संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ चर्यापादः| षोडशक्रियाविधिपटलः अथ चर्यापादः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः अथ चर्यापादः - षोडशक्रियाविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः षोडशक्रियाविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि शैवानां षोडशक्रियाः ।शिवाध्वरे च ये मर्त्या दीक्षायोग्यतया स्थिताः ॥१॥तेषान्तु षोडशप्रोक्तं शिवेन परमात्मना ।ऋतुसङ्गमनञ्चाद्ये गर्भाधानं द्वितीयके ॥२॥पुंसवनं त्रितीयन्तु सीमन्तं हि चतुर्थकम् ।पञ्चमञ्जातकर्मञ्च षष्ठञ्चोत्थानमेव च ॥३॥सप्तमन्नामकरणमन्नप्राशनमष्टकम् ।नवमे वा सगमनं दशमे पिण्डवर्द्धनम् ॥४॥समावर्तनकं पश्चाद्विवाहं षोडशो भवेत् ।एतानि षोडशानी ह पृथग्वक्ष्ये समासतः ॥५॥प्रथमे ऋतुसंयुक्ते ऋतुसङ्गमनं तथा ।त्रिरात्रं ऋतुसंयुक्तञ्चतुर्थेह निशुद्ध्यति ॥६॥आर्तवे पूर्वरात्रौ तु तद्रात्रं प्रतिगृह्य च ।आर्तवे पररात्रौ तु तद्रात्रं परिवर्जयेत् ॥७॥प्रथमेहनि चण्डाली द्वितीये ब्रह्मघातकी ।तृतीये रजकी प्रोक्ता चतुर्थे हनि शुद्ध्यति ॥८॥त्रिरात्रं मलविद्धा सा स्नानादीनि विवर्जिता ।एकभुक्ता न खर्वेण वरिसाञ्जलि ना पिबेत् ॥९॥ग्रहेक्षणदिवा स्वप्नं न शुल्पेनाश्नियात् ततः ।चतुर्थे दन्तकाष्ठाद्यै स्नात्वा चामलकादिभिः ॥१०॥शुद्धवस्त्रानुलेपाद्यैस्त्रीशूद्राणां न भाषयेत् ।स्नातायान्तु दृशापश्येत् तादृशं लभते सुतम् ॥११॥अपश्येदपरं तस्मात् भरारन्दर्शयेत् तु सा ।कन्याया प्रथमे चेति सर्वालङ्कारसंयुता ॥१२॥शास्त्रोपदिष्टकल्याणं कृत्वा तत्व विशेषतः ।शिवाग्निं पूर्ववत् कृत्वा पूर्वोक्तविधिना यथा ॥१३॥शिवं मध्ये तु संस्थाप्य संपूज्यपूर्ववत् क्रमात् ।शिवाङ्गं ब्रह्ममन्त्रैस्तु होममेवं प्रकारयेत् ॥१४॥ऋतु स्नातान्तरितं कृत्वा तत्र वामे तु संस्थिता ।सुस्नात्वा चम्य विधिवत् बस्मोद्धूलितविग्रहा ॥१५॥वह्नेः पश्चिमदिक्भागे पूर्वस्याभिमुख स्थिता ।आचार्येणार्चितञ्चाग्निं ततो मन्त्रेण हूयते ॥१६॥परिषेकं ततः कुर्याद् विद्यांगैरभिमंत्रितः ।सहस्रं वा शताष्टं वा हुत्वा वै ब्रह्मपञ्चकैः ॥१७॥लक्ष्या तु पटश्रंगे च हविष्यञ्चैव निक्षिपेत् ।नासिकादक्षिणे पुत्र मपरेदुहितेश्चया ॥१८॥निर्वीवनं न कर्तव्यं शोषरोषौ च वर्जयेत् ।पुत्रार्त्थमेव संकल्प्य न भोगाय कदाचन ॥१९॥आर्तवात् द्वादशान्तं वा षोडशं वा प्रचक्षते ।प्रधानं त्रिदिनं त्यक्त्वा चतुर्थदिवसागमम् ॥२०॥युग्मके तु पुमान्विद्धित्वयुग्मेस्त्रीप्रजा तथा ।शुक्लवृद्ध्या तु पुरुषो रक्तवृद्ध्यास्त्रीप्रजायते ॥२१॥रक्तशुक्लौ समञ्चेत् तु षण्डन्तत्र प्रजायते ।पुन्नागमुकुलं यद्वत् तद्वत् गर्भाशयोगतम् ॥२२॥गर्भाशयगतो बिन्दुर्वायुच्छेद्य द्विधापुनः ।द्विधागर्भं समादाय शरीरं द्विविधं स्फुटम् ॥२३॥आयुः कर्म च वित्ताद्या वर्तन्ते चेश्वरेण वै ।ऋतु सङ्गमनं प्रोक्तं गर्भाधानन्ततः शृणु ॥२४॥सद्योग्रहीत गर्भाया लक्षणं मन्निबोधतः ।शरीराटोपसं क्लेश स्थितद्वेषकभर्त्रका ॥२५॥अत्र चिंखरतायोने स्फुरणेन समन्विता ।आलक्ष्यगर्भं सवीक्ष्य शुभनक्षत्रसंवृतः ॥२६॥अग्निं पूर्ववदाराध्य सद्येनाष्टशतं हुनेत् ।यवञ्चापि पयोदत्वा पयोदधि घृतं समम् ॥२७॥एतत् तु प्रथितं प्रोक्तं प्रासयेदीशमन्त्रतः ।तत्पत्नीं सकलीकृत्य पुरुषेणोदरं स्पृशेत् ॥२८॥गर्भाधानमिदं प्रोक्तं ततः पुंसवनं शृणु ।द्विमासे प्रथमे गर्भे चतुर्मासेऽथवा पुनः ॥२९॥शुभनक्षत्रसंयोगे चाग्निमाराद्ध्य पूर्ववत् ।वामदेवेन साहस्रमथवाष्टशतं हुनेत् ॥३०॥तत्र पृथक् च सहितो माषधान्यं प्रवेशयेत् ।याज्ञिकैर्वृक्षमुकुलैः क्षीरयुक्तं विमत्थ्य वै ॥३१॥तद्द्रव्यं नववस्त्रेण पत्न्यानासापुटे बुधः ।वामदेवेन मन्त्रेण शिवं स्मृत्वा तु दापयेत् ॥३२॥शैवान् संभोजयित्वा तु आचार्यं पूजयेत् ततः ।एवं पुंसवनं प्रोक्तं सीमन्तञ्च ततः शृणु ॥३३॥चतुर्थे षष्ठमेवाष्टमासे सिमन्तकर्मकम् ।पूर्वे वा शुभनक्षत्रे वह्निं पूर्ववदाचरेत् ॥३४॥अघोराष्टशतं हुत्वा व्याहृतिस्तत्र हूयते ।दर्भोदुंबरमाल्यादि बध्वासीमन्तकर्मणि ॥३५॥ललाटच्छिरमध्यान्तं समालिख्य समापयेत् ।विद्यांगेन तु तत्कर्म नववस्त्रन्तु दापयेत् ॥३६॥संपूज्य हेमस्रग्गन्धैः सीमन्तोन्नयनं ततः ।पुरस्तादीशमन्त्रेण पूर्ववक्त्रवृतञ्चरेत् ॥३७॥पुरुषेणोदकं स्पृष्ट्वा जपित्वा शिवमन्त्रतः ।प्रोक्तं सिमन्तमेवं हि जातकर्मं ततः शृणु ॥३८॥सूतिकाग्रहमन्वीक्ष्य शुद्धिं कृत्वा पुरातनम् ।तिलसर्षपचूर्णैस्तु धूपयित्वाग्रहान्तरम् ॥३९॥सूतिकायात्वथेऽष्टाभिस्तर्जांस्त्रीभिः प्रवेशयेत् ।ग्रहसारन्तु संपूज्य तदज्ञात्वा ग्रहस्थितिम् ॥४०॥कुमारोजायमानश्चेत् विरह्यमपरं ततः ।अस्त्रेणैवशतं हुत्वा सर्वरक्षार्थमेव च ॥४१॥जाते पुत्रेशिवं ध्यात्वा मुखं वामेन दर्शयेत् ।नाभिसूत्रमथास्त्रेण छित्वांगानि विशोद्ध्य वै ॥४२॥पञ्चब्रह्मसमुच्चार्य पुत्रमूर्ध्नि जिघृक्षयेत् ।तस्यैव दक्षिणे श्रोत्रे जप्त्वा तत्पुरुषं ततः ॥४३॥मध्वाज्यगुलसम्मिश्रं दत्वाब्रह्मवृतं तथा ।सुवर्णदर्भयाबध्वा ते नैवाज्य हृदासह ॥४४॥दत्वा हिरण्यरूपेति दातव्यं साधकोत्तमः ।मातृहस्ते च दत्वातं सद्येन क्षालयेत् स्तनौ ॥४५॥प्रशान्तायेति मन्त्रेण दातव्यं दक्षिणं स्तनम् ।कुम्भमाराध्य तत्रैव अघोरास्त्रेण मन्त्रतः ॥४६॥पूर्णोदकं शरस्थाने रक्षार्थं स्थापयेत् बुधः ।होतव्यं दशरात्रौ तु सायं प्रातरतंद्रितः ॥४७॥एतत् कर्म च भर्तुश्च कर्तव्यं हि दिनेदिने ।त्रयः पञ्चाहसप्ताहे शयनादीनिशोधयेत् ॥४८॥जातकर्ममिदं प्रोक्तमुत्थानं शृणु सुवृत ।दशारात्रे त्वतीते तु कृत्वोत्थापनकर्मकम् ॥४९॥सर्वद्रव्याणि भाण्डानि वर्जयेत्तानि यत्नतः ।कं सदार्वायसादीनि मानसाशुद्धिरुच्यते ॥५०॥संशोध्यकारुणा वस्त्रं भस्मना हेमशुद्धिकम् ।मृत्गोमयोदकैरेव तत्ग्रहञ्चोपलेपयेत् ॥५१॥कृत्वा तु मलिनस्नानं दंपत्योः क्षुरकर्मकम् ।तत स्नानन्तु कर्तव्यं तदा पर्यग्निकं बुधः ॥५२॥प्रक्षिप्यनवभाण्डानि पञ्चगव्यन्तु प्राशयेत् ।पुण्याहं वाचयित्वा तु प्रोक्षयित्वा जनान् क्रमात् ॥५३॥कुशोदकं शरावे तु शिवमन्त्रगणैः सह ।शिवभूतञ्च तत्तोयं दंपत्योः प्राशयेत् क्रमात् ॥५४॥उत्थापनमिदं प्रोक्तं नामनिर्देशनं शृणु ।एकादश्यां वा द्वादश्यां नामनिर्देशनं क्रमात् ॥५५॥शिवाग्निं विधिवत् कृत्वा पुत्रं संस्पृश्यमन्त्रवित् ।पुत्रस्य देवतोद्दिश्य नामकर्म च कारयेत् ॥५६॥प्रथमन्तु महादेवं द्वितीयन्तु महेश्वरम् ।त्रितीयं शंकरं प्रोक्तञ्चतुर्थं वृषभध्वजम् ॥५७॥पञ्चमं कृत्तिवासस्तु षष्ठं वै कामनाशनम् ।सप्तमं देवदेवेशं श्रीकण्ठञ्चाष्टमं स्मृतम् ॥५८॥नवमं ईश्वरं प्रोक्तं दशमं पार्वती प्रियम् ।रुद्रमेकादशञ्चैव द्वादशस्तु शिवस्तथा ॥५९॥तानिद्वादशनामानि कृत्तिकादिषु बुद्धिमान् ।शिवान्तं मुक्तिनामानि वाचयेदग्नि सन्निधौ ॥६०॥दूर्वांकुराक्षतैर्मिश्रैः पाणौ वा दक्षिणोत्तरम् ।पादादिमूर्ध्निपर्यन्तं शिवांगेन निदापयेत् ॥६१॥शिवमन्त्रं समुच्चार्य कन्यायाः शक्तिनामतः ।अंबिका पार्वतीगौरी भवानी च सुरार्चिता ॥६२॥दाक्षायणीहैमवती महादेवी हरि प्रिया ।उमाशिवकरी चेति गिरिजाद्वादशैव तु ॥६३॥शक्तेर्नाम इति ख्याता कृत्तिकादिषु योजयेत् ।आचार्यपूजनं कृत्वा शैवांस्तान्परिपूजयेत् ॥६४॥नामनिर्देशनं प्रोक्तं ततोन्नप्रासनं शृणु ।षाण्मासे शुभनक्षत्रे चान्नप्राशनकर्मकम् ॥६५॥नोच्छिष्ट स्पर्शनं बालं सुमुहूर्ते शुभेदिने ।पक्वान्नं पयसाज्येन वह्निमाराध्यपूर्ववत् ॥६६॥बीजमन्त्रेणमतिमान् कांसपात्रे तु संस्थितम् ।भोजयेत् पायसे नैव जनान् सर्वान्विशेषतः ॥६७॥होमान्नं कारयेद्धिमानन्न प्राशनकर्मणि ।अन्नप्राशनमेवं हि प्रवासगमनं शृणु ॥६८॥तद्दिने सुमुहूर्ते तु सङ्ग्रहे तु मनोरमे ।अग्न्याधानन्ततः कृत्वा सद्येनाष्टशतं हुनेत् ॥६९॥पितापुत्रमलंकृत्य शिवघोषं विशेषतः ।पिता तत्पुरुषेणैव तत्पुत्रं मूर्ध्नि जिघ्रति ॥७०॥शिवमन्त्रं ततो जप्त्वा गत्वादेवालयं शनैः ।वृषगायत्रि मन्त्रेण वृषगर्भं प्रणम्य च ॥७१॥देवदेवं नमस्कृत्वा पुत्रेणसहबान्धवैः ।गुहालयं ततो गत्वा प्रणम्यगुहमव्ययम् ॥७२॥शनैः शनैर्ग्रहं नित्वा रक्षां कृत्वा तु भस्मना ।पिण्डवर्धनकं वक्ष्ये अग्न्याधानन्तु पूर्ववत् ॥७३॥विधिवत् ब्रह्मशिरसा हुत्वा चाष्टशतं पुनः ।दक्षिणांगुष्ठमारभ्य ईशानं तदनुक्रमात् ॥७४॥जपित्वा कारयेद्विद्वान्येवं वापि दशाक्षरम् ।मधुराक्षारसद्रव्यैः शैवान् संभोज्ययत्नतः ॥७५॥पिण्डवर्धनमेवं हि क्षुरकर्म ततः शृणु ।त्रिवर्षे शुभनक्षत्रे सुतिथौ चोतरायणे ॥७६॥तद्दिनात् पूर्वदिवसे कृत्वानां दीमुखं पुनः ।चौलोपनयने चैव समावर्तनके तथा ॥७७॥पाणिग्रहणके तेषां पूर्वे नान्दीमुखं स्मृतम् ।वितृदैवतमावाह्य गन्धपुष्पादिनार्चयेत् ॥७८॥पितॄन् पितामहांश्चैव तथा वै प्रपितामहान् ।एतैर्नामभि संकल्प्य शिवभावादनु क्रमैः ॥७९॥एवं नान्दीमुखं कृत्वा यथा शक्त्या तु दक्षिणाम् ।अस्त्रमन्त्रेण संप्रोक्ष्य बध्वा प्रतिसरन्निशि ॥८०॥प्रभाते चौलकार्यार्थं स्थण्डिलं तत्र वित्तमः ।शिवाग्निं विधिवद्धुत्वा रुद्राण्यष्टशताहुतिः ॥८१॥अग्नेः पूर्वे तु तद्बालं न्यस्त्वा गव्यादिनार्चयेत् ।हरहरे तु घोषैस्तु ततोमङ्गलवाचकैः ॥८२॥दूर्वाक्षताद्यैस्तोत्रैस्तु कृत्वा घृतशिरोर्पणम् ।क्षुरश्चास्त्रेण संस्पृश्य पितापुत्रञ्च वापयेत् ॥८३॥ईशाद्यजानुकै ब्रह्मैः शिवपूर्वादितस्तथा ।पात्रस्थं गोशक्रं मध्ये तत्तत्केशान्वि निक्षिपेत् ॥८४॥शिरोमध्ये शिखांविद्धि पञ्चविंशति भागतः ।समवृत्तां शिखां कृत्वा शेषान्त्यक्त्वोर्ध्वनापितः ॥८५॥प्रवासगमने चैव पिण्डवर्द्धनकेऽपि च ।चौलकर्मणि कल्याणे श्रद्धावित्तान्वितेऽपि च ॥८६॥होमं विनाकूमारीणां ततो मन्त्रेणचाचरेत् ।स्नानं तत्र प्रकर्तव्यं मुक्त्वा प्रतिसरं तथा ॥८७॥वस्त्राद्यैः समलं कृत्य हारिद्रगन्धपुष्पकैः ।अग्नेः पूर्वं सुखासीनमक्षताद्यैः समर्चयेत् ॥८८॥हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं बुधः ।पूर्णाहुतिं ततः कृत्वा पूर्वोक्ते नैव मंत्रतः ॥८९॥आचार्यं पूजयेत् पश्चात् सवत्साङ्गान्तु दापयेत् ।गोशकृत् सास्त्रकेशांश्च संग्राह्यं धान्यसंयुतम् ॥९०॥गवामभिमुखं कृत्वा निक्षिपेत् पंकमध्यमे ।दर्भोदुंबरमूले वा कृत्वा चम्यविशेत् पुनः ॥९१॥चौलकार्यमिदं प्रोक्तमौपनाय नकं शृणु ।जातसंवत्सरादूर्ध्वे पञ्चषट्सप्तवत्सरा ॥९२॥अष्टमे वा नवाब्दे वा क्रमात् ज्ञानं स्वरूपकम् ।ब्रह्मवर्चसमायुष्यं श्रीप्रदञ्च विशेषतः ॥९३॥अथवा षोडशाब्दान्तमौपनायनमाचरेत् ।षोडशाब्दादतीते तु उद्दालान्ते समाचरेत् ॥९४॥द्विमासंयावकं भुक्त्वा मासंक्षीरन्तु दापयेत् ।आमीक्षिकायाः समार्धं भक्षयेत् दिनेदिने ॥९५॥पक्वं पयसिदध्योङ्गया तु सामीक्षिका स्मृता ।कृष्णायां कपिलायां वा अष्टरात्रं क्षितौशयेत् ॥९६॥शयाच्च्रितन्तु षड्रात्रं त्रिरात्रमुदकं तथा ।उपवासमहोरात्रमतीते द्वापरे युगे ॥९७॥एकवृत्तञ्च कर्तव्यमुद्दालकमनुक्रमम् ।स्नानं वाचाश्वमेधान्ते वाक्यैस्तौ मे विनायक ॥९८॥गर्भाधानमिदं कर्मपूर्ववत्कारयेत् क्रमात् ।वृतान्तेथ प्रकर्तव्यं वसन्ते चोत्तरायणे ॥९९॥शुभनक्षत्रसहिते सुमुहूर्ते विशेषतः ।अङ्कुरार्पणकं त्वेह सप्ताहे पञ्चमेऽपि वा ॥१००॥उपवीताजिनं मौञ्जी दण्डन्तत्रैव साधयेत् ।उपवीतविधिं वक्ष्ये चोष्णीषञ्चोत्तरीयकम् ॥१०१॥शुभनक्षत्रयोगे च तान्या पाद्ययत्नतः ।ब्राह्मणीराजपुत्री वा वैश्यकन्याथवा पुनः ॥१०२॥तिसृभिर्निर्मितं सूत्रं अथवा शूद्रकन्यया ।अन्यस्त्रीनिर्मितं सूत्रं वर्जितव्यं प्रयत्नतः ॥१०३॥अथवातन्तु कार्येषु संग्राह्यं साधकोत्तमः ।सूत्रसंग्रहणे काले शोधयेत्तोयभस्मना ॥१०४॥प्राज्ञः प्रारभ्यपूर्वाह्णे सद्यमन्त्रेण तन्तुकम् ।चतुरङ्गुलमात्रेण षण्णवती च सूत्रकम् ॥१०५॥ते नैव त्रिगुणं यत्तत्सूत्रं दिग्धमिहोच्यते ।पूर्वपश्चिमतः स्थित्वा दक्षिणोत्तरमेव हि ॥१०६॥हस्तदक्षिणमूर्ध्वे तु पृष्टा वै प्रथमं तथा ।पश्चाद्वामिकञ्चोर्ध्वे त्रिगुणान्ते विशेषतः ॥१०७॥भूमावन्यत्र वा क्षिप्य पूर्वाग्रे चोत्तराग्रकम् ।पत्रं पुष्पं तृणं दत्वा कृतलोलवशं कृतम् ॥१०८॥संप्रोक्ष्य वामदेवेन रज्जुं गृह्णीतसाधनम् ।ग्रीवायाहस्तयोस्तिर्यक् चांगुष्ठात् बाहुचान्तकम् ॥१०९॥तत्समञ्चैकसूत्रन्तु त्रिगुणञ्चोपवीतकम् ।रज्जुं तत्ग्रन्धिके तस्मिन् वाग्देवी सुप्रतिष्ठिता ॥११०॥सावित्री चैव गायत्री वसेतामग्रमूलयोः ।ब्रह्माविष्णुश्च रुद्रश्च त्रिसूत्राणान्तु देवता ॥१११॥अघोरास्त्रेण तत्बध्वा बहुरूपेण धारयेत् ।नाभिप्रदक्षिणं कार्यं नाभेरूर्ध्वं विधानतः ॥११२॥तत्सूत्रं ब्रह्मचारीणां ग्रहस्थानां षडेव हि ।नवकं वान प्रस्थानां यतीनां द्वादशं स्मृतम् ॥११३॥उपवीतविधिः प्रोक्तमुत्तरीयमथ शृणु ।वाससा त्रिविशुक्लेन कर्तव्यञ्चोपपीतवत् ॥११४॥उत्तरीयमिदं प्रोक्तमुष्णीषं त्विहवक्ष्यते ।हत्वाथस्ताच्छिरोन्तं यत् कर्णौ संच्छाद्ययत्नतः ॥११५॥शिरोवेष्टनकं नाममृदुना शुक्लवाससा ।उष्णीषलक्षणं प्रोक्तं कृष्णाजिनमथ शृणु ॥११६॥चर्मकृष्णाजिन मृगस्यैव नान्योपयोगतः ।कामं त्वरोगसंयुक्तं स्वतोथमरणन्ध्रुवम् ॥११७॥त्रियंगुलं समं वापि तथैवांगुलविस्तृतम् ।उपवीतसमायाममिति कृष्णाजिनं स्मृतम् ॥११८॥सद्यमन्त्रं समुच्चार्य बध्वातच्चर्मरज्जुना ।कार्पासरज्जुना वापि मेखलं शृणुतत्वतः ॥११९॥शुद्धदेशे स्थितं मौञ्जीं गृहीत्वा शोषणं ततः ।सूच्यग्रेणैव तांभित्वा त्रिवृद्रज्जु त्रिरावृतम् ॥१२०॥समासान्मेखला प्रोक्ता दण्डस्य लक्षणं शृणु ।पलाशबिल्वखदिरं शमीवै कंकतं तथा ॥१२१॥तस्यमूर्ध्नासमदीर्घं सितबाहुसमन्तु वा ।चर्मयुक्तमृजु स्निग्धं - - - - - -- - ॥१२२॥पूर्वे नान्दीमुखं कृत्वा तदन्ते चोपनायनम् ।शिवाग्निं पूर्ववत् कृत्वा चौलवद्वापयेत् ततः ॥१२३॥अधोमुखगतान् केशान् त्यक्त्वा तत्र शिखाभ्रुवौ ।स्नानं तत्रैव कर्तव्यं सर्वाभरणभूषितम् ॥१२४॥भोजयित्वा चरूंविद्वान् कायशुद्ध्यर्थमेव च ।उपवीतादि चिह्नानि चोत्तरे स्थापयेत् क्रमात् ॥१२५॥शुचीवोभव्यमन्त्रातः संप्रोक्ष्य देशिकोत्तमः ।ततः शिष्यं समाहूय वह्नेर्दक्षिणत स्मृतम् ॥१२६॥संप्रोक्ष्य पञ्चब्रह्मैस्तु शुचीवोहव्यमंत्रितः ।उत्तराभिमुखं शिष्यं समभ्यर्च्याक्षतादिभिः ॥१२७॥प्रारभेय प्रधानञ्च परिषेचन पूर्वकम् ।ब्रंह्मांगैस्तपसं देव्या प्रत्येकं पञ्चकाहुतिः ॥१२८॥परिषेचनन्तु कर्तव्यं शिवे गन्धादिनार्चयेत् ।बध्वा वै तां नवं रज्जुमियन्द्रक्तेति मेखलाम् ॥१२९॥शाटिं कौपीनवत् कृत्वा शेषं पृष्ठे वलंबितम् ।स्वयमुच्चार्य तन्मन्त्रं उपवीतन्तु दापयेत् ॥१३०॥कृष्णाजिनं तु सन्धार्य बहुरूपेण बुद्धिमान् ।उत्तरीयन्तु दातव्यं प्रशान्तायेति मन्त्रतः ॥१३१॥तस्योष्णीषं विनातन्त्रं तदान्याश्रमिणां तु तत् ।दण्डं दत्वास्त्रमन्त्रेण पवित्रं तदनामिके ॥१३२॥अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा विशेषतः ।पादौ प्रक्षाल्य विधिवत् द्विराचम्य विशेषतः ॥१३३॥ब्रह्मकूर्चं पिबेद्गव्यं शिवमन्त्रेणमन्त्रवित् ।पञ्चगव्यं कुशोपेतं ब्रह्मकूर्चमिति स्मृतम् ॥१३४॥पुनराचम्य विधिना सावित्री वृतबन्धनम् ।प्रदक्षिणं हि मूर्धानं पञ्चब्रह्मैस्तु हूयते ॥१३५॥सावित्री काण्डर्षयेति हुत्वेदं वृतबन्धनम् ।सावित्रीञ्चैव गायत्रीं जपित्वाष्टा परं ततः ॥१३६॥कृत्वा प्रदक्षिणञ्चाग्निं नमस्कृत्वा यथा विधि ।क्र्त्वा तत्परिषेचन्तु शिवास्त्रेण शताहुतिः ॥१३७॥समत्भिन्नभित्वा वै शतेन त्वभिमंत्रितैः ।परिषेचन्तु कर्तव्यं गायत्रीं व्याहृतिं ततः ॥१३८॥ब्रह्मांगैर्जुहुयात् सम्य्क् प्रत्येकं सप्तसप्त च ।देवदेवं नमस्कृत्वा गुरुपूर्वं यथार्हतः ॥१३९॥आचार्यं पूजयेत् तस्मात् यथा वित्तानुसारतः ।भिक्षापात्रं सुवर्णाद्यैर्दातव्यं पुरुषेण तु ॥१४०॥दण्डं तद्वामहस्ते तु भिक्षापात्रं तु दक्षिणे ।भवति भिक्षां देहीति वाच उक्त्वा पृथक् पृथक् ॥१४१॥आत्मार्थं तण्डुलं ग्राह्यं प्रतिग्रहे ग्रहे तु च ।यात्राकाले तु दण्डेन पश्वादीनि च ताडयेत् ॥१४२॥सुस्नात्वा विधिना चम्य त्रिषुकालेषु नित्यशः ।पूर्वमुक्तेन मन्त्रेण विधिनित्यं विधानवित् ॥१४३॥शैवशास्त्रानुसारेण गुरुपारंपरेण तु ।संयमेन यनो भूत्वा पूततोयं पिबेत्सुधीः ॥१४४॥सिवसूर्याय दत्वार्घ्यं कुशपुष्पाक्षतान्वितम् ।ततो गायत्रिमन्त्रन्तु त्रिसन्ध्यान्तु पृथक् पृथक् ॥१४५॥अष्टोत्तरशतञ्चैव शिवं ध्यायं जपेत्बुधः ।दिनेदिने प्रकूर्वीत सर्वपापविशोधनम् ॥१४६॥विधिनाचाग्निमन्त्रज्ञः सायं प्रातः सुपूजयेत् ।कृत्वा वै मन्त्रभावेन व्याहृत्यादि घृतेन च ॥१४७॥पूर्वोक्तेनैव मन्त्रेण समित्भिश्चैव हूयते ।एवं दिनत्रयेषूक्तञ्चतुर्थे दण्डमोचनम् ॥१४८॥पूर्वोक्तविधिवद्धुत्वा सद्येनाष्टशताहुतिः ।प्रातर्विसर्जनं कृत्वा पूर्वोक्तेन तु मन्त्रतः ॥१४९॥पर्यूषितोपवीता नित्यक्त्वा दक्षिणतोबुधः ।नवयज्ञोपवीताद्यैः पूर्ववत् परिकल्पयेत् ॥१५०॥परिषिच्याथविधिवद् व्योमव्यापिदशाहुतिः ।शिवायशिवमन्त्रेण स्वाहेत्यष्टशतं हुनेत् ॥१५१॥एवं घृताहुतिं हुत्वा शिवोपकरणं स्मृतम् ।ब्रह्मचर्यं ततः काले अर्थयेत् साधकोत्तमः ॥१५२॥ब्रह्मचारी द्विधा तत्र शान्तयः शिवशासने ।भौतिको नैष्ठिकश्चैव प्रोक्तौतौ ब्रह्मचारिणौ ॥१५३॥ग्रहस्थस्याश्रमं प्राप्तं भौतिकस्य विधीयते ।ब्रह्मचर्य वृतिर्यावं नैष्ठिकस्य विशेषतः ॥१५४॥ताभ्यामेकं विनिश्चित्य घृताहुतिशतं पुनः ।पूर्णाहुतिं ततो हुत्वा तदहं प्रत्यहं यजेत् ॥१५५॥नद्यां वापि तटाकेवा उपवीतादिकान्त्यजेत् ।स्नात्वा चम्य यथान्यायं देवदेवं प्रणम्य च ॥१५६॥पूजाविधिं ततो ज्ञात्वा संपूज्यपरमेश्वरम् ।वह्निस्थं देवदेवेशं विधिना पूजयेत् ततः ॥१५७॥गुरुं प्रणम्यविधिवत् तस्माद्वै गुरुपूजकः ।तत्रर्ग्वेदमयं सद्यं वामदेवं यजुर्मयम् ॥१५८॥सामवेदमघोरञ्च वक्त्रञ्चाधर्वणं स्मृतम् ।सर्वदेवमयेशानमंगयुक्तं शिवं तथा ॥१५९॥साक्षात् शिवमयं प्रोक्तं कामिकाद्यागमं त्विह ।इमान्यध्ययनान्येव तदेवाद्ध्ययनं स्मृतम् ॥१६०॥अध्यापनानितानिह तस्याद्ध्यापनमेव हि ।शिवायाराधना तस्य यजनं याजनं तथा ॥१६१॥शिवमुद्दिश्ययद्द्रव्यं दत्तं तद्दानमेव च ।प्रतिग्रहं ततो वाथ तस्य षट्कर्ममुच्यते ॥१६२॥शिवसद्भावयुक्तस्य शुद्धशैवस्यधीमतः ।संस्कारप्रमुखाञ्चैव नान्यसूत्रं समाचरेत् ॥१६३॥आचरेदन्य होमेन सर्वकर्मबहिस्कृतः ।वृतभृष्टस्त्विति ज्ञात्वा पुनर्दीक्षां समाचरेत् ॥१६४॥काण्डोपकरणं कृत्वा वृतारंभविधिं तथा ।वृते परिसमाप्ते तु कृत्वा तद्वृतमोक्षणम् ॥१६५॥समावर्तन पूर्वे तु कृत्वा वै श्वक्रिया वृतम् ।अग्निं नन्दीमुखं कृत्वा क्रियां रात्रौ तु चारभेत् ॥१६६॥पूर्वयामस्य चान्ते तु बध्वा प्रतिसरं क्रमात् ।पुरुषेणैव मन्त्रेण सौवर्णं क्षौममेव च ॥१६७॥अस्त्रेण प्रोक्षयित्वा तु वस्त्रैरेवाव कुण्ठनम् ।व्योमव्यापि जपित्वा तु रस्वप्नं न तु वाचकम् ॥१६८॥प्रभाते चोत्तरं तत्र चैवं वै श्वक्रियावृतम् ।अग्निं पूर्ववदारभ्य मूले नैव शतं हुनेत् ॥१६९॥ब्रह्मचारी वृतं मत्वाग्रहस्थाशममाश्रयेत् ।चौलवद्वपनं कृत्वा शिखाप्रकोष्ठ वर्जितम् ॥१७०॥तत्र संशोध्यदशनं स्नापयेद्रजनीयुतः ।ईशानाद्यैः शतं हुत्वा मुक्त्वामौञ्ज्यादिकास्ततः ॥१७१॥दत्वा तदुपवीतञ्च षट्सूत्रं पूर्वमन्त्रतः ।कुण्डलाद्यैस्तु संभूष्य हृदयेन तु मन्त्रतः ॥१७२॥गन्धादीनि ततो दत्वा वामदेवेति मन्त्रतः ।नयने चाञ्जनं दत्वा दर्पणं दर्शयेत् बुधः ॥१७३॥मधुपकर्मन्तु दातव्यं वामवेतिमन्त्रतः ।अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा तु चाग्रतः ॥१७४॥छत्रोपानहदण्डादि सन्धार्योत्तरदिग्गतः ।निवृत्यबन्धुभिस्तत्र सुस्थितस्त्वासने तु सः ॥१७५॥पितृभ्रातृपित्रव्यैस्तु भोक्तव्यं सहबान्धवैः ।तत्समावर्तनं प्रोक्तं तत्पाणिग्रहणं शृणु ॥१७६॥सर्वकाले विवाहं स्यात् माघप्रोष्ठविवर्जिते ।विवाहमष्टधा प्रोक्तं शिवेन परमात्मना ॥१७७॥ब्राह्मञ्च दैविकञ्चैव प्राजापत्यमथार्षकम् ।पञ्चमं त्वासुरं प्रोक्तं गान्धर्वं राक्षसं तथा ॥१७८॥पैशाचमष्टमं ज्ञेयमुच्यन्ते तानि वै पुनः ।वयो वृत्तञ्च संपन्नं वृत्तरूपाभिजात्यकम् ॥१७९॥कन्यां दत्वा समाहूय गोभूमिसहिरण्यकम् ।तत् ब्राह्ममिति निर्दिष्टं विवाहेषुत्तमं वृतम् ॥१८०॥यज्ञेषु ऋत्विजस्यैव कन्यादानन्तु दैविकम् ।विप्रस्यैव सुशीलस्य विवाहापेक्षि तस्य च ॥१८१॥होमकर्मस्वयं कृत्वा वस्त्राभरणकन्यकाम् ।बुद्धिपूर्वं तु यद्दत्तं प्राजापत्यमिति स्मृतम् ॥१८२॥सुरूपां कन्यकांश्चैव दत्वागोमिधुनद्वयम् ।अथगोमिथुनैकं वा विवाहमार्षकं स्मृतम् ॥१८३॥आरोप्याहरणं कन्यां याच्यमाने मुहुर्मुहुः ।धनं दत्वा तु यः कन्या संग्रहणं तु यत्तदा ॥१८४॥आसुरन्तु सविज्ञेयमविद्वत्भिरनुष्ठितम् ।उभयोरपि संवादे स्त्रीपुंसौ यदिरागतः ॥१८५॥दानन्तस्यैव तां कन्यां गान्धर्वमिति पठ्यते ।कृत्वा युद्धं महाघोरं वधबन्धनताडकैः ॥१८६॥अपहृत्य बलात् कन्यां रुदन्तीं रक्षसामिदम् ।कन्यांसुप्तां प्रमत्ताञ्च चौर्यापात हृतन्तु वा ॥१८७॥पैशाचमिति विख्यातं प्राक्पञ्चोदकपूर्वकम् ।तेषां पूर्वचतुष्कन्तु ब्राह्मणस्य महात्मनः ॥१८८॥कर्तव्यमासुरं वापि त्रीणिचान्न्यानि वर्जयेत् ।सुशीलां रूपसंपन्नां कुलजांबानवान्विताम् ॥१८९॥असगोत्रां हि कुशलां वधूं संग्राह्यबुद्धिमान् ।गन्धादिभिरलं कृत्य वस्त्रहेमन्तु दापयेत् ॥१९०॥तयोर्गात्रञ्च नाम्नी च पूर्वमुच्चार्यबुद्धिमान् ।दत्वोदकन्तु तद्धस्ते पिताभ्राता तु मातुलः ॥१९१॥दानमेतदिदं प्रोक्तं विसंवादे तु पूर्ववत् ।स्थण्डिलेऽग्निं समाराद्ध्य ग्रहीतां वै तदग्रहे ॥१९२॥पुनस्तोयन्तु दातव्यं भर्तुर्वाथपि तुर्ष्वपि ।एवं पुनर्जलं दानं विवाहं शृणु सुवृत ॥१९३॥अग्नेः पश्चिमभागे तु आसनं संप्रकल्प्य वै ।पतिपत्न्योः समाहूय सर्वालंकारसंयुतौ ॥१९४॥शिवात्मकेति मन्त्रेण वस्त्रं पुष्पन्तु दापयेत् ।दक्षिणे तु पतिञ्चैव वामे पत्निन्निधाय वै ॥१९५॥परिषेचनं ततः कृत्वा ब्रह्मांगैरेव हूयते ।मम हृदयेत्युच्चार्य पत्यातद्धृदयं स्पृशेत् ॥१९६॥आत्मानं शिववद् ध्यात्वा पत्निं शक्तिस्वरूपवत् ।शतं हुत्वा तु मूलेन स्वाहान्तं प्रणवादिकम् ॥१९७॥मधुपर्कन्तु संप्राश्य प्रागुक्तविधिनाचरेत् ।वृतं गायत्रिमन्त्रेण दर्शयित्वा धनं तथा ॥१९८॥पुनराचम्य विधिवद् व्याहृत्या तु शताहुतिः ।अग्नेर्ददिक्षिण पार्श्वे तु प्राणाग्निं संयजेत् क्रमात् ॥१९९॥गोर्द्धेनुहव्यमन्त्रेण गोवत्सं तत्र दर्शयेत् ।स्वाहान्तं शिवमन्त्रेण शताष्टकहुतं पुनः ॥२००॥अग्नेश्च वामपार्श्वे तु गत्वा सप्तपदं ततः ।संस्थाप्य पश्चिमे श्मानमक्षतादिभिरर्चयेत् ॥२०१॥पत्न्यास्तु दक्षिणं पादं पतिहस्तेनचोद्धृतम् ।शिवगायत्रि मन्त्रेण पादमश्मनि विन्यसेत् ॥२०२॥क्रमात् सप्तपदं गत्वा वाममन्त्रेण बुद्धिमान् ।भर्तुर्दक्षिणहस्तेन तस्याहस्तन्तु संग्रहेत् ॥२०३॥उमामहेशमन्त्रेण हुत्वा लाजाञ्जलित्रयम् ।देवदेवं नमस्कृत्वा विज्ञाप्यांग विभूषणम् ॥२०४॥व्योमव्यापिनि मन्त्रेण ग्रहस्थानि च हूयते ।आद्यन्तं व्याहृतिं हुत्वा प्रायश्चित्ताय सर्वतः ॥२०५॥औपासनाग्निकं हुत्वा ब्रह्माङ्गैर्दिवसं प्रति ।हस्तं प्राग्वच्च संग्राह्य गच्छतान्तु शुभे ग्रहे ॥२०६॥सर्वालङ्कारसंयुक्ते मुक्तादामविभूषिते ।सद्येन शोधनङ्कृत्वा कतैराप्तोपधानकैः ॥२०७॥उपलं शक्तिवत् स्मृत्वा दंपत्योर्मध्यमे क्षिपेत् ।रात्रौदिनाधिपं कृत्वा पूर्वं सोमाधिदैवतम् ॥२०८॥गान्धर्वञ्च द्वितीये तु त्रितीयेचाग्निदैवतम् ।तत्तन्मन्त्रन्तु मतिमाञ्जपेत् त्रिंशं नमोन्तकम् ॥२०९॥तयोः स्वप्ने तु रात्रौ तु स्पर्शनं ननुवाचकम् ।सुस्नात्वा चम्यविधिवदौपासनं दिनेदिने ॥२१०॥चतुर्थे हनिपूर्वाह्ने तैलेनाभ्यञ्जनं तथा ।सहैव स्नापयित्वा तु रात्रौवह्निं प्रकल्प्य वै ॥२११॥ब्रह्माङ्गैर्जुहुयात् तत्र दर्शयित्वा त्वरून्धतीम् ।अरुन्धतीति मन्त्रेण तां विज्ञाप्य प्रणम्य वै ॥२१२॥अश्मानं पूर्ववत् कृत्वा ततस्त्वायतनं तु वा ।हृदाचोत्थाप्यशयनं संप्रोक्ष्यशिवमन्त्रतः ॥२१३॥खट्गञ्चैव कटंवाथ संविकीर्योपधानकम् ।शयनं पूर्ववत् कृत्वा तस्मिन् संपादयेत् ततः ॥२१४॥आत्मानं शिववद्ध्यात्वा तत्पत्निं शक्तिवत्बुधः ।ऋतुसङ्गमनात् कृत्वा सर्वं वामेन मन्त्रतः ॥२१५॥सहैवार्त गृहङ्गत्वा गणानाञ्च बलिं पुनः ।अभ्यागतातिथिञ्चैव पूजयेत् तु दिनेदिने ॥२१६॥शुद्धशैवोद्भवानान्तु प्रोक्तं वै षोडशक्रिया ।तेषां वृतं समाचारं शृणुतत्वं विनायक ॥२१७॥इति षोडशक्रियाविधिपटलः पञ्चमः ॥५॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP