संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ चर्यापादः| शैवोत्पत्तिविधिपटलः अथ चर्यापादः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः अथ चर्यापादः - शैवोत्पत्तिविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः शैवोत्पत्तिविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि चर्यापादविधिक्रमम् ।तस्य पादस्य पूर्वे तु शैवानामुद्भवं शृणु ॥१॥शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् ।एतच्चतुर्विधं शास्त्रं भेदाभावमिति स्मृतम् ॥२॥चतुर्विधेषु शास्त्रेषु यो भक्त्यदीक्षितः क्रमात् ।त्रयाणाञ्चास्त्रनाम्ना तु प्रोच्यते सकलावधि ॥३॥चतुर्थे तु स्थितानां तु निष्कले कलवर्जितम् ।शैवे तु वर्तते पुंसां शैवाश्चेति प्रकीर्तिताः ॥४॥पाशुपतादिशास्त्रेषु तथा नामान्युदीरिताः ।त्रिषु शास्त्रेषु भेदानि भिद्यन्ते स्वस्वमार्गकैः ॥५॥इदानीं शैवभेदानि वक्ष्यंते तु समासतः ।शास्त्रं चतुर्विधं ज्ञेयं वामदक्षिणमिश्रकम् ॥६॥सिद्धान्तेन समायुक्तं चतुर्थैवं प्रकीर्तितम् ।वामादिशास्त्रभेदेषु ये दीक्षां वर्तते क्रमात् ॥७॥वामी च दक्षिणीमिश्रीसिद्धान्तीति च कीर्तिताः ।वामं हि शांभवं शादे दक्षिणं भैरवात्मकम् ॥८॥मिश्रं यामलमित्युक्तं सप्तमातृप्रधानकम् ।सिद्धान्तं शुद्धशैवन्तु केवलं शांभवस्तथा ॥९॥सिद्धान्तं सर्वसारं हि तत्त्वशुद्धं शिवं स्मृतम् ।वामं च दक्षिणञ्चैव तद्वयोर्मिश्रकन्तु हि ॥१०॥शैवबाह्याः समाख्याता ते तु शैवेऽप्यपूजिताः ।कामिकादिप्रभेदेन चाष्टाविंशतिसंहिता ॥११॥शुद्धं शैवान्तसिद्धान्तं तेषां भेदोपभेदकैः ।सिद्धान्तं मिश्रमित्युक्तं नवयामलसंज्ञकम् ॥१२॥वामाचारस्तु वै पञ्चदक्षिणेऽपि तथैव च ।द्वयोर्मिश्रं च गुरवः पञ्चपञ्चैव चोदिताः ॥१३॥सिद्धान्तं मिश्रशैवानां पञ्चानां लक्षणं शृणु ।आचार्यः साधकश्चैव समयि पुत्रकस्तथा ॥१४॥चित्रकेटक इत्युक्तो मातृयज्ञेषु पूजितः ।शुद्धशैवाख्य सिद्धान्तं दीक्षयादीक्षितः क्रमात् ॥१५॥साधकादि चतुष्काणामाचार्यस्त्वधिप स्मृतः ।मातॄणां स्थापनं पूजा तासां वह्नेस्तु तर्पणम् ॥१६॥स्नपनोत्सवशान्त्यादिस्त्वाचार्येणैव कारयेत् ।तम्मिश्रोक्तानि कर्माणि कुर्यात्तैः साधकादिभिः ॥१७॥शिवाग्रजान्वयो भूत्वा आचार्यादि चतुष्ककाः ।उक्तः पारशिवञ्चैव चित्रकेटकनामतः ॥१८॥समासमिश्रशैवानां यथा तथ्यं शृणूद्भवम् ।अनादि शैवाः प्रथमं महाशैवा द्वितीयकम् ॥१९॥आदिशैवास्त्रितीयं चतुर्थञ्चनुशैवकाः ।पञ्चमेऽन्तरशैवास्तु शैवाः पञ्चविधा स्मृताः ॥२०॥शक्तिमूर्तीविशक्ती च नादो बिन्दुरिति स्मृतम् ।सदाशिवेश्वरश्चैव षट्स्थाने ये च संस्थिताः ॥२१॥अनादिशैवा इमे प्रोक्ता महाशैवास्ततः शृणु ।अनन्तादिशिखण्ड्यन्तास्तथा मन्त्रमहेश्वराः ॥२२॥मायाद्यवनिपर्यन्तं रुद्रा ये च महाबलाः ।अनन्तेश्वर शिष्यास्ते दैत्याश्च ऋषयस्तथा ॥२३॥ब्रह्मविष्णादि देवास्तु यक्षोरक्षगणैः सह ।महाशैवास्तु विख्याता आदिशैवान् शृणुष्व हि ॥२४॥अनुशैवा स्मृता ह्येते यक्षरक्षोरगैः सह ।ब्राह्मणादि चतुर्वर्णा काश्यपादि समुद्भवाः ॥२५॥परमेश्वरप्रसादेन अधिकारे नियोजिताः ।शिवधर्मप्रकाशाय सर्वेषां बोधनाय च ॥२६॥स्थापना प्रोक्षणादीक्षा विधिना कृत्यकारणात् ।ऋषीणां मूर्तिमास्थानि शिवेन परमात्मना ॥२७॥अनुग्रहीताश्च ये सर्वे शैवास्त्वे वान्तर स्मृताः ।शिवज्ञानयुताः सर्वे शिवधर्मपरायणाः ॥२८॥आचार्याः शिवशास्त्रज्ञा मोक्षज्ञाः शिववत् भुवि ।शिववत् चिन्तयेत् सर्वे इति शास्त्रस्य निश्चयः ॥२९॥गोचरं गोत्रसूत्रौ च संक्षेपेण वदाम्यहम् ।गोचरं शिवचिन्हं हि गोत्रं स्वमुनिवर्गकम् ॥३०॥सूत्रमाचारमेवं हि शैवानामुच्यते क्रमात् ।शिवः शिखा तथा ज्योतिः सावित्री व्योमगोचराः ॥३१॥एतानि पञ्चनामानि शैवानां शिवशासने ।गोचरं कुलमित्युक्तं तच्चिन्हञ्चातुर्वर्णिनाम् ॥३२॥काश्यप कौशिकश्चैव भारद्वाजोथ गौतमः ।आत्रेयः पञ्चधा ज्ञेयाः संप्रोक्तामुनयस्त्विह ॥३३॥काश्यपादिमुनीनान्तु शिवगोचरमुच्यते ।काश्यपोनमुचिश्चैव मनुजोमनुभः सह ॥३४॥विश्वामित्रश्च वाल्मीकः पुलस्त्यः पुलहः क्रतुः ।सनत्कुमारो मेधावी सवक्क्रश्च पराशरः ॥३५॥सनंदनः सदीर्घश्च सनकश्च सनातनः ।एतेषां ऋषिवर्गाणां गोचरं शिवगोचरः ॥३६॥कौशिकादिमुनिनान्तु शिखागोचरमुच्यते ।कौशिकः कुशिकश्चैव प्राजापतिस्तु पञ्चमः ॥३७॥शद्ध्यायन्तं तथा भूमि सनन्तः खद्यपूरणः ।शाण्डिल्योजनकश्चैव सुवर्णस्थाण्डिरेव च ॥३८॥शंखस्थूलो ऋतुश्चैव वीरजोरोमहर्षणः ।सर्वे तेषामृषीणाञ्च शिखागोचरमुच्यते ॥३९॥मुनीनां भारद्वाजादि ज्योतिर्गोचरमुच्यते ।भारद्वाजोवसिष्ठश्च मार्कण्डस्थण्डिलो गुरुः ॥४०॥स्थापनं प्रोक्षणं दीक्षा विधिनाकृत्यकारणात् ।ये शिवं निर्मितायेन शिवेन परमात्मना ॥४१॥सशैव ब्रह्मवक्त्रे च मर्त्यलोकं व्रजेत् क्रमात् ।काश्यपादीनि नामानि ऋषिरूपैश्च कीर्तिताः ॥४२॥आदौ शिवस्त्वमस्तीति आदिशैव उदीरितः ।शिवेन दीक्षिताश्चैते ते शिवब्राह्मणा स्मृताः ॥४३॥सर्वोत्तमाः पराचार्याः विप्रोत्तमाः शिवोत्तमाः ।द्विजोत्तमोत्तमाश्चैव शिवभेदाः शिवात्मकाः ॥४४॥एषां पर्यायनामानि संक्षेपात् कथितं तव ।क्रिमिकीटपदंकेभ्यः पर्शपः प्राज्ञयाज्ञकाः ॥४५॥पशुभ्योपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजास्तथा ।द्विजातिष्वधिका विप्रा विप्रेषुक्र तु बुद्धयः ॥४६॥क्रतु बुद्धेषु कर्तव्यास्तेभ्यः सन्यासयोधिकाः ।सन्यासयोधिकात् श्रेष्ठास्तेषु शंकरपूजिताः ॥४७॥इति चर्यापादेशैवोत्पत्तिविधिपटलः प्रथमः ॥१॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP