संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ चर्यापादः| दीक्षाविधिपटलः अथ चर्यापादः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः अथ चर्यापादः - दीक्षाविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः दीक्षाविधिपटलः Translation - भाषांतर अत ऊर्ध्वं प्रवक्ष्यामि दीक्षामार्गं विशेषतः ।दीयते तच्छिवत्वं हि क्षीयते पापपञ्जरः ॥१॥क्षयदानविशेषत्वात् दीक्षा चेत्यभिधीयते ।मण्डलं पूजयित्वा तु तदग्रे चाग्निपूजनम् ॥२॥शिवाग्निं विधिवद्धुत्वा प्रागुक्तविधिना हुतः ।ततस्तु दीक्षयेच्छिष्यान् ब्राह्मणादि क्रमेण तु ॥३॥आचार्यलक्षणोपेतः शैवसिद्धान्तवित्सुधीः ।नैष्ठिकः शिवयोगज्ञः सर्वेषां तु गुरूत्तमः ॥४॥सुस्नात्वा शैवमन्त्रज्ञः सकलीकृतविग्रहः ।प्रोक्षणं प्रथमं कृत्वा दीक्षांकुर्याद्दिनान्तरे ॥५॥संपूज्य विधिवच्छिष्यां दीक्षांकुर्यात् द्वितीयकम् ।विप्रादीञ्च ततः शिष्यान् शुचिस्नात्वा जितेन्द्रियान् ॥६॥उत्तराभिमुखान् पुष्पैः कुशैरास्तीर्यमण्डले ।शिवांभसा तु संप्रोक्ष्य चाङ्गुल्यास्त्रेण भस्मना ॥७॥दहेत् कालाग्निना (कालाग्गिना) सर्वं शरीरं शुष्ककाष्ठवत् ।ततो स्यालभतं कार्यं शिववीजेनमुद्रया ॥८॥हृदा हृदयमालभ्य शिरसा तु शिरस्तथा ।शिखया तु शिखां स्पृष्ट्वा कवचेनस्तनान्तरम् ॥९॥नेत्रेणनेत्रं स्पृष्ट्वा तु सर्वेष्वंगेषु चा स्मृतः ।शिवहस्तन्तु दातव्यमीशानोद्याभिमंत्रितम् ॥१०॥तेषां मूर्धसुतद्धस्तं त्रिधा संस्वापयेत् बुधः ।गन्धाद्यैस्तु समभ्यर्च्य प्रोक्षणञ्चैवमुच्यते ॥११॥तस्याग्रे मण्डलं कृत्वा चतुरश्रसमन्वितम् ।पिष्टचूर्णैरलङ्कृत्य दर्भैरास्तीर्य पुष्पकैः ॥१२॥ईशानं मध्यमे स्थाने वक्त्रमैन्द्र तु बुद्धिमान् ।अघोरं दक्षिणे न्यस्त्वा पश्चिमे सद्य एव तु ॥१३॥उत्तरे वामदेवन्तु आग्नेय्यां हृदयं ततः ।ब्राह्मशिरस्तु नै-ऋत्यां शिखां वै वायुदेशके ॥१४॥कवचं त्वीशदिक्भागे तत्तन्नाम्ना समाचरेत् ।देवस्याभिमुखाञ्चिष्यान् भस्मोद्धूल न विग्रहान् ॥१५॥नेत्रे च नेत्रमन्त्रेण संवेष्ट्य नववस्त्रकैः ।विप्रादीनान्तु शिष्याणां तद्वर्णं समपुष्पकम् ॥१६॥निक्षिप्यमण्डले मध्ये शिवमन्त्रं समुच्चरन् ।यस्मिन् च नृपतेः पुष्पं नामगोत्रन्तदात्मकम् ॥१७॥ईशानवक्त्र विद्येशान घोरब्रह्मसद्यकम् ।रुद्रो वामश्च हुंकारो नवधानाम उच्यते ॥१८॥ब्राह्मणादि चतुर्णान्तु गणान्तान्तं शिवादिकम् ।स्त्रीणान्तु शक्तिनामान्तं दीक्षनामविधीयते ॥१९॥नैष्ठिकानां विशेषोस्ति गोचरं गोत्रसन्ततिः ।शिवः शिखा तथा ज्योतिः सावित्री चेति गोचराः ॥२०॥दूर्वासादिचतुर्णान्तु तद्वर्णं गोत्रमुच्यते ।चर्यापादे तु यत् प्रोक्तं तत्सूत्रं शिवभाषितम् ॥२१॥आचार्यं गोचरं गोत्रं सूत्रं तस्य विधीयते ।प्रागुक्तवत् समयिनां तेषामभिमुखङ्गुरुः ॥२२॥करन्यासं पुराकृत्वा दहनप्लावनञ्चरेत् ।अष्टत्रिंशत् कलान्यासं कृत्वा तास्तु पुरोक्तवत् ॥२३॥हृदयानि षडंगानि पञ्चब्रह्माणि विन्यसेत् ।रुद्रमन्त्रदशात्मानं प्रासादं विन्यसेत् ततः ॥२४॥षडध्वानां तु संकल्प्य शिवास्यं न कथं यथा ।करादिपां नदान्तस्य स्वमूर्ध्नादि यथा क्रमम् ॥२५॥तच्छिष्यानान्तु देहेषु एकैकं विन्यसेत् ततः ।षडध्वशोधनं ह्येनन्ततो होमं समाचरेत् ॥२६॥तत्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकम् ।मन्त्राध्वा च कलाध्वा च एकैकं होमयेच्छतम् ॥२७॥विद्येशानां स्वमन्त्रैश्च गणेशानां स्वमन्त्रकैः ।लोकेशानां स्वमन्त्रैश्च दशास्त्राणां समन्त्रकैः ॥२८॥घृतेन होमयेद् विद्वान् प्रत्येकन्तु शताहुतिः ।एवं कर्तुमशकश्चेत् तत्व दीक्षां समाचरेत् ॥२९॥संश्राव्य समया पश्चात् देवदेवस्य चाग्रतः ।शिवशास्त्रमनिन्द्यं हि प्रविशेद्दीक्षितान् सदा ॥३०॥आचार्यस्य तु ज्येष्ठानां लिङ्गश्ता?यां न लंघयेत् ।अदीक्षिता च या नारी सङ्गमं वर्जयेत् तदा ॥३१॥निर्माल्यन्तु न भुञ्जीत भस्मयुक्तां न निन्दयेत् ।इत्यष्टौ समयास्त्वेते दीक्षितानां प्रकीर्तिताः ॥३२॥पालनीयास्तथा ह्येते दीक्षितानां वचः शृणु ।सुशीलः सुवृतश्चैव शिवभक्ति गुरुस्तथा ॥३३॥शिवशास्त्रे रतिश्चैव यदा क्षान्ति जितेन्द्रियः ।इत्यष्टा वस्तिचेत् पुंछः? सयांतिपरमाङ्गतिम् ॥३४॥न पालयन्ति ये मोहात्तेयान्ति नरके भृशम् ।कृत्वा तु दिक्बलिन्तत्र गन्धपुष्पादिभिर्युतम् ॥३५॥सपत्नीकाश्च शिष्याश्च ततः स्वश्रमसंयुता ।इत्येवं विधिवत् कृत्वा पश्चाद्धोमं प्रकीर्तितम् ॥३६॥शिवाग्निं पूर्ववत् कृत्वा शिष्यानाहूयमन्त्रवित् ।अभिमुखे तथा सीनाश्चार्घ्य पाद्यादिनार्चयेत् ॥३७॥वक्ष्येहं तद्यथा युक्तं पञ्चधा शृणु सांप्रतम् ।उक्तासुतासु सर्वा तु श्रेष्ठा चेत्यभिधीयते ॥३८॥पृथिव्यापसथा तेजोवायुराकाशमुच्यते ।काला न याच्छिवं यावत् पञ्चतत्वैर्व्यवस्थितम् ॥३९॥पार्त्थीवन्तु निवृत्यां वै शतरुद्रमवस्थितम् ।आपत् प्रतिष्ठाया विद्या यावच्च प्रकृतिन्नरम् ॥४०॥तेजो वै विद्यया ज्ञेया यावद् विद्येश्वरान्तकम् ।वायुः शास्त्या तु विज्ञेयास्ततः सदाशिवान्तकम् ॥४१॥शक्त्यन्तं नाभिरित्युक्ताः शान्त्याती तेन बुद्धिमान् ।निवृत्तिर्जानुपर्यन्तं प्रतिष्ठानाभि सीमकान् ॥४२॥विद्या कर्णान्तमेवं हि मुखान्तं शान्तिरेव तु ।शान्त्यातीतं तदूर्ध्वे तु परापर शिवान्तकम् ॥४३॥निवृत्तिं सद्यमन्त्रेण प्रतिष्ठां वाममन्त्रतः ।विद्याघोरेण होतव्यं शान्तिस्तत्पुरुषेण तु ॥४४॥शान्त्यातीतमथैशान मन्त्रेण जुहुयात्बुधः ।एकैकस्य शतं हुत्वा तदर्धं वार्धमेव वा ॥४५॥एवमेव हुतं हुत्वा बुधस्तत्वैस्तु पञ्चभिः ।अन्यजन्मविनाशाय हृदयेन शतं हुनेत् ॥४६॥पशुत्वं नाशनं तस्माच्छिवत्वं हि निवर्तते ।ततः पूर्णाहुतिं हुत्वा पञ्चब्रह्मभिरेव तु ॥४७॥एवं समाप्य तद्दीक्षामभिषेकन्ततः शृणु ।सर्वालंकारसंयुक्तं मण्डपे समलंकृते ॥४८॥शिवाग्निं पूर्ववत् कृत्वा अभिषेकं समाचरेत् ।हस्तादि पञ्चहस्तान्तं यथा वित्तानुसारतः ॥४९॥स्नपनस्य विधानेन स्थापयेत् कुलशानि वै ।भद्रपीठे समास्थाय शिष्यस्थानं दृढवृतम् ॥५०॥अर्चयित्वा यथा न्यायं न्यासं कृत्वा यथा विधि ।निष्कलन्तु यथा चार्यः सकलः साधकः सदा ॥५१॥ततोभिषेकं तस्यैवमाचरेद् देशिकोत्तमः ।दशाक्षरेण मन्त्रेण कूटकैरष्टभिः क्रमात् ॥५२॥यथा वित्तानुसारेण पुण्याहञ्जयमङ्गलैः ।स्नापयित्वा ततो मंत्री शुक्लवस्त्रैर्विभूषितः ॥५३॥गन्धपुष्पैः समभ्यर्च्य योगपीठोपरिस्थितः ।उष्णीषं बन्धयेत् सूक्ष्मं सितसुद्धेन वाससा ॥५४॥ललाटपट्टं दातव्यं यथा राज्ञः प्रकीर्तितम् ।मकुटं कुण्डलाद्यैस्तु सर्वैराभरणैरपि ॥५५॥च्छत्रं ह्युपरिसन्धार्य चामरञ्च विधानवित् ।द्रव्याणामप्यलाभे तु दर्भैरेतानि कल्पयेत् ॥५६॥अथवा मनसा सर्वं शिवमन्त्रेण चिन्तयेत् ।रुद्राक्षमुपवीतञ्च उष्णीषञ्चोत्तरीयकम् ॥५७॥पुस्तकं सृक्सृवञ्चैव करणीं कर्तरीं तथा ।शिवार्चनाग्निकार्यञ्च जपध्यानञ्च शक्तितः ॥५८॥व्याख्यामनुग्रहं कार्यमेवं भवतु सर्वदा ।सर्वाधिकारभावञ्च दत्वाशिष्यस्य देशिकः ॥५९॥ब्राह्मणक्षत्रिया वैश्याः शूद्राः शुद्धकुलोद्भवाः ।आचार्यदेहि विज्ञेयानान्येषान्तु कदाचन ॥६०॥सर्वमन्त्रजपध्यान ज्ञानं सत्भावभावितम् ।सर्वेषान्तु समंज्ञेयं होत्रयादीक्षिताद्ध्वरे ॥६१॥एवं मन्त्रप्रभावेन कुर्यात् संस्कारकर्मणि ।चातुर्वर्णानि चान्यानि शिवयागे तु दीक्षयेत् ॥६२॥अनुलोमान् प्रतिलोमांश्च सुज्ञात्वा दीक्षयेत् गुरुः ।दक्षिणां गुरवे दत्वा वित्तशाठ्य विवर्जितः ॥६३॥वस्त्रमाभरणञ्चैव मकुटं कुण्डलं तथा ।हेमयज्ञोपवीतञ्च हेमपूष्पोपहारकम् ॥६४॥मुद्राशय्यासनादीनि आचार्यस्य प्रदापयेत् ।तेषां षोडशकर्माणि शृणु तत्त्वं विनायक ॥६५॥इति दीक्षाविधिपटलश्चतुर्थः ॥४॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP