संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ५९ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ५९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५९ Translation - भाषांतर अगस्त्य उवाच ॥सर्वज्ञ हृदयानंद गौरीचुंबितमूर्धज ॥तारकांतक षड्वक्त्र तारिणे भद्रकारिणे ॥१॥सर्वज्ञाननिधे तुभ्यं नमः सर्वज्ञसूनवे ॥सर्वथा जितमाराय कुमाराय महात्मने ॥२॥कामारिमर्धनारीशं वीक्ष्य कामकृतं किल ॥यो जिगाय कुमारोपि मारं तस्मै नमोस्तु ते ॥३॥यदुक्तं भवता स्कंद मायाद्विजवपुर्हरिः ॥काश्यां पंचनदं तीर्थमध्यासातीव पावनम्॥ ४॥भूर्भुवःस्वः प्रदेशेषु काशीपरमपावनम्॥तत्रापि हरिणाज्ञायि तीर्थं पंचनदं परम् ॥५॥कुतः पंचनदं नाम तस्य तीर्थस्य षण्मुख ॥कुतश्च सर्वतीर्थेभ्यस्तदासीत्पावनं परम् ॥६॥कथं च भगवान्विष्णुरंतरात्मा जगत्पतिः ॥सर्वेषां जगतां पाता कर्ता हर्ता च लीलया ॥७॥अरूपो रूपमापन्नो ह्यव्यक्तो व्यक्ततां गतः ॥निराकारोपि साकारो निष्प्रपंचः प्रपंचभाक् ॥८॥अजन्मानेकजन्मा च त्वनामास्फुटनामभृत्॥निरालंबोऽखिलालंबो निर्गुणोपि गुणास्पदम् ॥९॥अहृषीकोहृषीकेशो प्यनंघ्रिरपिसर्वगः ॥उपसंहृत्य रूपं स्वं सर्वव्यापी जनार्दनः ॥१०॥स्थितः सर्वात्मभावेन तीर्थे पंचनदे परे ॥एतदाख्याहि षड्वक्त्र पंचवक्त्राद्यथा श्रुतम् ॥१ ३॥स्कंद उवाच ॥कथयामि कथामेतां नमस्कृत्य महेश्वरम् ॥सर्वाघौघ प्रशमनीं सर्वश्रेयोविधायिनीम् ॥३२॥यथा पंचनदं तीर्थं काश्यां प्रथितिमागतम् ॥यन्नामग्रहणादेव पापं याति सहस्रधा ॥१३॥प्रयागोपि च तीर्थेशो यत्र साक्षात्स्वयं स्थितः ॥पापिनां पापसंघातं प्रसह्य निजतेजसा ॥१४॥हरंति सर्वतीर्थानि प्रयागस्य बलेन हि ॥तानि सर्वाणि तीर्थानि माघे मकरगे रवौ ॥१५॥प्रत्यब्दं निर्मलानि स्युस्तीर्थराज समागमात् ॥प्रयागश्चापि तीर्थेंद्रः सर्वतीर्थार्पितं मलम् ॥१६॥महाघिनां महाघं च हरेत्पांचनदाद्बलात् ॥यं संचयति पापौघमावर्षं तीर्थनायकः ॥तमेकमज्जनादूर्जे त्यजेत्पंचनदे ध्रुवम् ॥१७॥यथा पंचनदोत्पत्तिस्तथा च कथयाम्यहम् ॥निशामय महाभाग मित्रावरुणनंदन ॥१८॥पुरा वेदशिरा नाम मुनिरासीन्महातपाः ॥भृगुवंश समुत्पन्नो मूर्तो वेद इवापरः ॥१९॥तपस्यतस्तस्य मुनेः पुरोदृग्गोचरं गता ॥शुचिरप्सरसां श्रेष्ठा रूपलावण्यशालिनी ॥२०॥तस्या दर्शनमात्रेण परिक्षुब्धं मुनेर्मनः ॥चस्कंद स मुनिस्तूर्णं साथ भीता वराप्सराः ॥२१॥दूरादेव नमस्कृत्य तमृषिं साभ्यभाषत ॥अतीव वेपमानांगी शुचिस्तच्छापभीतितः ॥२२॥नापराध्नोम्यहं किंचिन्महोग्रतपसांनिधे ॥क्षंतव्यं मे क्षमाधार क्षमारूपास्तपस्विनः ॥२३॥मुनीनां मानसं प्रायो यत्पद्मादपि तन्मृदु ॥स्त्रियः कठोरहृदयाः स्वरूपेणैव सत्तम ॥२४॥इति श्रुत्वा वचस्तस्याः शुचेरप्सरसो मुनिः ॥विवेकसेतुना स्तंभीन्महारोषनदीरयम् ॥२५॥उवाच च प्रसन्नात्मा शुचे शुचिरसि ध्रुवम् ॥न मेऽल्पोपि हि दोषोत्र न ते दोषोस्ति सुंदरि ॥२६॥वह्निस्वरूपा ललना नवनीत समः पुमान् ॥अनभिज्ञा वदंतीति विचारान्महदंतरम् ॥२७॥स्निह्येदुद्धृतसारोपि वह्नेः संस्पर्शमाप्य वै ॥चित्रं स्त्र्याख्या समादानात्पुमान्स्निह्यति दूरतः ॥२८॥अतः शुचे न भेतव्यं त्वया शुचि मनोगते ॥अतर्कितोपस्थितया त्वया च स्खलितं मया ॥२९॥स्खलनान्न तथा हानिरकामात्तपसो मुनेः ॥यथा क्षणांधीकरणाद्धानिः कोपरयादरेः ॥३०॥कोपात्तपः क्षयं याति संचितं यत्सुकृच्छ्रतः ॥यथाभ्रपटलं प्राप्य प्रकाशः पुष्पवंतयोः ॥३१॥अनर्थकारिणः क्रोधात्क्वार्थानांपरिजृभणम् ॥क्व वा खलजनोत्सेधात्साधूनां परिवर्धनम् ॥३२॥अमर्षे कर्षति मनो मनोभू संभवः कुतः ॥विधुंतुदे तुदत्युच्चैर्विधुं कुत्रास्ति कौमुदी ॥३३॥ज्वलतो रोषदावाग्नेः क्व वा शांतितरोः स्थितिः ॥दृष्टा केनापि किं क्वापि सिंहात्कलभसुस्थता ॥३४॥तस्मात्सर्वप्रयत्नेन प्रतीपः प्रतिघातुकः ॥चतुर्वर्गस्य देहस्य परिहेयो विपश्चिता ॥३५॥इदानीं शृणु कल्याणि कर्तव्यं यत्त्वया शुचे ॥अमोघबीजा हि वयं तद्बीजमुररी कुरु ॥३६॥एतस्मिन्रक्षिते वीर्ये परिस्कन्ने त्वदीक्षणात् ॥त्वया तव भवित्रेकं कन्यारत्नं महाशुचि ॥३७॥इत्युक्ता तेन मुनिना पुनर्जातेव साप्सराः ॥महाप्रसाद इत्युक्त्वा मुनेः शुक्रमजीगिलत् ॥३८॥अथ कालेन दिव्यस्त्री कन्यारत्नमजीजनत् ॥अतीव नयनानंदि निधानं रूपसंपदाम् ॥३९॥तस्यैव वेदशिरस आश्रमे तां निधाय सा ॥शुचिरप्सरसां श्रेष्ठा जगाम च यथेप्सितम् ॥४०॥तां च वेदशिराः कन्यां स्नेहेन समवर्धयत् ॥क्षीरेण स्वाश्रमस्थाया हरिण्या हरिणीक्षणाम् ॥४१॥मुनिर्नाम ददौ तस्यै धूतपापेति चार्थवत् ॥यन्नामोच्चारणेनापि कंपते पातकावली ॥४२॥सर्वलक्षणशोभाढ्यां सर्वावयव सुंदरीम् ॥मुनिस्तत्याज नोत्संगात्क्षणमात्रमपि क्वचित् ॥४३॥दिनेदिने वर्धमानां तां पश्यन्मुमुदे भृशम् ॥क्षीरनीरधिवद्रम्यां निशि चांद्रमसीं कलाम् ॥४४॥अथाष्टवार्षिकीं दृष्ट्वा तां कन्यां स मुनीश्वरः ॥कस्मै देयेति संचित्य तामेव समपृच्छत ॥४५॥॥ वेदशिरा उवाच ॥अयि पुत्रि महाभागे धूतपापे शुभेक्षणे ॥कस्मै दद्यावराय त्वां त्वमेवाख्याहि तं वरम् ॥४६॥अतिस्नेहार्द्रचित्तस्य जनेतुश्चेति भाषितम् ॥निशम्य धूतपापा सा प्रोवाच विनतानना ॥४७॥॥ धूतपापोवाच॥जनेतर्यद्यहं देया सुंदराय वराय ते ॥तदा तस्मै प्रयच्छ त्वं यमहं कथयामि ते ॥४८॥तुभ्यं च रोचते तात शृणोत्ववहितो भवान् ॥सर्वेभ्योतिपवित्रो यो यः सर्वेषां नमस्कृतः ॥४९ .॥सर्वे यमभिलष्यंति यस्मात्सर्वसुखोदयः ॥कदाचिद्यो न नश्येत यः सदैवानुवर्तते ॥५०॥इहामुत्रापि यो रक्षेन्महापदुदयाद्ध्रुवम् ॥सर्वे मनोरथा यस्मात्परिपूर्णा भवंति हि ॥५१॥दिनेदिने च सौभाग्यं वर्धते यस्य सन्निधौ ॥नैरंतर्येण यत्सेवां कुर्वतो न भयं क्वचित् ॥५२॥यन्नामग्रहणादेव केपि वाधां न कुर्वते ॥यदाधारेण तिष्ठंति भुवनानि चतुर्दश ॥५३॥एवमाद्या गुणा यस्य वरस्य वरचेष्टितम् ॥तस्मै प्रयच्छ मां तात मम तेपीहशर्मणे ॥५४॥एतच्छ्रुत्वापि ता तस्या भृशं मुदमवाप ह ॥धन्योस्मि धन्या मे पूर्वे येषामैषा सुतान्वये ॥५५॥ध्रुवा हि धूतपापासौ यस्या ईदृग्विधा मतिः ॥ईदृग्विधैर्गुणगणैर्गरिम्णा कोत्र वै भवेत् ॥५६॥अथवा स कथं लभ्यो विना पुण्यभरोदयम् ॥इति क्षणं समाधाय मनः स मुनिपुंगवः ॥५७॥ज्ञानेन तं समालोच्य वरमीदृग्गुणोदयम् ॥धन्यां कन्यां बभाषेथ शृणु वत्से शुभैषिणि ॥५८॥॥ पितोवाच ॥वरस्य ये त्वया प्रोक्ता गुणा एते विचक्षणे ॥एषां गुणानामाधारो वरोस्तीति विनिश्चितम् ॥५९॥परं स सुखलभ्यो न नितरां सुभगाकृतिः ॥तपः पणेन स क्रय्यः सुतीर्थविपणौ क्वचित् ॥६०॥तीर्थभारैः स सुलभो न कौलीन्येन कन्यके ॥न वेदशास्त्राभ्यसनैर्न चैश्वर्यबलेन वै ॥६१॥न सौंदर्येण वपुषा न बुद्ध्या न पराक्रमैः ॥एकयैव मनः शुद्ध्या करणानां जयेन च ॥६२॥महातपः सहायेन दमदानदयायुजा ॥लभ्यते स महाप्राज्ञो नान्यथा सदृशः पतिः ॥६३॥इति श्रुत्वाथ सा कन्या पितरं प्रणिपत्य च ॥अनुज्ञां प्रार्थयामास तपसे कृतनिश्चया ॥६४॥॥ स्कंद उवाच ॥कृतानुज्ञा जनेत्रा सा क्षेत्रे परमपावने ॥तपस्तताप परमं यदसाध्यं तपस्विभिः ॥६५॥क्व सा बालातिमृद्वंगी क्व च तत्तादृशं तपः ॥कठोरवर्ष्मसंसाध्यमहो सच्चेतसो धृतिः ॥६६॥धारासारा सुवर्षासु महावातवतीष्वलम् ॥शिलासु सावकाशासु सा बह्वीरनयन्निशाः ॥६७॥श्रुत्वा गर्जरवं घोरं दृष्ट्वा विद्युच्चमत्कृतीः ॥आसारसीकरैः क्लिन्ना न चकंपे मनाक्च सा ॥६८॥तडित्स्फुरंतीत्वसकृत्तमिस्रासु तपोवने ॥यातायातं करोतीव द्रष्टुं तत्तपसः स्थितिम् ॥६९॥तपर्तुरेव साक्षाच्च कुमारी कैतवात्किल॥पंचाग्नीन्परिधायात्र तपस्यति तपोवने ॥७०॥जलाभिलाषिणी बाला न मनागपि सा पिबत्॥कुशाग्रतोयपृषतं पंचाग्निपरितापिता ॥७१॥रोमांच कंचुकवती वेपमानतनुच्छदा॥पर्यक्षिपत्क्षपाः क्षामा तपसा हैमनीश्च सा ॥७२॥निशीथिनीषु शिशिरे श्रयंती सारसं रसम् ॥मेने सा सारसैः केयमुद्यताद्येति पद्मिनी ॥७३॥मनस्विनामपि मनोरागतां सृजते मधौ ॥तदोष्ठपल्लवाद्रागो जह्रे माकंदपल्लवैः ॥७४॥वसंते निवसंती सा वने बालाचलंमनः ॥चक्रे तपस्यपि श्रुत्वा कोकिला काकलीरवम् ॥७५॥बंधुजीवेऽधररुचिं कलहंसे कलागतीः ॥निक्षेपमिव सा क्षिप्त्वा शरद्यासीत्तपोरता ॥७६॥अपास्तभोगसंपर्का भोगिनां वृत्तिमाश्रिता ॥क्षुदुद्बोधनिरोधाय धूतपापा तपस्विनी ॥७७॥शाणेन मणिवल्लीढा कृशाप्यायादनर्घताम् ॥तथापि तपसा क्षामा दिदीपे तत्तनुस्तराम् ॥७८॥निरीक्ष्य तां तपस्यंतीं विधिः संशुद्धमानसाम् ॥उपेत्योवाच सुप्रज्ञे प्रसन्नोस्मि वरं वृणु ॥७९॥सा चतुर्वक्त्रमालोक्य हंसयानोपरिस्थितम् ॥प्रणम्य प्रांजलिः प्रीता प्रोवाचाथ प्रजापतिम् ॥८०॥॥ धूतपापोवाच ॥पितामह वरो मह्यं यदि देयो वरप्रद ॥सर्वेभ्यः पावनेभ्योपि कुरु मामतिपावनीम् ॥८१॥स्रष्टा तदिष्टमाकर्ण्य नितरां तुष्टमानसः ॥प्रत्युवाचाथ तां बालां विमलां विमलेषिणीम् ॥८२॥॥ ब्रह्मोवाच ॥धूतपापे पवित्राणि यानि संत्यत्र सर्वतः ॥तेभ्यः पवित्रमतुलं त्वमेधि वरतो मम ॥८३॥तिस्रः कोट्योऽर्धकोटी च संति तीर्थानि कन्यके ॥दिवि भुव्यंतरिक्षे च पावनान्युत्तरोत्तरम् ॥८४॥तानि सर्वाणि तीर्थानि त्वत्तनौ प्रतिलोम वै ॥वसंतु मम वाक्येन भव सर्वातिपावनी ॥८५॥इत्युक्त्वांतर्दधे वेधाः सापि निर्धूतकल्मषा ॥धूतपापोटजं प्राप्ताथो वेदशिरसः पितुः ॥८६॥कदाचित्तां समालोक्य खेलंतीमुटजाजिरे ॥धर्मस्तत्तपसाकृष्टः प्रार्थयामास कन्यकाम् ॥८७॥॥धर्म उवाच ॥पृथुश्रोणि विशालाक्षि क्षामोदरि शुभानने ॥क्रीतः स्वरूपसंपत्त्या त्वयाहं देहि मे रहः ॥८८॥नितरां बाधते कामस्त्वत्कृते मां सुलोचने ॥अज्ञातनाम्ना सा तेन प्रार्थितेत्यसकृद्ग्रहः ॥८९॥उवाच सा पिता दाता तं प्रार्थय सुदुर्मते ॥पितृप्रदेया यत्कन्या श्रुतिरेषा सनातनी ॥९०॥निशम्येति वचो धर्मो भाविनोर्थस्य गौरवात् ॥पुनर्निबंधयांचक्रे ऽपधृतिर्धृतिशालिनीम् ॥९१॥॥ धर्म उवाच ॥न प्रार्थयेहं सुभगे पितरं तव सुंदरि ॥गांधर्वेण विवाहेन कुरु मे त्वं समीहितम् ॥९२॥इति निर्बंधवद्वाक्यं सा निशम्य कुमारिका ॥पितुः कन्याफलंदित्सुः पुनराहेति तं द्विजम् ॥९३॥अरे जडमते मा त्वं पुनर्ब्रूहीति याह्यतः ॥इत्युक्तोपि कुमार्या स नातिष्ठन्मदनातुरः ॥९४॥ततः शशाप तं बाला प्रबला तपसो बलात् ॥जडोसि नितरां यस्माज्जलाधारो नदो भव ॥९५॥इति शप्तस्तया सोथ तां शशाप क्रुधान्वितः ॥कठोरहृदये त्वं तु शिला भव सुदुर्मते ॥९६॥॥ स्कंद उवाच ॥इत्यन्योन्यस्य शापेन मुने धर्मो नदोऽभवत् ॥अविमुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान् ॥९७॥साप्याह पितरं त्रस्ता स्वशिलात्वस्य कारणम्॥ध्यानेन धर्मं विज्ञाय मुनिः कन्यामथाब्रवीत् ॥९८॥मा भैः पुत्रि करिष्यामि तव सर्वं शुभोदयम् ॥तच्छापो नान्यथा भूयाच्चंद्रकांतशिला भव ॥९९॥चंद्रोदयमनुप्राप्य द्रवीभूततनुस्ततः ॥धुनी भव सुते साध्वि धूतपापेति विश्रुता ॥१००॥स च धर्मनदः कन्ये तव भर्ता सुशोभनः ॥तैर्गुणैः परिपूर्णांगो ये गुणाः प्रार्थितास्त्वया ॥१॥अन्यच्च शृणु सद्बुद्धे ममापि तपसो बलात् ॥द्वैरूप्यं भवतोर्भावि प्राकृतं च द्रवं च वै ॥२॥इत्याश्वास्य पिता कन्यां धूतपापां परंतप ॥चंद्रकांतशिलाभूतामनुजग्राह बुद्धिमान् ॥३॥तदारभ्य मुने काश्यां ख्यातो धर्मनदो ह्रदः ॥धर्मो द्रवस्वरूपेण महापातकनाशनः ॥४॥धुनी च धूतपापा सा सर्वतीर्थमयी शुभा ॥हरेन्महाघसंघातान्कूलजानिव पादपान् ॥५॥तत्र धर्मनदे तीर्थे धूतपापा समन्विते ॥यदा न स्वर्धुनी तत्र तदा ब्रध्नस्तपो व्यधात् ॥६॥गभस्तिमाली भगवान्गभस्तीश्वर सन्निधौ ॥शीलयन्मंगलां गौरीं तप उग्रं चचार ह ॥७॥नाम्ना मयूखादित्यस्य तीर्थे तत्र तपस्यतः ॥किरणेभ्यः प्रववृते महास्वेदोतिखेदतः ॥८॥किरणेभ्यः प्रवृत्ताया महास्वेदस्य संततिः ॥ततः सा किरणानाम जाता पुण्या तरंगिणी ॥९॥महापापांधतमसं किरणाख्या तरंगिणी॥ध्वंसयेत्स्नानमात्रेण मिलिता धूतपापया ॥११०॥आदौ धर्मनदः पुण्यो मिश्रितो धूतपापया ॥यया धूतानि पापानि सर्वतीर्थीकृतात्मना ॥११॥ततोपि मिलितागत्य किरणा रविणैधिता ॥यन्नामस्मरणादेव महामोहोंधतां व्रजेत्॥१२॥किरणा धूतपापे च तस्मिन्धर्मनदे शुभे ॥स्रवंत्यौ पापसंहर्त्र्यौ वाराणस्यां शुभद्रवे ॥१३॥ततो भागीरथी प्राप्ता तेन दैलीपिना सह ॥भागीरथी समायाता यमुना च सरस्वती ॥१४॥किरणा धूतपापा च पुण्यतोया सरस्वती ॥गंगा च यमुना चैव पंचनद्योत्र कीर्तिताः ॥१५॥अतः पंचनदं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥तत्राप्लुतो न गृह्णीयाद्देहं ना पांचभौतिकम् ॥१६॥अस्मिन्पंचनदीनां च संभेदेघौघभेदिनि ॥स्नानमात्रात्प्रयात्येव भित्त्वा ब्रह्मांडमंडपम् ॥१७॥तीर्थानि संति भूयांसि काश्यामत्र पदेपदे ॥ न पंचनदतीर्थस्य कोट्यंशेन समान्यपि ॥१८॥प्रयागे माघमासे तु सम्यक्स्नातस्य यत्फलम् ॥तत्फलं स्याद्दिनैकेन काश्यां पंचनदे ध्रुवम् ॥१९॥स्नात्वा पंचनदे तीर्थे कृत्वा च पितृतर्पणम् ॥बिंदुमाधवमभ्यर्च्य न भूयो जन्मभाग्भवेत् ॥१२०॥यावत्संख्यास्तिलादत्ताः पितृभ्यो जलतर्पणे ॥पुण्ये पंचनदे तीर्थे तृप्तिः स्यात्तावदाब्दिकी ॥२१॥श्रद्धया यैः कृतं श्राद्धं तीथें पंचनदे शुभे ॥तेषां पितामहा मुक्ता नानायोनि गता अपि ॥२२॥यमलोके पितृगणैर्गाथेयं परिगीयते ॥महिमानं पांचनदं दृष्ट्वा श्राद्धविधानतः ॥२३॥अस्माकमपि वंश्योत्र कश्चिच्छ्राद्धं करिष्यति ॥काश्यां पंचनदं प्राप्य येन मुच्यामहे वयम् ॥२४॥इयं गाथा प्रतिदिनं श्राद्धदेवस्य सन्निधौ ॥पितृभिः परिगीयेत काश्यां पंचनदं प्रति ॥२५॥तत्र पंचनदे तीर्थे यत्किंचिद्दीयते वसु ॥कल्पक्षयेपि न भवेत्तस्य पुण्यस्य संक्षयः ॥२६॥वंध्यापि वर्षपर्यंतं स्नात्वा पंचनदे ह्रदे ॥समर्च्य मंगलां गौंरीं पुत्रं जनयति ध्रुवम् ॥२७॥जलैः पांचनदैः पुण्यैर्वाससा पारिशोधितैः ॥महाफलमवाप्नोति स्नपयित्वेष्टदेवताम् ॥२८॥पंचामृतानां कलशैरष्टोत्तरशतोन्मितैः ॥तुलितोधिकतां यातो बिंदुः पंचनदांभसः ॥२९॥पंचकूर्चेन पीतेन यात्र शुद्धिरुदाहृता ॥सा शुद्धिः श्रद्धया प्राश्य बिंदुं पांचनदांभसः ॥१३०॥भवेदवभृथस्नानाद्राजसूयाश्वमेधयोः ॥यत्फलं तच्छतगुणं स्नानात्पांचनदांभसा ॥३१॥राजसूयाश्वमेधौ च भवेतां स्वर्गसाधनम् ॥आब्रह्मघटिकाद्वंद्वं मुक्त्यै पांचनदाप्लुतिः ॥३२॥स्वर्गराज्याभिषेकोपि न तथा संमतः सताम् ॥अभिषेकः पांचनदो यथानल्पसुखप्रदः ॥३३॥वरं वाराणसीं प्राप्य भृत्यः पंचनदोक्षिणाम् ॥नान्यत्र सेवकीभूत भूपकोटिर्नरेश्वरः ॥३४॥यैर्न पंचनदे स्नातं कार्तिके पापहारिणि ॥तेऽद्यापि गर्भे तिष्ठंति पुनस्ते गर्भवासिनः ॥३५॥कृते धर्मनदं नाम त्रेतायां धूतपापकम् ॥द्वापरे बिंदुतीर्थं च कलौ पंचनदं स्मृतम् ॥३६॥शतं समास्तपस्तप्त्वा कृते यत्प्राप्यते फलम् ॥तत्कार्तिके पंचनदे सकृत्स्नानेन लभ्यते ॥३७॥इष्टापूर्तेषु धर्मेषु यावजन्मकृतेषु यत् ॥अन्यत्र स्यात्फलं तत्स्यादूर्जे धर्मनदाप्लवात् ॥३८॥न धूतपाप सदृशं तीर्थं क्वापि महीतले ॥यदेकस्नानतो नश्येदघं जन्मत्रयार्जितम् ॥३९॥बिंदुतीर्थे नरो दत्त्वा कांचनं कृष्णलोन्मितम् ॥न दरिद्रो भवेत्क्वापि न स्वर्णेन वियुज्यते ॥१४०॥गोभूतिलहिरण्याश्व वासोन्नस्रग्विभूषणम् ॥यत्किंचिद्बिंदुतीर्थेत्र दत्त्वाक्षयमवाप्नुयात् ॥४१॥एकामप्याहुतिं दत्त्वा समिद्धेग्नौ विधानतः ॥पुण्ये धर्मनदे तीर्थे कोटिहोमफलं लभेत् ॥४२॥न पंचनदतीर्थस्य महिमानमनंतकम् ॥कोपि वर्णयितुं शक्तश्चतुर्वर्ग शुभौकसः ॥४३॥श्रुत्वाख्यानमिदं पुण्यं श्रावयित्वापि भक्तितः ॥सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥४४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थें काशीखंड उत्तरार्धे पंचनदाविर्भावो नामैकोनषष्टितमोऽध्यायः ॥५९॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP