संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ५५ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ५५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५५ Translation - भाषांतर ॥ स्कंद उवाच ॥अन्येपि ये गणास्तत्र काश्यां लिंगानि चक्रिरे ॥तांश्च ते कथयिष्यामि कुंभयोने निशामय ॥१॥गणेन पिंगलाख्येन पिंगलाख्येशसंज्ञितम् ॥लिंगं प्रतिष्ठितं शंभोः कपर्दीशादुदग्दिशि ॥२॥तस्य दर्शनमात्रेण पापानां जायते क्षयः ॥वीरभद्रो महाप्रीतो देवदेवस्य शूलिनः ॥३॥वीरभद्रेश्वरं लिंगं ध्यायेदद्यापि निश्चलः ॥तस्य दर्शनमात्रेण वीरसिद्धिः प्रजायते ॥४॥अविमुक्तेश्वरात्पश्चाद्वीरभद्रेश्वरं नरः ॥समर्च्य न रणे भंगं कदाचिदपि चाप्नुयात् ॥५॥वीरभद्रः स्वयं साक्षाद्वीरमूर्तिधरो मुने ॥संहरेद्विप्रसंघातमविमुक्तनिवासिनाम ॥६॥भद्रया भद्रकाल्या च भार्यया शुभया युतम् ॥वीरभद्रं नरोभ्यर्च्य काशीवासफलं लभेत् ॥७॥किरातेन किरातेशं लिंगं काश्यां प्रतिष्ठितम् ॥केदाराद्दक्षिणे भागे भक्तानामभयप्रदम् ॥८॥चतुर्मुखो गणः श्रीमान्वृद्धकालेश सन्निधौ ॥चतुर्मुखेश्वरं लिंगं ध्यायेदद्यापि निश्चलः ॥९॥भक्ताश्चतुर्मुखेशस्य चतुराननवद्दिवि ॥पूज्यंते सुरसंघातैः सर्वभोगसमन्विताः॥१ ०॥निकुंभेश्वरमालोक्य निकुंभगणपूजितम् ॥पूजयित्वा व्रजन्ग्रामं कार्यसिद्धिमवाप्नुयात् ॥कुबेरेश समीपेतु शिवलोके महीयते ॥११॥पंचाक्षेशं महालिंगं महादेवस्य दक्षिणे ॥समभ्यर्च्य नरः काश्यां जातिस्मृतिमवाप्नुयात् ॥१२॥भारभूतेश्वरं लिंगं भारभूतगणार्चितम्॥अंतर्गृहोत्तरद्वारि ध्यात्वा शिवपुरे वसेत् ॥१३॥भारभूतेश्वरं लिंगं यैः काश्यां न विलोकितम् ॥भारभूताः पृथिव्यास्तेऽवकेशिन इव द्रुमाः ॥१४॥गणेन त्र्यक्षसंज्ञेन लिंगं त्र्यक्षेश्वरं परम् ॥त्रिलोचनपुरोभागे शील्येताद्यापि कुंभज ॥१५॥तस्य लिंगस्य ये भक्तास्ते तु देहावसानतः ॥त्र्यक्षा एव प्रजायंते नात्र कार्या विचारणा ॥१६॥क्षेमको नाम गणपः काश्यां मूर्तिधरः स्वयम् ॥विश्वेश्वरं सर्वगतं ध्यायेदद्यापि निश्चलः ॥१७॥क्षेमकं पूजयेद्यस्तु वाराणस्यां महागणम् ॥विघ्नास्तस्य प्रलीयंते क्षेमं स्याच्च पदेपदे ॥१८॥देशांतरं गतो यस्तु तस्यागमनकाम्यया ॥क्षेमकं पूजनीयोत्र क्षेमेणाशु स आव्रजेत् ॥१९॥लांगलीश्वरमालोक्य लिंगं लांगलिनार्चितम् ॥विश्वेशादुत्तरेभागे न नरो रोगभाग्भवेत् ॥२०॥लांगलीशं सकृत्पूज्य पंचलांगलदानजम् ॥फलं प्राप्नोत्यविकलं सर्वसंपत्करं परम् ॥२१॥विराधेश्वरमाराध्य विराधगणपूजितम्॥सर्वापराधयुक्तोपि नापराध्यति कुत्रचित् ॥२२॥दिनेदिनेपराधो यः क्रियते काशिवासिभिः ॥स याति संक्षयं क्षिप्रं विराधेश समर्चनात् ॥२३॥नैर्ऋते दंढपाणस्तु विराधेशं प्रयत्नतः॥नत्वा सर्वापराधेभ्यो मुच्यते नात्र संशयः ॥२४॥सुमुखेशं महालिंगं सुमुखाख्यगणार्चितम् ॥पश्चिमाभिमुखं लिंगं दृष्ट्वा पापैः प्रमुच्यते ॥२५॥स्नात्वा पिलिपिला तीर्थे सुमुखेशं विलोक्य च ॥सदैव सुमुखं पश्येद्धर्मराजं न दुर्मुखम् ॥२६॥आषाढिनार्चितं लिंगमाषाढीश्वरसंज्ञकम् ॥दृष्ट्वाषाढयां नरो भक्त्या सर्वैः पापैः प्रमुच्यते ॥२७॥उदीच्यां भारभूतेशादाषाढीशं समर्चयन् ॥आषाढ्यां पंचदश्यां वै न पापैः परितप्यते ॥२८॥शुचिशुक्लचतुर्दश्यां पंचदश्यामथापि वा ॥कृत्वा सांवत्सरीं यात्रामनेना जायते नरः ॥२९॥॥ स्कंद उवाच ॥मुने गणेषु चैतेषु वाराणस्यां स्थितेष्विति ॥स्वनाम्ना स्थाप्य लिंगानि विश्वेशपरितुष्टये ॥३०॥विश्वेशश्चिंतयां चक्रे पुनः काशीप्रवृत्तये ॥कं वा हितं प्रहित्याद्य निर्वृतिं परमां भजे ॥३१॥योगिन्यस्तिग्मगुर्वेधाः शंकुकर्णमुखागणाः ॥व्यावृत्त्यनागताः काश्याः सिंधुगा इव सिंधवः ॥३२॥धुवं काश्यां प्रविष्टा ये ते प्रविष्टा ममोदरे ॥तेषां विनिर्गमो नास्ति दीप्तेग्नौ हविषामिव ॥३३॥येषां हि संस्थितिः काश्यां लिंगार्चनरतात्मनाम् ॥त एव मम लिंगानि जंगमानि न संशयः ॥३४॥स्थावरा जंगमाः काश्यामचेतनसचेतनाः ॥सर्वे ममैव लिंगानि तेभ्यो द्रुह्यंति दुर्धियः ॥३५॥वाचि वाराणसी येषां श्रुतौ वैश्वेश्वरी कथा ॥त एव काशी लिंगानि वराण्यर्च्यान्यहं यथा ॥३६॥वाराणसीति काशीति रुद्रावास इति स्फुटम् ॥मुखाद्विनिर्गतं येषां तेषां न प्रभवेद्यमः ॥३७॥आनंदकाननं प्राप्य ये निरानंदभूमिकाम् ॥अन्यां हृदापि वांछंति निरानंदाः सदात्र ते ॥३८॥अद्यैव वास्तुमरणं बहुकालांतरेपि वा॥कलिकाल भिया पुंसां काशी त्याज्या न कर्हिचित् ॥३९॥अवश्यंभाविनो भावा भविष्यंति पदेपदे ॥सलक्ष्मीनिलयां काशीं ते त्यजंति कुतो धियः ॥४०॥वरं विघ्नसहस्राणि सोढव्यानि पदेपदे ॥काश्यां नान्यत्र निर्विघ्नं वांछेद्राज्यमपि क्वचित् ॥४१॥कियन्निमेषसंभोग्याः संति लक्ष्म्याः पदेपदे ॥परं निरंतरसुखाऽमुत्राप्यत्रापि का शिका ॥४२॥विश्वनाथो ह्यहं नाथः काशिकामुक्तिकाशिका ॥सुधातरंगा स्वर्गंगा त्रय्येषा किन्न यच्छति ॥४३॥पंचक्रोश्यापरिमिता तनुरेषा पुरी मम ॥अविच्छिन्नप्रमाणर्धिर्भक्तनिर्वाणकारणम् ॥४४॥संसारभारखिन्नानां यातायातकृतां सदा ॥एकैव मे पुरी काशी ध्रुवं विश्रामभृमिका ॥४५॥मंडपः कल्पवल्लीनां मनोरथफलैरलम् ॥फलितः काशिकाख्योयं संसाराध्वजुषां सदा ॥४६॥चक्रवर्तेरियं छत्रं विचित्रं सर्वतापहृत् ॥काशीनिर्वाणराजस्य ममशूलोच्च दंडवत् ॥४७॥निर्वाणलक्ष्मीं ये पुण्याः परिवांछंति लीलया ॥निरंतरसुखप्राप्त्यै काशी त्याज्या न तै नृभिः ॥४८॥ममानंदवने ये वै निरं तर वनौकसः ॥मोक्षलक्ष्मीफलान्यत्र सुस्वादूनि लभंति ते ॥४९॥निर्ममं चापि निर्मोहं या मामपि विमोहयेत् ॥कैर्न संस्मरणीया सा काशी विश्वविमोहिनी ॥५०॥नामापि मधुरं यस्याः परानंदप्रकाशकम् ॥काश्याः काशीति काशीति सा कैः पुण्यैर्न जप्यते ॥५१॥काशीनामसुधापानं ये कुर्वंति निरंतरम् ॥तेषां वर्त्म भवत्येव सुधाम वसुधामयम् ॥५२॥ममतारहितस्यापि मम सर्वात्मनो ध्रुवम् ॥त एव मामका लोके ये काशीनाम जापकाः ॥५३॥रहस्यमिति विज्ञाय वाराणस्या गणेश्वरैः ॥सब्रह्मयोगिनी ब्रध्रैः स्थितं तत्रैव नान्यथा ॥५४॥अन्यथा ताश्च योगिन्यः सरविः सपितामहः ॥ते गणा मां परित्यज्य कथं तिष्ठेयुरन्यतः ॥५५॥अतीव भद्रं संजातं काश्यां तिष्ठत्सु तेषु हि ॥एकोपि भेद प्रभवेद्राज्ये राज्यांतरं विना ॥५६॥लब्धप्रवेशास्तावंतस्ते सर्वे मत्स्वरूपिणः ॥यतिष्यंति यतोवश्यं मदागमनहेतवे ॥५७॥अन्यानपि प्रेषयामि मत्पार्श्वपरिवर्तिनः ॥ये ते तत्र स्थिताः श्रेष्ठा अपिगंतास्म्यहं ततः ॥५८॥विचार्येति महादेवः समाहूय गजाननम् ॥प्राहिणोत्कथयित्वेति गच्छ काशीमितः सुत ॥५९॥तत्रस्थितोपि संसिद्धयै यतस्व सहितो गणैः ॥निर्विघ्नं कुरु चास्माकं नृपे विघ्नं समाचर ॥६०॥आधाय शासनं मूर्ध्नि गणाधीशोथ धूर्जटेः ॥प्रतस्थे त्वरितः काशीं स्थितिज्ञः स्थितिहेतवे ॥६१॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे काशीवर्णन गणेशप्रेषणं नाम पंचपंचाशत्तमोऽध्यायः ॥५५॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP