संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ७८ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ७८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७८ Translation - भाषांतर ॥ पार्वत्युवाच ॥आनंदकानने शंभो यल्लिंगं पुण्यवर्धनम् ॥यन्नामस्मरणादेव महापातकसंक्षयः ॥१॥यत्सेव्यं साधकैर्नित्यं यत्र प्रीतिरनुत्तमा ॥यत्र दत्तं हुतं जप्तं ध्यातं भवति चाक्षयम् ॥२॥यस्य संस्मरणादेव यल्लिंगस्य विलोकनात् ॥यल्लिंगप्रणतेश्चापि यस्य संस्पर्शनादपि ॥३॥पंचामृतादि स्नपनपूर्वाद्यस्यार्चनादपि ॥तल्लिंगं कथयेशान भवेच्छ्रेयः परंपरा ॥४॥॥ स्कंद उवाच ॥इति देवीसमुदितं समाकर्ण्य वटोद्भव ॥सर्वज्ञेन यदाख्यातं तदाख्यास्यामि ते शृणु ॥९॥देवदेव उवाच ॥उमे भवत्या यत्पृष्टं भवबंधविमोक्षकृत् ॥ततोऽहं कथयिष्यामि लिंगं स्थिरमना भव ॥६॥आनंदकानने चात्र रहस्यं परमं मम ॥न मया कस्यचित्ख्यातं न प्रष्टुं वेत्ति कश्चन ॥७॥संति लिंगान्यनेकानि ममानंदवने प्रिये॥परं त्वया यथा पृष्टं यथावत्तद्ब्रवीमि ते ॥८॥यत्र मुक्तिस्वरूपा त्वं स्वयं तिष्ठसि विश्वगे ॥यत्र ते नंदनश्चास्ति क्षेत्रं विघ्नविघातकृत् ॥९॥ममापि येन त्रिपुरं समरे जयकांक्षिणः ॥जयाशा पूरिता स्तुत्या बहुमोदकदानतः ॥१०॥यत्रास्ति तीर्थमघहृत्पितृप्रीतिविवर्धनम् ॥यत्स्नानाद्वृत्रहा वृत्रवधपापाद्विमुक्तवान् ॥११॥धर्माधिकरणं यत्र धर्मराजोप्यवाप्तवान् ॥सुदुष्करं तपस्तप्त्वा परमेण समाधिना ॥१२॥पक्षिणोपि हि यत्रापुर्ज्ञानं संसारमोचनम् ॥रम्यो हिरण्मयो यत्र बभूव बहुपाद्द्रुमः ॥१३॥यल्लिंगदर्शनादेव दुर्दमो नाम पार्थिवः ॥उद्वेजकोपि लोकानां क्षणाद्धर्ममतिस्त्वभूत् ॥१४॥तस्य लिंगस्य माहात्म्यमाविर्भावं च सुंदरि ॥निशामयाभिधास्यामि महापातक नाशनम् ॥१५॥धर्मपीठं तदुद्दिष्टमत्रानंदवने मम ॥तत्पीठदर्शनादेव नरः पापैः प्रमुच्यते ॥१६॥पुरा विवस्वतः पुत्रो यमः परमसंयमी ॥तपस्तताप विपुलं विशालाक्षि तवाग्रतः ॥१७॥शिशिरे जलमध्यस्थो वर्षास्वभ्रावकाशकः ॥तपर्तौ पंचवह्निस्थः कदाचिदिति तप्तवान् ॥१८॥पादाग्रांगुष्ठभूस्पर्शी बहुकालं स तस्थिवान् ॥एकपादस्थितः सोपि कदाचिद्बह्वनेहसम् ॥१९॥समीराभ्यवहर्तासीद्बहुदिष्टं सदिष्टवान् ॥पपौ स तु पिपासुः सन्कुशाग्रजलविप्रुषः ॥२०॥दिव्यां चतुर्युगीमित्थं स निनाय तपश्चरन् ॥चतुर्गुणं दिदृक्षुर्मां परमेण समाधिना ॥२१॥ततोहं तस्य तपसा संतुष्टः स्थिरचेतसः ॥ययौ तस्मै वरान्दातुं शमनाय महात्मने ॥२२॥वटः कांचनशाखाख्यो यस्तपस्तापसंततिम् ॥दूरीचकार सुच्छायो बहुद्विजसमाश्रयः ॥२३॥मंदमद मरुल्लोल पल्लवैः करपल्लवैः ॥योध्वगानध्वसंतप्तानाह्वये दिवतापहृत् ॥२४॥स्वानुरागैः सुरभिभिः स्वादुभिश्च पचेलिमैः ॥प्रीणयेदर्थिसार्थं यो वृत्तैर्निजफलैरलम् ॥२५॥तदधस्तात्परं वीक्ष्य तमहं तपनांगजम् ॥स्थाणुनिश्चल वर्ष्माणं नासाग्रन्यस्तलोचनम् ॥२६॥तपस्तेजोभिरुद्यद्भिः परितः परिधीकृतम् ॥भानुमंतमिवाकाशे सुनीले स्वेन तेजसा ॥२७॥स्वाख्यांकितं महालिंगं प्रतिष्ठाप्यातिभक्तितः ॥स्वच्छ सूर्योपलमयतेजः पुंजैरिवार्चितम् ॥२८॥साक्षीकृत्येव तल्लिंगं तप्यमानं महत्तपः ॥प्रत्यवोचं धर्मराजं वरं ब्रूहीति भास्करे ॥२९॥अलं तप्त्वा महाभाग प्रसन्नोस्मि शुभव्रत ॥निशम्य शमनश्चेति दृष्ट्वा मां प्रणनाम ह ॥३०॥चकार स्तवनं चापि परिहृष्टेंद्रियेश्वरः ॥निर्व्याजं स समाधिं च विसृज्य ब्रध्ननंदनः ॥३१॥धर्म उवाच ॥नमोनमः कारणकारणानां नमोनमः कारणवर्जिताय ॥नमोनमः कार्यमयाय तुभ्यं नमोनमः कार्यविभिन्नरूप ॥३२॥अरूपरूपाय समस्तरूपिणे पराणुरूपाय परापराय ॥अपारपाराय पराब्धिपार प्रदाय तुभ्यं शशिमौलये नमः ॥३३॥अनीश्वरस्त्वं जगदीश्वरस्त्वं गुणात्मकस्त्वं गुणवर्जितस्त्वम् ॥कालात्परस्त्वं प्रकृतेः परस्त्वं कालाय कालात्प्रकृते नमस्ते ॥३४॥त्वमेव निर्वाणपद प्रदोसि त्वमेव निर्वाणमनंतशक्ते ॥त्वमात्मरूपः परमात्मरूपस्त्वमंतरात्मासि चराचरस्य ॥३५॥त्वत्तो जगत्त्वं जगदेवसाक्षाज्जगत्त्वदीयं जगदेकबंधो ॥हर्ताविता त्वं प्रथमो विधाता विधातृविष्ण्वीश नमो नमस्ते ॥३६॥मृडस्त्वमेव श्रुतिवर्त्मगेषु त्वमेव भीमोऽश्रुतिवर्त्मगेषु ॥त्वं शंकरः सोमसुभक्तिभाजामुग्रोसि रुद्र त्वमभक्तिभाजाम् ॥३७॥त्वमेव शूली द्विषतां त्वमेव विनम्रचेतो वचसां शिवोसि ॥श्रीकंठ एकः स्वपदश्रितानां दुरात्मनां हालहलोग्रकंठः ॥३८॥नमोस्तु ते शंकर शांतशंभो नमोस्तु ते चंद्रकलावतंस ॥नमोस्तु तुभ्यं फणिभूषणाय पिनाकपाणेंऽधकवैरिणे नमः ॥३९॥स एव धन्यस्तव भक्तिभाग्यस्तवार्चको यः सुकृती स एव ॥तवस्तुतिं यः कुरुते सदैव स स्तूयते दुश्च्यवनादि देवैः ॥४०॥कस्त्वामिह स्तोतुमनंतशक्ते शक्नोति मादृग्लघुबुद्धिवैभवः ॥प्राचां न वाचामिहगोचरो यः स्तुतिस्त्वयीयं नतिरेव यावत् ॥४१॥स्कंद उवाच॥उदीर्य सूर्यस्य सुतोतिभक्त्या नमः शिवायेति समुच्चरन्सः ॥इलामिलन्मौलिरतीव हृष्टः सहस्रकृत्वः प्रणनाम शंभुम् ॥४२॥ततः शिवस्तं तपसातिखिन्नं निवार्य ताभ्यः प्रणतिभ्य ईश्वरः ॥वरान्ददौ सप्ततुरंगसूनवे त्वं धर्मराजो भव नामतोपि ॥४३॥त्वमेव धर्माधिकृतौ समस्त शरीरिणां स्थावरजंगमानाम् ॥मया नियुक्तोद्य दिनादिकृत्यः प्रशाधि सर्वान्मम शासनेन ॥४४॥त्वं दक्षिणायाश्च दिशोधिनाथस्त्वं कर्मसाक्षी भव सर्वजंतोः ॥त्वद्दर्शिताध्वान इतो व्रजंतु स्वकर्मयोग्यां गतिमुत्तमाधमाः ॥४५॥त्वया यदेतन्ममभक्तिभाजा लिंगं समाराधितमत्र धर्म ॥तद्दर्शनात्स्पर्शनतोऽर्चनाच्च सिद्धिर्भविष्यत्यचिरेण पुंसाम्॥ ४६॥धर्मेश्वरं यः सकृदेव मर्त्यो विलोकयिष्यत्यवदातबुद्धिः ॥स्नात्वा पुरस्तेऽत्र च धर्मतीर्थे न तस्य दूरे पुरुषार्थसिद्धिः ॥४७॥कृत्वाप्यघानामिह यः सहस्रं धर्मेश्वरं पश्यति दैवयोगात्॥सहेतनो जातु स नारकीं व्यथां कथां तदीयां दिविकुर्वतेमराः ॥४८॥यो धर्मपीठं प्रतिलभ्य काश्यां स्वश्रेयसे नो यततेऽत्र मर्त्यः ॥कथं स धर्मत्वमिवातितेजाः करिष्यति स्वं कृतकृत्यमेव ॥त्वया यथाप्ता इह धर्मराज मनोरथास्ते गुरुभिस्तपोभिः ॥तथैव धर्मेश्वरभक्तिभाजां कामाः फलिष्यंति न संशयोत्र ॥५०॥कृत्वाप्यघान्येव महांत्यपीह धर्मेश्वरार्चां सकृदेव कुर्वन् ॥कुतो बिभेति प्रियबंधुरेव तव त्वदीयार्चित लिंगभक्तः ॥५१॥पत्रेण पुष्पेण जलेन दूर्वया यो धर्मधर्मेश्वरमर्चयिष्यति ॥समर्चयिष्यंत्यमृतांधसस्तं मंदारमालाभिरतिप्रहृष्टाः ॥५२॥त्वत्तो विभेष्यंति कृतैनसो ये भयं न तेषां भविता कदाचित् ॥धर्मेश्वरार्चा रचनां करिष्यतां हरिष्यतां बंधुतयामनस्ते ॥५३॥यदत्र दास्यंति हि धर्मपीठे नरा द्युनद्यां कृतमज्जनाश्च ॥तदक्षयं भावि युगांतरेपि कृतप्रणामास्तव धर्मलिंगे ॥५४॥ये कार्तिके मासि सिताष्टमी तिथौ यात्रां करिष्यंति नरा उपोषिताः ॥रात्रौ च वै जागरणं महोत्सवैर्धर्मेश्वरे तेन पुनर्भवा भुवि ॥५५॥स्तुतिं च ये वै त्वदुदीरितामिमां नराः पठिष्यंति तवाग्रतः क्वचित् ॥निरेनसस्ते मम लोकगामिनः प्राप्स्यंति ते वैभवतः सखित्वम् ॥५६॥पुनर्वरं ब्रूहि यथेप्सितं ददे तेजोनिधेर्नंदन धर्मराज ॥अदेयमत्रास्ति न किंचिदेव ते विधेहि वागुद्यममात्रमेव ॥५७॥प्रसन्नमूर्तिं स विलोक्य शंकरं कारुण्यपूर्णं स्वमनोरथाभिदम् ॥आनंदसंदोहसरोनिमग्नो वक्तुं क्षणं नैव शशाक किंचित् ॥५८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे धर्मेशमहिमाख्यानं नामाष्टसप्ततितमोऽध्यायः ॥७८॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP