संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ११ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ११ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ११ Translation - भाषांतर अगस्तिरुवाच ॥शृणु सुश्रोणि सुभगे वैश्वानरसमुद्भवम् ॥पुण्यशीलसुशीलाभ्यां यथोक्तं शिवशर्मणे ॥१॥अथ कालेन तद्योषिदंतर्वत्नी बभूव ह ॥विधिवद्विहिते तेन गर्भाधानाख्य कर्मणि ॥२॥ततः पुंसवनं तेन स्पंदनात्प्राग्विपश्चिता ॥गृह्योक्तविधिना सम्यक्कृतं पुंस्त्वविवृद्धये ॥३॥सीमन्तोथाष्टमे मासि गर्भरूपसमृद्धिकृत् ॥सुखप्रसव सिद्ध्यै च तेनाकारि क्रियाविदा ॥४॥अथातः सत्सुतारासु ताराधिप वराननः ॥केंद्रे गुरौ शुभे लग्ने सुग्रहेष्वयुगेषु च ॥५॥अरिष्टं दीपयन्दीप्त्या सर्वारिष्टविनाशकृत् ॥तनयो नाम तस्यां तु शुचिष्मत्यां बभूव ह ॥६॥सद्यः समस्तसुखदो भूर्भुवःस्वर्निवासिनाम् ॥गंधवाहागन्धवाहादिग्वधूमुखवासनाः ॥७॥इष्टगन्धप्रसूनौघैर्ववर्षुस्ते घनाघनाः ॥देवदुन्दुभयो नेदुः प्रसेदुः सर्वतोदिशः ॥८॥परितः सरितः स्वच्छा भूतानां मानसैः सह ९॥तमोऽताम्यत्तु नितरां रजोपि विरजोभवत् ॥९॥सत्त्वाः सत्त्वसमायुक्ता वसुधासीच्छुभा तदा ॥कल्याणी सर्वतो वाणी प्राणिनः प्रीणयंत्यभूत् ॥१०॥तिलोत्तमोर्वशीरंभा प्रभा विद्युत्प्रभा शुभा ॥सुमंगला शुभालापा सुशीलाड्या(?) वरांगनाः ॥११॥क्वणत्कंकण पात्राणि कृत्वा करतलं मुदा ॥मुक्तमुक्ताफलाढ्यानि यक्षकर्दमवंति च ॥१२॥वज्रवैदूर्य दीपानि हरिद्रा लेपनानि च ॥गारुत्मतैकरूपाणि शंखशुक्तिदधीनि च ॥१३॥पद्मरागप्रवालाख्यरत्नकुंकुमवंति च ॥गोमेदपुष्परागेंद्र नीलसन्माल्यभांजि च ॥१४॥विद्याधर्यश्च किन्नर्यस्तथाऽमर्यः सहस्रशः ॥चामर व्यग्रहस्ताग्र मंगलद्रव्यपाणयः ॥१५॥गंधर्वोरगयक्षाणां सुवासिन्यः शुभस्वराः ॥गायंत्यो ललितं गीतं तत्राजग्मुरनेकशः ॥१६॥मरीचिरत्रि पुलहः पुलस्त्यः क्रतुरंगिराः ॥वसिष्ठः कश्यपश्चाहं विभांडो मांडवीसुतः ॥१७॥लोमशो लोमचरणो भरद्वाजोथ गौतमः ॥भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः ॥१८॥आपस्तंबो याज्ञवल्क्य दक्षवाल्मीकिमुद्गलाः ॥शातातपश्च लिखितः शिलादः शंखउंछभुक् ॥१५॥जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् ॥व्यासः कात्यायनः कुत्सः शौनकः सुश्रुतः शुकः ॥२०॥ऋष्यशृंगोथ दुर्वासा रुचिर्नारदतुंबुरू ॥उत्तंको वामदेवश्च च्यवनोसितदेवलौ ॥२१॥शालंकायनहारी तौ विश्वामित्रोथभार्गवः ॥मृकंडः सह पुत्रेण दाल्भ्य उद्दालकस्तथा ॥२२॥धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः ।तच्छांत्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम् ॥२३॥ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः ॥नंदि भृंगि समायुक्तो गौर्या सह वृषध्वजः ॥२४॥महेंद्रमुख्या गीर्वाणा नागाः पातालवासिनः ॥रत्नान्यादाय बहुशः ससरित्का महाब्धयः ॥२५॥स्थावरा जंगमं रूपं धृत्वा याताः सहस्रशः ॥महामहोत्सवे तस्मिन्बभूवाकालकौमुदी ॥२६॥जातकर्म स्वयं चक्रे तस्य देवः पितामहः ॥श्रुतिं विचार्य तद्रूपां नाम्ना गृहपतिस्त्वयम् ॥२७॥इति नाम ददौ तस्मै देयमेकादशेहनि ॥नामकर्मविधानेन तदर्थं श्रुतिमुच्चरन् ॥२८॥अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः ॥अग्ने गृहपतेभिद्युम्नमभि सह आयच्छस्व ॥२९॥अग्ने गृहपते स्थित्या परामपि निदर्शयन् ॥चतुर्निगममंत्रोक्तैराशीर्भिरभिनंद्य च ॥३०॥कृत्वा बालोचितां रक्षां हरेण हरिणा सह ॥निर्ययौ हंसमारुह्य सर्वेषां प्रपितामहः ॥३१॥अहोरूपमहो तेजस्त्वहो सर्वांगलक्षणम् ॥अहो शुचिष्मतीभाग्यमाविरासीत्स्वयं हरः ॥३२॥अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो ॥आविर्भवेत्स्वयं रुद्रो यतोरुद्रास्तदर्चकाः ॥३३॥इति स्तुवंतस्त्वन्योन्यं जग्मुः सर्वे यथागतम् ॥विश्वानरं समापृच्छ्य संप्रहृष्टतनूरुहाः ॥३४॥अतः पुत्रं समीहंते गृहस्थाश्रमवासिनः ॥पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी ॥३५॥अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा ॥अपुत्रस्यान्वयश्छिन्नो नापवित्रं ह्यपुत्रतः ॥३६॥न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ॥न पुत्रात्परमं मित्रं परत्रेह च कुत्रचित् ॥३७॥औरसः क्षेत्रजः क्रीतो दत्तः प्राप्तः सुतासुतः ॥आपत्सुरक्षितश्चान्यः पुत्राः सप्तात्र कीर्तिताः ॥३८॥एषामन्यतमः कार्यो गृहस्थेन विपश्चिता ॥पूर्वपूर्वः सुतः श्रेयान्हीनःस्यादुत्तरोत्तरः ॥३९॥॥ गणावूचतुः ॥निष्क्रमोथ चतुर्थेऽस्य मासि पित्राकृतो गृहात् ॥अन्नप्राशनमब्दार्धे चूडाब्दे चार्थवत्कृता ॥४०॥कर्णवेधं ततः कृत्वा श्रवणर्क्षे सकर्मवित् ॥ब्रह्मतेजोभिवृद्ध्यर्थं पंचमेऽब्दे व्रतं ददौ ॥४१॥उपाकर्म ततः कृत्वा वेदानध्यापयत्सुधीः ॥त्र्यब्दं वेदान्सविधिनाऽध्यैष्ट सांगपदक्रमान् ॥४२॥विद्याजातं समस्तं च साक्षिमात्राद्गुरोर्मुखात् ॥विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ॥४३॥ततोथ नवमे वर्षे पित्रोः शुश्रूषणे रतम् ॥वैश्वानरं गृहपतिं दृष्ट्वा कामचरो मुनिः ॥४४॥विश्वानरोटजं प्राप्य देवर्षिर्नारदः सुधीः ॥पप्रच्छ कुशलं तत्र गृहीतार्घासनः क्रमात् ॥४५॥॥ नारद उवाच ॥विश्वानर महाभाग शुचिष्मति शुभव्रते ॥कुरुते युवयोर्वाक्यमयं गृहपतिः शिशुः ॥४६॥नान्यत्तीर्थं न वा देवो न गुरुर्न च सत्किया ॥विहाय पित्रोर्वचनं नान्यो धर्मः सुतस्य हि ॥४७॥न पित्रोरधिकं किंचित्त्रिलोक्यां तनयस्य हि ॥गर्भधारणपोषाभ्यां पितुर्माता गरीयसी ॥४८॥अंभोभिरभिषिच्यस्वं जननीचरणच्युतैः ॥प्राप्नुयात्स्वर्धुनीशुद्ध कबंधाधिकशुद्धताम् ॥४९॥संन्यस्ताखिलकर्मापि पितुर्वंद्यो हिमस्करी ॥सर्ववंद्येन यतिना प्रसूर्वंद्या प्रयत्नतः ॥५०॥इदमेव तपोत्युग्रमिदमेवपरं व्रतम् ॥अयमेव परो धर्मो यत्पित्रोः परितोषणम् ॥५१॥मन्येमान्यो नाधमस्य तथान्यस्य यथा युवाम् ॥सुखाकारैर्विनीतस्य शिशोर्गृहपतेरहम् ॥५२॥वैश्वानरसमभ्येहि ममोत्संगे निषीद भो ॥लक्षणानि परीक्षेहं पाणिं दर्शय दक्षिणम् ॥५३॥इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः ॥प्रणम्य नारदं श्रीमान्भक्त्याप्रह्व उपाविशत् ॥५४॥ततो दृष्ट्वास्य सर्वांगं तालुजिह्वाद्विजानपि ॥आनीय कुंकुमारक्तं सूत्रं च त्रिगुणीकृतम् ॥५५॥स्मृत्वा शिवौ गणाध्यक्षमूर्ध्वीभूतमुदङ्मुखम् ॥मुनिः परिममौ बालमापादतलमस्तकम् ॥५६॥तिर्यगूर्ध्वं समो माने योष्टोत्तरशतांगुलः ॥स भवेत्पृथिवीपालो बालोऽयं ते यथा द्विज ॥५७॥पंचसूक्ष्मः पंचदीर्घः सप्तरक्तः षडुन्नतः ॥त्रिपृथुर्लघुगंभीरो द्वात्रिंशल्लक्षणस्त्विति ॥५८॥पंचदीर्घाणि शस्यानि यथादीर्घायुषोस्य वै ॥भुजौ नेत्रे हनुर्जानु नासाऽस्य तनयस्य ते ॥५९॥ग्रीवाजंघा मेहनैश्च त्रिभिर्ह्रस्वोयमीडितः ॥स्वरेण सत्त्वनाभिभ्यां त्रिगंभीरः शिशुः शुभः ॥६०॥त्वक्केशांगुलिदशनाः पर्वाण्यंगुलिजान्यपि ॥तथास्य पंचसूक्ष्माणि दिक्पालपदभाग्यथा ॥६१॥वक्षः कुक्ष्यलकं स्कंध करं वक्त्रं षडुन्नतम् ॥तथाऽत्र दृश्यते बाले महदैश्वर्यभाग्यथा ॥६२॥पाण्योस्तले च नेत्रांते तालुजिह्वाधरौष्ठकम् ॥सप्तारुणं च सनखमस्मिन्राज्यसुखप्रदम् ॥६३॥ललाटकटिवक्षोभिस्त्रिविस्तीर्णो यथाह्यसौ ॥सर्वतेजोतिरैश्वर्यं तथा प्राप्स्यति नान्यथा ॥६४॥कमठीपृष्ठकठिनावकर्मकरणौ करौ ॥राज्यहेतू शिशोरस्य पादौ चाध्वनि कोमलौ ॥६५॥अच्छिन्ना तर्जनीं व्याप्य तथा रेखास्य दृश्यते ॥कनिष्ठा पृष्ठनिर्याता दीर्घायुष्यं यथार्पयेत् ॥६६॥पादौ सुमांसलौ रक्तौ समौ सूक्ष्मौ सुशौभनौ ॥समगुल्फौ स्वेदहीनौ स्निग्धावैश्वर्यसूचकौ ॥६७॥स्वल्पाभिः कररेखाभिरारक्ताभिः सदासुखी ॥लिंगेन कृशह्रस्वेन राजराजो भविष्यति ॥६८॥उत्कंटासनगुल्फास्फिग्नाभिरस्यापि वर्तुला ॥दक्षिणावर्तमरुणं महदैश्वर्यसूचिका ॥६९॥धारैका मूत्रयत्यस्मिन्दक्षिणावर्तिनी यदि ॥गंधश्च मीनमधुनोर्यदि वीर्ये तदा नृपः ॥७०॥विस्तीर्णौ मांसलौ स्निग्धौ स्फिचावस्य सुखोचितौ ॥वामावर्तौ सुप्रलंबौ दोषौ दिग्रक्षणोचितौ ॥७१॥श्रीवत्सवज्रचक्राब्ज मत्स्यकोदंडदंडभृत् ॥तथास्य करगा रेखा यथा स्यात्त्रिदिवस्पतिः ॥७२॥द्वात्रिंशद्दशनश्चायं करकंबु शिरोधरः ॥कौंचदुंदुभिहंसाभ्र स्वरः सर्वेश्वराधिकः ॥७३॥मधुपिंगलनेत्रोऽसौ नैनं श्रीस्त्यजति क्वचित् ॥पंचरेखललाटस्तु तथा सिंहोदरः शुभः॥।७४॥ऊर्ध्वरेखांकितपदो निःश्वसन्पद्मगंधवान् ॥अच्छिद्रपाणिः सुनखो महालक्षणवानयम् ॥७५॥किंतु सर्वगुणोपेतं सर्वलक्षणलक्षितम् ॥संपूर्णनिर्मलकलं पातयेद्विधुवद्विधिः ॥७६॥तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशुः ॥गुणोपि दोषतां याति वक्रीभूते विधातरि ॥७७॥शंकेऽस्य द्वादशेवर्षे प्रत्यूहो विद्युदग्नितः ॥इत्युक्त्वा नारदो धीमान्स जगाम यथागतम् ॥७८॥विश्वानरः सपत्नीकस्तच्छ्रुत्वा नारदेरितम् ॥तदैव मन्यमानोभूद्वज्रपातं सुदारुणम् ॥७९॥हाहतोस्मीति वचसा हृदयं समताडयत् ॥मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ॥८०॥शुचिष्मत्यपि दुःखार्ता रुरोदातीव दुःसहम् ॥आर्तस्वरेण हारावैरत्यंत व्याकुलेद्रिया ॥८१॥हाशिशो हागुणनिधे हा पितुर्वाक्यकारक ॥हा कुतो मंदभाग्याया जठरे मे समागतः ॥८२॥त्वदेकपुत्रां हापुत्रकोऽत्र मां त्रायते पुरा ॥त्वदृते त्वद्गुणोर्म्याढ्ये पतितां शोकसागरे ॥८३॥हा बाल हा विमल हा कमलायताक्ष हा लोकलोचनचकोर कुरंगलक्ष्मन् ॥हा तात तात नयनाब्ज मयूखमालिन्हा मातुरुत्सवसहस्रसुखैकहेतो ॥८४॥हा पूर्णचंद्रमुख हा सुनखांगुलीक हा चाटुकारवचनामृतवीचिपूर ॥दुःखैः कियद्भिरहहां गमयात्वमाप्तः किं किं कृतं गृहपते न मया त्वदाप्त्यै ॥८५॥नोप्तो बलिर्न बत कासु च देवता सुतीर्थानि कानि न मयाध्युषितानि वत्स ॥के के मया न नियमौषधमंत्रयंत्राः संसाधितास्तव कृते सुकृतैकलभ्य ॥८६॥संसारसागरतरे हर दुःखभारं सारं मुखेंदुमभिदर्शय सौख्यसिंधो ॥पुन्नामतीव्रनरकार्णव वाडवाग्नेस्संजीवयस्व पितरं निजवाक्सुधोक्षैः ॥८७॥किंदेवता अहह जन्ममहोत्सवेऽस्य ज्ञात्वेति भाविमिलिता युगपत्समस्ताः ॥एकस्थ सर्वगुण शील कलाकलाप सौंदर्यलक्षणपरीक्षणपूर्णहर्षाः ॥८८॥शंभो महेश करुणाकर शूलपाणे मृत्युंजयस्त्वमिति वेदविदो वदंति ॥त्वद्दत्त बालतनये यदि कालकालः स्यादेवमत्र वद कस्य भवेन्न पातः ॥८९॥हा हंतहंतभवता भव तापहारी कस्माद्विधेऽत्र विदधे बहुभिः प्रयत्नैः ॥बालो विशालगुणसिंधुमगाधमध्यं सद्रत्नसारमखिलं सविधं विधाय ॥९०॥हा कालबालकवती किमुतेन राज्ञी त्वत्कालतां न हृतवान्नसुताननेंदुः ॥बालेति कोमलमृणाल लतांगलीलं दंभोलिनिष्ठुरकठोरकुठारदंष्ट्रः ॥९१॥इत्थं विलप्य बहुशो नयनांबुधारासंपातजात तटिनी शतमुत्तरंगम् ॥सा तोकशोकजनितानल तापतप्ता प्रोच्छ्वस्यदीर्घविपुलोष्णमहो शुशोष ॥९२॥आकर्ण्य तत्करुणवत्परिदेवितानि तानि द्रुमा व्रततयः कुसुमाश्रुपातैः ॥प्रायो रुदंति पततां विरुतार्तरावैरालोल्यमौलिमसकृत्पवनच्छलेन ॥९३॥रुण्णं तया किल तथा बहुमुक्तकंठमार्तस्वरैः प्रतिरवच्छलतो यथोच्चैः ॥तद्दुःखतोनुरुरुदुर्गिरिकंदरास्याः सर्वा दिशः स्थगितपत्रिमृगागमा हि ॥९४॥श्रुत्वार्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किंकिमेतत् ॥उच्चैर्वदन्गृहपतिः क्व समे बहिस्थः प्राणोंतरात्मनिलयः सकलेंद्रियेशः ॥९५॥अगस्त्य उवाच ॥ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ॥स्मित्वोवाच ततो मातस्त्रासस्त्वीदृक्कुतो हि वाम् ॥९६॥न मांकृत वपुस्त्राणं भवच्चरणरेणुभिः ॥कालः कलयितुं शक्तो वराकी चंचलाल्पिका ॥९७॥प्रतिज्ञां शृणुतं तातौ यदि वां तनयो ह्यहम् ॥करिष्येहं तथा तेन विद्युन्मत्तस्त्रसिष्यति ॥९८॥मृत्युंजयं समाराध्य सर्वज्ञं सर्वदं सताम् ॥कालकालं महाकालं कालकूटविषादिनम् ॥९९॥इति श्रुत्वा वचस्तस्य जरितौ द्विजदंपती ॥अकालामृतवर्षौघ शांततापौ तदोचतुः ॥१००॥अपयोदपयोवृष्टिरदुग्धाब्धिः सुधोदयः ॥अनिंदुः कौमुदीकांतिः कुतो नौ सुखयत्यलम् ॥१॥पुनर्ब्रूहिपुनर्ब्रूहि कीदृक्कीदृक्पुनःपुनः ॥कालः कलयितुं नालं वराकी चंचलाल्पिका ॥२॥आवयोस्तापनाशाय महोपायस्त्वयेरितः ॥मृत्युंजयस्य देवस्य समाराधनलक्षणः॥३॥तद्गच्छ शरणं तात नातः परतरं हितम् ॥मनोरथपथातीत कारिणः कालहारिणः ॥४॥किं न श्रुतं त्वया तात श्वेतकेतु यथा पुरा ॥पाशितं कालपाशेन ररक्ष त्रिपुरांतकः ॥५॥शिलादतनयं मृत्युग्रस्तमष्टाब्दमर्भकम् ॥शिवो निजजनं चक्रे नंदिनं विश्वनंदिनम् ॥६॥क्षीरोदमथनोद्भूतप्रलयानलसंनिभम् ॥पीत्वा हालाहलं घोरमरक्षद्भुवनत्रयम् ॥७॥जालंधरं महादर्पं हृतत्रैलोक्यसंपदम् ॥चरणांगुष्ठरेखोत्थचक्रेणनिजघानयः ॥८॥य एकेषु निपातोत्थ ज्वलनैस्त्रिपुरं पुरा ॥विधाय पत्रिणं विष्णुं ज्वालयामास धूर्जटिः ॥९॥अंधकं यस्त्रिशूलाग्रप्रोतं वर्षायुतं पुरा ॥त्रैलोक्यैश्वर्यसंमूढं शोषयामास भानुना॥११०॥कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ॥निनायानंगपदवीं वीक्षमाणेष्वजादिषु ॥११॥तं ब्रह्माद्येककर्तारं मेघवाहनमच्युतम् ॥प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम् ॥१२॥पित्रोरनुज्ञां प्राप्येति प्रणम्य चरणौ तयोः ॥प्रदक्षिणमुपावृत्य बह्वाश्वास्य विनिर्ययौ ॥१३॥स प्राप्य काशीं दुष्प्रापां ब्रह्मनारायणादिभिः ॥महासंवर्तसंवृत्त तापाद्विश्वेशपालिताम् ॥१४॥फिरस्वर्धुन्या हारयष्ट्येव राजितां कंठभूमिषु ॥विचित्रगुणशालिन्याहारनीहारगौरया ॥१५॥बहुसंसारसंतापसंतप्तजनतोद्भवम् ॥वारयंतीं वरणया छिंदंतीमसिधारया ॥१६॥यल्लभ्यते च कैवल्यं सुदृढाष्टांगयोगतः ॥विकासयंतीं तत्सम्यक्काशिकांयांजगुर्बुधाः ॥१७॥संसारतापतप्ताभ्यां लोचनाभ्यां स दृष्टवान् ॥कर्णाकर्णप्रकीर्णाभ्यां प्राग्ययौ मणिकर्णिकाम् ॥१८॥तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरं विभुम् ॥त्रैलोक्यप्राणिसंत्राणकारिणं प्रणनाम ह ॥१९॥आलोक्यालोक्य तल्लिंगं तुतोष हृदये बहु ॥परमानंदकंदाख्यं स्फुटमेतन्न संशयः ॥१२०॥अहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ॥यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ॥२१॥त्रिलोकीसारसर्वस्वं पिंडीभूतमिदं किल ॥किं वा पीयूषपिंडोयमुद्गतः क्षीरनीरधेः ॥२२॥आत्मावबोधमहसः किमसौ प्रथमांकुरः ॥ब्रह्मानंद सुकंदो वा किमु ब्रह्मरसायनम् ॥२३॥योगिहृत्पद्मनिलयं यदनाकारमुच्यते ॥तदाकारत्वमापेदे किमिदं लिंगकैतवात् ॥२४॥ब्रह्मांडभांडमथवा नाना रत्नौघपूरितम् ॥अथवा मोक्षवृक्षस्य फलमेतन्नसंशयः ॥२५॥निर्वाणलक्ष्म्याः किमथ केशपाशः सुपुष्पयुक ॥कैवल्यमल्लीवल्ल्याः किंस्तबकः स्तावकार्थदः ॥२६॥निःश्रेयसश्रियः किंवाऽऽनंदक्रीडनकंदुकः ॥अपवर्गो दयाद्रेः किमुदियाय सुधाकरः ॥२७॥संसारमोहतिमिरभिदुरःकिमसौ रविः ॥किमु कल्याणरमणीरम्यशृंगारदर्पणः ॥२८॥आज्ञातं नभवेदन्यत्सर्वेषां देहधारिणाम् ॥अनेककर्मबीजानां बीजपूरोऽयमद्भुतः ॥२९॥विश्वेषां विश्वबीजानां कर्माख्यानां लयो यतः ॥अस्मिन्निर्वाणदे लिंगे विश्वलिंगमिदं ततः ॥१३०॥मम भाग्योदयेनैव नारदेन महर्षिणा ॥तदागत्य तथोक्तं यत्कृतकृत्योस्म्यहं ततः ॥३१॥इत्यानंदामृतरसैर्विधायसहि पारणम् ॥ततःशुभेऽह्नि संस्थाप्य लिंगं सर्वहितप्रदम् ॥३२॥जग्राह नियमान्घोरान्दुष्करानकृतात्मनाम् ॥अष्टोत्तरशतैः कुंभैः पूर्णैर्गंगामृतोद्रवैः ॥३३॥संस्नाप्य वाससा पूतैः पूतात्मा प्रत्यहं शिवम् ॥नीलोत्पलमयीं मालां समर्पयति सोऽन्वहम् ॥३४॥अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ॥सपक्षार्धेन षण्मासं कंदमूलफलाशनः॥३५॥शीर्णपर्णाशनः पक्षे त्वाषण्मासं बभूव सः ॥षण्मासं वायुभक्षोभूत्षण्मासं जलबिंदुभुक् ॥३६॥एवं वर्षद्वयं तस्य व्यतिक्रांतं तथा सतः ॥जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम् ॥३७॥सत्यं करिष्यन्निवतमभ्यगात्कुलिशायुधः ॥उवाच च वरं ब्रूहि दद्मि तन्मनसि स्थितम् ॥३८॥अहं शतक्रतुर्विप्र प्रसन्नोस्मि शुभव्रतैः ॥इत्याकर्ण्य महेंद्रस्य वाक्यं मुनिकुमारकः॥३९॥उवाच मधुरं धीरः कीरवन्मधुराक्षरम्॥मघवन्वृत्रशत्रो त्वां जाने कुलिशपाणिनम् ॥१४०॥नाहं वृणे वरं त्वत्तः शंकरो वरदोस्ति मे ॥४१॥इंद्र उवाच ॥न मत्तः शंकरोस्त्वन्यो देवदेवोस्म्यहं शिशो ॥विहाय बालिशत्वं त्वं वरयाचस्व मां वरम् ॥४२॥ब्राह्मण उवाच ॥गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ॥न प्रार्थये पशुपतेरन्यदेवांतरं स्फुटम् ॥४३॥इति तस्य वचः श्रुत्वा क्रोधसंरक्तलोचनः ॥उद्यम्य कुलिशं घोरं भीषयामास बालकम् ॥४४॥स दृष्ट्वा बालको वज्रं विद्युज्ज्वालाशताकुलम् ॥स्मरन्नारदवाक्यं च मुमूर्च्छ भयविह्वलः ॥४५॥अथ गौरीपतिः शंभुराविरासीत्तमोनुदः ॥उत्तिष्ठोत्तिष्ठ भद्रं ते स्पर्शैः संजीवयन्निव ॥४६॥उन्मील्य नेत्रकमले सुप्ते इव दिवाक्षये ॥अपश्यदग्रे चोत्थाय शंभुमर्कशताधिकम् ॥४७॥भाले लोचनमालोक्य कंठे कालं वृषध्वजम् ॥वामांगसंनिविष्टाद्रितनयं चं द्रशेखरम् ॥४८॥कपर्देन विराजंतं त्रिशूलाजगवायुधम् ॥स्फुरत्कर्पूरगौरांगं परिणद्ध गजाजिनम् ॥४९॥परिज्ञाय महादेवं गुरुवाक्यत आगमात् ॥हर्ष बाष्पाकुलः सन्न कठो रोमांचकंचुकः ॥१५०॥क्षणंस्थगितवत्तस्थौ चित्रकृत्रिमपुत्रकः ॥यथातथा सुसंपन्नो विस्मृत्यात्मानमेव च ॥५१॥न स्तोतुं न नमस्कर्तुं किंचिद्विज्ञप्तुमेव च ॥यदासनशशाकालं तदा स्मित्वाऽऽह शंकरः ॥५२॥ईश्वर उवाच ॥शिशो गृहपते शक्राद्वज्रोद्यतपरादहो ॥ज्ञातो भीतोसि मा भैषीर्जिज्ञासा ते कृता मया ॥५३॥मम भक्तस्य नो शक्रो न वज्रं नांतकोपि वा ॥प्रभवेदिंद्ररूपेण मयैव त्वं हि भाषितः ॥५४॥वरं ददामि ते भद्र त्वमग्निपदभाग्भव ॥सर्वेषामेव देवानां वदनं त्वं भविष्यसि ॥५५॥सर्वेषामेव भूतानां त्वमग्नेंऽतश्चरो भव ॥धर्मराजेंद्रयोर्मध्ये दिगीशो राज्यमाप्नुहि ॥५६॥त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति ॥अग्नीश्वरं इति ख्यातं सर्वतेजोभिबृंहणम् ॥५७॥अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निजम् ॥अग्निमांद्य भयं नैव नाकालमरणं क्वचित् ॥५८॥अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ॥अन्यत्रापि मृतो दैवादग्निलोके महीयते ॥५९॥ततः काशीं पुनः प्राप्य कल्पांते मोक्षमाप्नुयात् ॥वीरेश्वरस्य पूर्वेण गंगायाः पश्चिमे तटे ॥१६०॥अग्नीश्वरं समाराध्य वह्निलोके वसेन्नरः ॥पितृभ्यां स्वजनैः सार्धं मित्रबंधुसमायुतः ॥६१॥विमानमिदमारुह्य प्रयाह्येव दिशःपते ॥इत्युक्त्वानीय तद्बंधून् पित्रोश्च परिपश्यतोः ॥दिक्पतित्वेऽभिषिच्याग्निं तत्र लिंगे शिवोविशत् ॥६२॥गणावूचतुः ॥इत्थमग्निस्वरूपं ते शिवशर्मन्प्रवर्णितम् ॥किमन्यच्छ्रोतुकामोसि कथयावस्तदीरय ॥१६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धें वह्निलोकवर्णनं नामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : November 24, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP