संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ चर्यापादः| सपिण्डीकरणविधिपटलः अथ चर्यापादः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः अथ चर्यापादः - सपिण्डीकरणविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः सपिण्डीकरणविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि सपिण्डीकरणं परम् ।द्वादशाहे त्रिमासे वा षाण्मासे वत्सरेऽपि वा ॥१॥तैलाभ्यञ्जनकादीनि पूर्ववत् परिकल्पयेत् ।देवेशमुद्धरेन्मध्ये वह्निशूर्पन्तु दक्षिणे ॥२॥संपूज्यपूर्ववत् सर्वं निमित्तं भोजयेत् ततः ।पृथिव्यापस्थथा तेजोवायुराकाशमेव च ॥३॥तेष्वेवं सर्वतत्वानि कल्पयित्वा विशेषतः ।पार्त्थिवादिषु पञ्चैव पञ्चपिण्डन्तु विन्यसेत् ॥४॥तस्मादुपरिसादाख्यं पूजयेत् तु सदाशिवम् ।लिङ्गं कृत्वा विशेषेण द्वादशाङ्गुलदीर्घिकम् ॥५॥अर्चनोक्तविधानेन तस्मिन् संपूजयेच्छिवम् ।तत्पिण्डं पूर्ववत् कृत्वा तत्वेतत्वे तु योजयेत् ॥६॥पूर्वं संयोज्य सालोक्यं सामीप्यञ्च द्वितीयकम् ।त्रितीयञ्चैव सारूप्यं सा युज्यन्तु चतुर्थकम् ॥७॥एवं ध्यात्वा तु यत् सम्यक् सपिण्डीकरणं भवेत् ।अष्टकाहोमकार्यं तु संक्षेपं शृणु सुवृत ॥८॥माघे च प्रोष्ठमासे च सर्वेद्वौ तु विशेषतः ।सूर्ये च सूर्यपुत्रे च भूमिपुत्रे तथैव च ॥९॥अष्टका कुरुते विद्वानस्य द्वारे तु वायदि ।शिवाग्निं पूर्ववद्धुत्वा पञ्चब्रह्मैः शतं हुनेत् ॥१०॥पञ्चषट्सङ्ख्यकान् शैवान् भोजयित्वा विशेषतः ।दक्षिणाञ्च यथा शक्त्या वस्त्रहेमपुरःसरम् ॥११॥पर्वेपर्वेपराह्णे तु यथा शक्त्या तथा कुरु ।संप्रोक्तमष्टकाहोमं प्रायश्चित्तविधिं शृणु ॥१२॥इति सपिण्डीकरणविधिपटल एकादशः ॥११॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP