संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ चर्यापादः| पवित्रारोहण विधिपटलः अथ चर्यापादः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः अथ चर्यापादः - पवित्रारोहण विधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः पवित्रारोहण विधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि पवित्रारोहणं शृणु ।सर्वपूजा समृद्ध्यर्थं वृतपूर्णार्थमेव च ॥१॥सर्वकर्मसुहीनेषु पूर्णार्थं कारयेत् बुधः ।आलये देवमारभ्य सर्वसंपत्कराय च ॥२॥शिवपूजाकरोकार्यः पवित्रारोहण क्रियाम् ।आषाढे शुक्लपक्षे वा श्रावणे वा विशेषतः ॥३॥प्रोष्ठमासे स्वयुङ्मांसे कृष्णपक्षेऽथवा पुनः ।द्वितीयादि चतुर्थादि षष्ठ्यादि च विशेषतः ॥४॥अष्टम्यन्तं प्रकर्तव्यं पवित्रं सर्वसिद्धिदम् ।अष्टम्यादि दशम्यादि द्वादशादी च वा बुधः ॥५॥चतुर्दश्यान्तकं कार्यं पवित्रारोहण क्रियाम् ।सप्ताहञ्चैव पञ्चाहं त्रियाहं वापि कारयेत् ॥६॥सप्तम्यां वा त्रयोदश्यां रेवत्यां कृत्तिकान्विते ।आर्द्रायां रोहिणी युक्ते कारयेत् तत्पवित्रकम् ॥७॥कृत्वाङ्कुरार्पणं पूर्वे कर्तव्यमधिवासनम् ।स्नपनन्तु यथा शक्त्या शिवाग्निन्तु विशेषतः ॥८॥विशेषपूजनं कृत्वा नमस्कृत्वा विशेषतः ।मया कृतानिदानानि द्रव्याणीह वृतानि च ॥९॥अनया पूजया सर्वाः संपूर्णास्तु प्रसीदत ।एवं विज्ञाप्यतं शंभु नमस्कृत्वा तु भक्तितः ॥१०॥तत्भस्मदन्तकाष्ठानि तोयं सूत्रं समावहेत् ।नदिमृत् भस्मपूर्णे वा मलके वा परिग्रहम् ॥११॥पूर्ववत् तस्य संग्राह्य पालाशं दन्तकाष्ठकम् ।अथवा याज्ञकै वृक्षैर्नव वा सप्तसंख्यया ॥१२॥कनिष्ठांगुलिनाहन्तु द्वादशांगुलीदीर्घकम् ।वस्त्रपूतेन तोयेन संपूर्यनवमृत्घटम् ॥१३॥द्वात्रिंशत् प्रस्थपूर्णं वा तदर्द्धं त्वर्धमेव वा ।सूत्रैः संवेष्टयित्वा तु वस्त्रैरावेष्ट्य यत्नतः ॥१४॥पञ्चरत्नानि निक्षिप्य रत्नालाभे हिरण्यकम् ।सूत्रं प्रागेव संग्राह्य निर्मितं द्विजकन्यया ॥१५॥यथा संभवसूत्रं वा शोधयेत्तोय भस्मना ।तत्सूत्रं द्विगुणं प्रोक्तं तदेव द्विगुणं भवेत् ॥१६॥नवसंख्या तु यत्सूत्रं पवित्रं कनकसिद्धिदम् ।वामाद्या शक्तयस्तत्र नवसूत्राधि देवताः ॥१७॥लिङ्गोत्सेध समायामं प्रासादे तु पवित्रकम् ।हस्तमात्रसमायामं पवित्रमिहशोभनम् ॥१८॥सूत्रैर्विवर्धयेद्विद्वान् नवधा तु पवित्रकम् ।नवषोडशविंशद्भिरधमत्रयमेव च ॥१९॥पञ्चविंशच्च द्वात्रिंशत् षट्त्रिंशे मध्यमत्रयम् ।पञ्चाशत्सप्ततिश्चैव नवतिश्चोत्तमत्रयम् ॥२०॥एतेषान्तु यथा शक्त्या पवित्रं लक्षणान्वितम् ।प्रशान्तायेति मन्त्रेण ग्रन्धयित्वा पवित्रकम् ॥२१॥तस्य मध्ये दशग्रन्धिं बध्वासूत्रेति देशिकः ।नवसप्ताष्टसूत्रैर्वा ग्रन्धिं कृत्वा विचक्षणः ॥२२॥इन्द्रादिलोकपालाश्च ग्रन्धीनामधि देवताः ।आत्मार्थेप्येवमाख्यातं सूत्रसंग्रहणं क्रमे ॥२३॥सकलानान्तु बिंबानां तदुत्सेधं प्रकीर्तितम् ।रात्राधिवासने प्रोक्तं पवित्राणि विशेषतः ॥२४॥निर्दिष्टदिवसे सुद्ध पवित्राण्यधिदेवताः ।प्राङ्मुखे मण्डपे रम्ये वितानाद्युपशोभितम् ॥२५॥मण्डले वर्तयेत् तस्या मध्ये पूर्वोक्तमार्गतः ।पूजाविद्ध्युक्तमार्गेण तस्मिन्न्यस्यात् सदाशिवम् ॥२६॥हविर्निवेदनं कृत्वा फलभक्ष्यान्यनेकधा ।तस्याग्रे तु पवित्राणि तद्रात्रौ चाधिवासयेत् ॥२७॥पवित्राणां तथाग्रे तु कुण्डे वा स्थण्डिलेऽथवा ।शिवाग्निं पूर्ववत् कृत्वा समिदाज्यां न संयुतम् ॥२८॥तत्पवित्रविशुद्ध्यर्द्धं तद्रात्रौ चाधिवासयेत् ।शालितण्डुलपुष्पाद्यै स्थण्डिलञ्चतुरश्रकम् ॥२९॥संस्तिर्योपरिवस्त्रेण गन्धपुष्पादिभिः सह ।वस्त्रोपरि पवित्राणि संस्थाप्याभ्यर्च्य बुद्धिमान् ॥३०॥वस्त्रौराच्छाद्य शिरसा धूपयेद्धृदयेन तु ।भस्मदक्षिनतः शुद्धं मृच्चूर्णं पश्चिमे दिशि ॥३१॥सोमे संस्थाप्यतोयन्तु दन्तकाष्ठानि पूर्वके ।एतानि गन्धपुष्पाद्यैरर्चयेद्धृदयेन तु ॥३२॥उत्तराच्छाद्नं कृत्वा दर्भैरुपरिदेशिकः ।तत्र संपूज्य देवेशं गन्धपुष्पस्रगादिभिः ॥३३॥गन्धैराच्छाद्यविधिवत् पुष्पैराच्छाद्ययत्नतः ।दर्भैराच्छाद्य पश्चात् तु सुत्रैरावेष्ट्य बुद्धिमान् ॥३४॥शिवमारोपयेद् रात्रौ पवित्रं पिण्डिकान्वितम् ।धूपदीपसमायुक्तं संपूज्य हृदयेन तु ॥३५॥हुत्वातेऽग्निं समाराध्य पवित्रं लिङ्गवर्ततः ।प्रभूतञ्चैव नैवेद्यं पञ्चवर्णे विशेषतः ॥३६॥शिवाग्नौ मूलमन्त्रेण शतं हुत्वा विचक्षणः ।द्रव्यांस्तु हृदये नैव होतव्यं व्याहृतिं ततः ॥३७॥नृत्तगेय समायुक्तं रात्रौ निद्रां विवर्जयेत् ।प्रभाते विधिवत् स्नात्वा सकलीकृतविग्रहः ॥३८॥पर्यूषितानि पुष्पाणि पवित्राणि विसर्जयेत् ।पूजनं पूर्ववत् कृत्वा स्नपनान्ते विशेषतः ॥३९॥मृच्चूर्णलेपनं पूर्वं भस्मनालेपनं ततः ।दन्तकाष्ठैश्च दन्तानि धावयेद् देशिकोत्तमः ॥४०॥पूर्णकुंभोदकैः स्नानं कृत्वा गन्धादिभिः पुनः ।वस्त्रैराभरणैश्चैव मूलमन्त्रेण देशिकः ॥४१॥संपूज्य देवदेवेशं नृत्तगेय समन्वितम् ।सदाशिवमनुस्मृत्य मूलमन्त्रं समुच्चरेत् ॥४२॥पवित्रारोहणं कृत्वा देवेशं पिण्डिकान्वितम् ।मण्डलस्थं शिवं यष्ट्वा गन्धाद्यैरनुपूर्वशः ॥४३॥सहस्राक्षरमन्त्रेण हुत्वातेऽग्निं समर्प्य वै ।पवित्रं वह्निमारोप्य परिषेषमथाचरेत् ॥४४॥पञ्चवरणदेवानां पवित्रं हृदयेन तु ।अन्येषाञ्चैव देवानां दापयेत् तु पवित्रकम् ॥४५॥कर्तुश्च देशिकस्यैव तयोः पत्न्याश्च देशिकः ।शिष्याणां परिचाराणां दत्वा वै तत्पवित्रकम् ॥४६॥गन्धपुष्पैस्तु संपूज्य धूपदीपैर्विशेषतः ।प्रभूतहविषं पश्चात् पायसादीनि दापयेत् ॥४७॥होमन्तथैव कर्तव्यमाद्यन्तं मुनिभोजनम् ।जनानां सर्वदानानि दत्वा तत्र यथार्हकम् ॥४८॥वस्त्रैराभरणाश्चाद्यैराचार्यं पूजयेत् ततः ।यतीनां शुद्धशैवानामन्यान्महेश्वरानपि ॥४९॥विशेषभोजनं दानं कृत्वा तत्र स्वशक्तितः ।संश्राव्यसमवान् पश्चाद् देवदेवस्य चाग्रतः ॥५०॥एतानि वृतदानानि संपूर्णानि प्रसीदतः ।एवं विज्ञापयेद्देवं समाप्तिर्नयनं तथा ॥५१॥पाशजालानि संश्चिद्यमोक्षं तद्दातुमर्हसि ।प्रणम्यदण्डवत् भूमौ नमस्कृत्वा विशेषतः ॥५२॥तस्मादारभ्य चाब्दान्तं षट्चतुर्मासमेव च ।तन्मासं तद्दिनं वापि नियमेन नयोद्धृतः ॥५३॥नियमेष्वर्चयेद् धिमान् लिङ्गोक्तमवदारयेत् ।ततस्त्यक्त्वा तु निर्माल्यं स्नात्वा पूजां समाचरेत् ॥५४॥रोपयेत् तत्पवित्रन्तु माविभग्नं दिनेदिने ।नियमावृतसूत्रन्तु तदासूत्रावरोहणम् ॥५५॥अरोहिणिपवित्राणि पुष्पाणि च विसर्जयेत् ।पूर्ववत् पूजनं कृत्वा प्रभूतहविषं ततः ॥५६॥यागोप योगद्रव्याणि ह्याचार्याय प्रदापयेत् ।पवित्रारोहंअं प्रोक्तं हिरण्यगर्भकन्तुलाम् ॥५७॥इति पवित्रारोहणविधि पटलः सप्तमः ॥७॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP