणामादाय गायंती गाथां गास्यति सुस्वरम् ॥६२॥यत्कर्मविहितं येन शुभं वाथ शुभेतरम् ॥स एव भुंक्ते तत्तथ्यं विधिसूत्रनियंत्रितः ॥६३॥गाथामिमां सा संगीय सरथा स महीरुहा ॥सपर्यंका क्षणादेव मध्ये सिंधुं प्रवेक्ष्यति ॥६४॥भवानप्यविशंकं च ततः पोतान्महार्णवे ॥तामनु व्रजतु क्षिप्रं यज्ञवाराहमास्तुवन् ॥६५॥ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम् ॥महामनोहरा राजन्सहितां बालयानया ॥६६॥इत्युक्त्वांतर्हितो देवि स चतुर्मुखनंदनः ॥राजाप्यर्णवमासाद्य यथोक्तं परिलक्ष्य च ॥६७॥विवेशांतःसमुद्रं च नगरीमाससाद ताम् ॥साथ विद्याधरी बाला नेत्रप्राघुणकी कृता ॥६८॥तेन राज्ञा त्रिजगती सौंदर्यश्रीरिवैकिका ॥पातालदेवतेयं वा ममनेत्रोत्सवाय किम् ॥६९॥निरणायि मधुद्वेष्ट्रा स्रष्टुः सृष्टिविलक्षणा ॥कुहूराहुभयादेषा कांतिश्चांद्रमसी किमु ॥७०॥योषिद्रूपं समाश्रित्य तिष्ठतेऽत्राकुतोऽभया ॥इत्थं क्षणं तां निर्वर्ण्य स राजागात्तदंतिकम् ॥७१॥सा विलोक्याथ तं बाला नितरां मधुराकृतिम् ॥विशालोरस्थलतलं प्रलंबतुलसीस्रजम् ॥७२॥शंखचक्रांकसुभग भुजद्वयविराजितम् ॥हरिनामाक्षरसुधा सुधौत रदनावलिम् ॥७३॥भवानीभक्तिबीजोत्थं भूरुहं पुरुषाकृतिम् ॥मनोरथफलैः पूर्णमासीद्धृष्टतनूरुहा ॥७४॥दोलापर्यंकमुत्सृज्य ह्रीभरा नम्रकंधरा ॥वेपथुं च परिष्टभ्य बाला प्रोवाच भूपतिम् ॥७५॥कस्त्वमत्र कृतांतस्य भवनं मधुराकृते ॥प्राप्तो मे मंदभाग्यायाश्चेतोवृत्तिं निरुंधयन् ॥७६॥यावन्नायाति सुभग स कठोरतराकृतिः ॥अतिपर्याकुलीकृत्य त्रिलोकीं दानवो मुहुः ॥७७॥कंकालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः ॥तावद्गुप्तं समातिष्ठ शस्त्रागारेति गह्वरे ॥७८॥न मे कन्याव्रतं भंक्तुं स समर्थ उमा वरात्॥आगामिन्यां तृतीयायां परश्वः पाणिपीडनम् ॥७९॥संचिकीर्षति दुष्टात्मा गतायुर्मम शापतः ॥मा तद्भीतिं कुरु युवंस्तत्कार्यं भविताचिरम् ॥८०॥विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत् ॥स्थितो वीरो महाबाहुर्दानवागमने क्षणः ॥८१॥अथ सायं समायातो दानवो भीषणाकृतिः॥त्रिशूलं कलयन्पाणौ मृत्योरपि भयावहम् ॥८२॥आगत्य दानवो रौद्रः प्रलयांबुदनिस्वनः ॥विद्याधरीं जगादेति मदाघूर्णितलोचनः ॥८३॥गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि ॥कन्यात्वं च परश्वस्ते पाणिग्राहादपैष्यति ॥८४॥दासीनामयुतं प्रातर्दास्यामि तव सुंदरि ॥आसुरीणां सुरीणां च दानवीनां मनोहरम् ॥८५॥गंधर्वीणां नरीणां च किन्नरीणां शतंशतम् ॥विद्याधरीणां नागीनां यक्षिणीनां शतानि षट् ॥८६॥राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम् ॥एतास्ते परिचारिण्यो भविष्यंत्यमलाशये ॥८७॥यावत्संपत्तिसंभारो दिक्पालानां गृहेषु वै ॥मत्परिग्रहतां प्राप्य तावतस्त्वमिहेश्वरी ॥८८॥दिव्यान्भोगान्मया सार्धं भोक्ष्यसे मत्परिग्रहात् ॥कदा परश्वो भविता यस्मिन्वैवाहिको विधिः ॥८९॥त्वदंगसंगसंस्पर्श सुखसंदोह मेदुरः ॥परां निर्वृतिमाप्स्यामि परश्वो निकटं यदि ॥९०॥मनोरथाश्चिरं यावद्यं मे हृदि समेधिताः ॥तान्कृतार्थी करिष्यामि परश्वस्तव संगमात् ॥९१॥जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलोचने ॥त्रैलोक्यैश्वर्यसंपत्तेस्त्वां करिष्यामि चेश्वरीम् ॥९२॥आधायांके त्रिशूलं स्वे सुष्वापेति प्रलप्य सः ॥नरमांसवसास्वाद प्रमत्तो वीतसाध्वसः ॥९३॥वरं स्मरंती सा गौर्या विद्याधरकुमारिका ॥विज्ञाय तं प्रमत्तं च सुसुप्तं चातिनिर्भयम् ॥९४॥आहूय तं नरवरं वरं सर्वांगसुंदरम् ॥।विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च ॥९५॥शूलं तदंकादादाय गृहाणेमं जहि द्रुतम् ॥इति त्रिशूलं बालातो बालार्कसदृशद्युति ॥९६॥समादाय महाबाहुः स तदा मित्रजिन्नृपः ॥जहर्ष च जगादोच्चैर्बालायाश्चाभयं दिशन् ॥९७॥वामपादप्रहारेण तमाताड्य स निर्भयः ॥संस्मरंश्चक्रिणं चित्ते जगद्रक्षामणिं हरिम् ॥९८॥जर्गाद तिष्ठ रे दुष्ट कन्याधर्षणलालस ॥युध्यस्वात्र मया सार्धं न सुप्तं हन्म्यहं रिपुम् ॥९९॥इति संश्रुत्य संभ्रांत उत्थाय स दनोः सुतः ॥त्रिशूलं देहि मे कांते प्रोवाचेति मुहुर्मुहुः ॥१००॥कोयं मृत्युगृहं प्राप्तः कस्य रुष्टोऽद्य चांतकः ॥क आयुषाद्य संत्यक्तो यः प्राप्तो मम गोचरम् ॥१॥मम प्रचंड दोर्दंड कंडू कंडूयन क्षमः ॥नाल्पो नरोयं भविता किं त्रिशूलेन सुंदरि ॥२॥माभैर्मे कौतुकं पश्य भक्ष्योऽयं मम सांप्रतम् ॥कालेन मत्तो भीतेन स्वयमेवोपढौकितः ।६ ३॥इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दनुसूनुना ॥हृदये निहतो राजा शिलातिकठिने द्रुतम् ॥४॥स चक्रिणा कृतत्राणः पीडामल्पीयसीमपि ॥नो वेद कठिनोरस्कस्तत्करं प्रत्युतानुदत् ॥५॥अथ कोपवता राज्ञा हतो वक्त्रे चपेटया ॥आघूर्णितशिरा भूमौ पतित्वा पुनरुत्थितः ॥६॥उवाच च वचो धैर्यमवष्टभ्य महाबली ॥७॥॥ दानव उवाच ॥ज्ञातं न त्वं मनुष्योसि नृरूपेण चतुर्भुजः ॥आयातश्छिद्रमासाद्य हंतुं मां दानवांतकः ॥८॥एकं विधेहि मधुभिद्यदि त्वं बलवानसि ॥विहायैतन्महच्छूलं युध्यस्व स्वायुधैर्मया ॥९॥त्वया कपटरूपेण बलिनः कैटभादयः ॥न बलेन हताः संख्ये हता एवच्छलेन हि ॥११० ।बलिं पातालमनयस्त्वं नृवामनतां दधत् ॥नृमृगत्वेन भवता हिरण्यकशिपुर्हतः ॥११॥त्वया जटिलरूपेण लंकेशो विनिपातितः ॥गोपालवेषमासाद्य कंसाद्या घातितास्त्वया ॥१२॥स्त्रीरूपेणाहरस्त्वं तु विप्रलाप्या सुरान्सुधाम् ॥यादो रूपेण भवता शंखाद्यानि हता बहु ॥१३॥मायाविनामग्रगण्य सर्वमर्मज्ञसाधक ॥न त्वत्तोहं बिभेम्यद्य यदि शूलं विहास्यसि ॥१४॥अथवा दैन्यवचनः किमेभिः कातरोचितैः ॥न त्यक्ष्यसि त्रिशूलं त्वं न त्वां जेष्याम्यहं रणे ॥१५॥अवश्यमेव मर्तव्यमद्य प्रातः शरीरिणा ॥त्वत्करेण वरं मृत्युर्बलेनापिच्छलेन वा ॥१६॥इयं विद्याधरी कन्या न मया दूषिता सती ॥साक्षाच्छ्रीरेव मंतव्या तवार्थं रक्षिता मया ॥१७॥इत्युक्त्वा वामदोर्दंडप्रहारेणातिनिष्ठुरम् ॥निजघान दनोः सूनुस्तं शिलोच्चयकंपिना ॥१८॥नृपो वक्षः प्रहारं तं विषह्य रण मूर्द्धनि ॥लक्षीचकार तद्वक्षस्त्रिशूलं तोलयन्करे ॥१९॥निजघान महाबाहुः स च प्राणाञ्जहौ क्षणात् ॥इत्थं कंकालकेतुं स निहत्य सुरकंपनम् ॥१२०॥विद्याधरीं प्रपश्यंतीं प्राह हृष्टतनूरुहाम् ॥नारदस्य मुनेर्वाक्यात्तव सुश्रोणि वांछितम् ॥२१॥कृतं मया कृतज्ञे किं करवाण्यधुना वद ॥श्रुत्वेति तस्य सा वाक्यं प्राह गंभीरचेतसः ॥२२॥मलयगंधिन्युवाच ॥अथोदारमते वीर निज प्राणैः पणीकृताम् ॥किं मां पृच्छसि जीवातो कुलकन्या प्रदूषिताम् ॥२३॥इति ब्रुवत्यां कन्यायां पुनः स्वैरचरो मुनिः ॥अतर्कितागमः प्राप्तो नारदो देवलोकतः ॥२४॥ततस्तुतुषतुस्तौ तु दृष्ट्वा तं मुनिसत्तमम् ॥कृतप्रणामौ मुनिना परिविश्राणिताशिषौ ॥२५॥पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तु ॥जग्मतुर्नारदादिष्ट वर्त्मना कृतमंगलौ ॥२६॥तया मलयगंधिन्या युतः सोऽमित्रजिन्नृपः ॥पुरीं वाराणसीं प्राप्य पौरैर्विहितमंगलाम् ॥२७॥यद्वीक्षणादपि नरो नारकी नैव जातुचित् ॥गतिमाप्नोति मेधावी तां पुरीमविशन्नृपः ॥२८॥यस्यां पुर्यां प्रवेशं न लभंते वासवादयः ॥कैवल्यजनयित्र्यां हि तां पुरीमविशन्नृपः ॥२९॥अपि स्मृत्वा पुरीं यां वै काशीं त्रैलोक्यकांक्षिताम् ॥न नरो लिप्यते पापैस्तां विवेश स भूपतिः ॥१३०॥यस्यां पुर्यां प्रविष्टो ना महद्भिरपि पातकैः ॥नाभिभूयेत तां काशीं प्राविशत्स विशांपतिः ॥३१॥सापि विद्याधरी काशी समृद्धिं वीक्ष्य दूरतः ॥निनिंद स्वर्गलोकं च पातालनगरीमपि ॥३२॥प्राप्या मित्रजितं कांतं तथा हृष्टा न सा वधूः ॥यथा दृष्ट्वाप्यहो काशीं परमानंदकेतनम् ॥३३॥सा कृतार्थमिवात्मानं मन्यमाना मनस्विनी ॥तेन पत्या च काश्या च परां निर्वृतिमाययौ ॥३४॥सोप्यमित्रजिदासाद्य पत्नीं मलयगंधिनीम् ॥धर्मप्रधानं संसेव्य कामं प्राप्तोत्तमं सुखम् ॥३५॥सैकदा तं पतिं राज्ञी विष्णुभक्तिपरायणम् ॥रहो विज्ञापयांचक्रे पतिभक्ता सुतार्थिनी ॥३६॥॥ राज्ञ्युवाच ॥भूपाभीष्टतृतीयायाश्चरिष्यामि महाव्रतम् ॥यद्यनुज्ञा भवेद्भर्तुः पुत्रकामार्थितप्रदम् ॥३७॥॥ राजोवाच ॥देव्यभीष्टतृतीयायां व्रतं कीदृग्भवेद्वद ॥का देवता तत्र पूज्या विधानं चापि किं फलम् ॥३८॥नारी पत्यननुज्ञाता या व्रतादि समाचरेत् ॥जीवंती दुःखिनी सा स्यान्मृता निरयमृच्छति ॥३९॥इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे ॥इति कर्तव्यतां तस्य व्रतस्य सरहस्यकाम्॥१४०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्ध वीरेश्वराविर्भावेऽमित्रजित्पराक्रमो नाम द्व्यशीतितमोध्यायः ॥८२॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP