संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|अरुणाचलमाहात्म्यौत्तरार्धम्| अध्यायः २० अरुणाचलमाहात्म्यौत्तरार्धम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ विषयानुक्रमणिका अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः २० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः २० Translation - भाषांतर ॥ मार्कंडेय उवाच ॥ अहो महिषदैत्यस्य दुराचारत्वमीदृशम् ॥अहो दुरितहारिण्या दुर्गायाश्च पराक्रमः ॥१॥एवं तया भद्रकाल्या निहते महिषासुरे ॥किं चकार गिरींद्रस्य नंदिनी तपसि स्थिता ॥२॥॥ नंदिकेश्वर उवाच ॥ ॥अनंतरं सा हस्तेन दधती दैत्यमस्तकम् ॥ननाम गौरीमन्येन पाणिना खङ्गधारिणा ॥३॥अथ हर्षेण नृत्यंतीं तामालोक्य दयार्द्रया ॥दृष्ट्या देवी जगादैनां दंतांशुद्योतितांबरा ॥४॥त्वयातिदुष्करं कर्म निर्मितं विंध्यवासिनि ॥जातं तव प्रभावेन निष्प्रत्यूहं च मे तपः ॥५॥अथैतन्माहिषं शीर्षमपवित्र भयंकरम् ॥जगत्पवित्रचारित्रे त्यक्तुमर्हसि हस्ततः ॥६॥इति गौर्योदिता दुर्गा जुगुप्साकुलमानसा ॥मूर्ध्नस्तस्य निपाताय व्यधुनोद्बहुशः करम् ॥७॥तीर्थमुत्पाद्यतां देवि नवं पापविनाशनम् ॥तस्मिन्निमज्जनाद्दुर्गे प्रायश्चित्तं भविष्यति ॥८॥इतीरिता गौतमेन दुर्गा दुरितशंकिनी ॥पाटयामास खङ्गेन शिलापट्टं पटीयसा ॥९॥पातालावधि निर्भिन्नात्पाषाणतलतस्ततः ॥उदजृंभत्तरंगांभः सच्चित्तमिव निर्मलम् ॥१०॥ममज्ज सापि गंभीरे तस्मिन्नंभसि पावने ॥नमः शोणाद्रिनाथायेत्युक्त्वा मंत्रमनुत्तमम् ॥११॥तावन्महिषकंठस्थं लिंगं तद्गलितं तले ॥तटे प्रतिष्ठितं जातं पापनाशनसंज्ञया ॥१२॥उन्ममज्ज ततो दुर्गा तीर्थांभोधूतकल्मषा ॥निपपाताथ तत्पाणेर्महिषासुरमस्तकम् ॥१३॥कृतप्रदक्षिणा नत्वा पापनाशनमीश्वरम् ॥पुरस्तादस्ति सा गौर्या गौतमेनाभिनंदिता ॥१४॥एवं प्रत्यक्षनिरतपापां तां वीक्ष्य पार्वती॥जगाद दीर्घतपसं जगतीधरनंदिनी ॥१५॥महिषासुरसंहारेंऽजसा स्वनुमतिः कृता ॥विंध्यवासिनीयमहो दुष्टमाहिषविग्रहम् ॥१६॥गृहीत्वा भक्षयामास तस्य लिंगमिदं शिवम् ॥प्रायश्चित्तं ततो ब्रूहि ममापि मुनिसत्तम ॥१७॥॥ गौतम उवाच ॥ ॥देवि सर्वजगत्सर्गस्थितिसंहारकारिणि ॥त्वद्ध्यानमेव जगतां सर्वपातकनाशनम् ॥१८॥अथापि लौकिकं वृत्तमवलंब्य त्वयेरितम् ॥स्वकृतापि हि मर्यादा न महद्भिर्विलंघ्यते ॥१९॥अन्तःकरणकालुष्यक्षालिनी काचन क्रिया ॥कथ्यतेऽद्य मया मातरवधानं विधीयताम् ॥२०॥अरुणाद्रिरयं साक्षादनलाद्रिस्तिरोहितः ॥ज्वलतिज्योतिषा स्वेन कृत्तिकापूर्णिमा निशि ॥२१॥तत्सपर्यातपश्चर्या कार्या कात्यायनि त्वया ॥तज्ज्योतिर्दर्शनात्सर्वमभीष्टं तव सिध्यति ॥२२॥इत्युक्ता गौतमेनांबा तदाप्रभृति दारुणा ॥इयं च शिवभक्ता हि शिवपूजारता तदा ॥२३॥तपश्चचार पंचानामग्नीनां मध्यमाश्रिता ॥चतुर्णां शिखिनां मध्ये स्थिता सूर्यनिविष्टदृक् ॥२४॥रेजे हैमी शलाकेव द्योतमाना गिरींद्रजा ॥अथाकृष्टेवपार्वत्याः प्रेमपाशैर्निरायतैः ॥२५॥सा कार्त्तिकी पौर्णमासी समापेदे शुभा तिथिः ॥ततस्तस्य दिनस्यांते शृंगे शोणमहीभृतः ॥२६॥अदर्शि किमपि ज्योतिरनुपाधिकवैभवम् ॥तदर्थोपगतैर्ब्रह्ममधुभिद्वासवादिभिः ॥२७॥उपास्यमानमभितो देवैर्दिव्यर्षिसंगतैः ॥तदनिंधनमस्नेहमदशावर्तिसंभवम् ॥२८॥महाप्रदीपमालोक्य विस्मयं प्राप पार्वती ॥कृतप्रदक्षिणा साथ प्रणमंती पदेपदे ॥अरुणाद्रीश्वरं नाथं तुष्टा तुष्टाव शैलजा ॥२९॥नमस्ते मेरुचापाय कैलासाचलवासिने ॥नीहारशैलजामात्रे शोणक्ष्माधररूपिणे ॥३०॥वरुणादिसुरार्च्याय तरुणादित्यवर्चसे ॥अरुणाचलनाथाय करुणामूर्त्तये नमः ॥३१॥जय जह्नुसुताचन्द्र लेखालंकृतशेखर ॥सौंदर्यमोहिताशेषमुनिपत्नीजनाशय ॥३२॥जय शैलसुतासंगसंभृतानंगवैभव ॥माया नारायणाभोगक्रीडाम्रेडनपंडित ॥३३॥जय संध्यासमोपेतसंभृतानंदतांडव ॥जय गीर्वाणगंधर्वसिद्धविद्याधरार्चित ॥३४॥जय हेरंबजनक जय षण्मुखवत्सल ॥जय हैमवतीप्रार्थ्य जय पार्थिवदुर्लभ ॥३५॥इति स्तुत्वा मुहुस्तस्मिञ्ज्योतिषि न्यस्तलोचनाम् ॥दृष्ट्वा देवीं दयाव्याजाद्विलिल्ये वृषभध्वजः ॥३६॥लयित्वा निजमास्थाय रूपमुत्कटसुन्दरम् ॥आस्थाय वृषभं दिव्यममूं दृष्ट्वा शिवां शुभाम् ॥३७॥मानातिरेकादपहाय सर्वमैश्वर्यमेवं तपसि प्रवृत्ताम् ॥मुग्धां पुनः सांत्वयितुं गिरीशः प्रचक्रमे पर्वतराजपुत्रीम् ॥३८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरस्तुतिवर्णनंनाम विंशतितमोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP