संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ चर्यापादः| वृताचारविधिपटलः अथ चर्यापादः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः अथ चर्यापादः - वृताचारविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः वृताचारविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि संक्षेपाद् वृत्तमुत्तमम् ।वृतं हि द्विविधं प्रोक्तं सामान्यञ्च विशेषतः ॥१॥ब्रह्मचारीग्रहस्थश्च वानप्रस्थश्च भिक्षुकः ।चतुराश्रममेवं हि सामान्यं विधिचोदितम् ॥२॥चतुर्णां गोचराणान्तु सममेतच्छिवागमे ।ब्रह्मचारी द्विधा ज्ञेया भौतिकोनैष्ठिकस्तथा ॥३॥शेषान् क्रमात् तु सप्राप्तो ब्रह्मचारी तु भौतिकः ।मरणान्तं ब्रह्मचर्यं पालनं नैष्ठिकस्य तु ॥४॥शिखीमुण्डी जटीवापी सकौपीनः समेखलः ।सदण्डीसोपवीतश्च भस्मरुद्राक्षसंयुतः ॥५॥त्रिस्नायि च जित क्रोधः सुयमः सत्यभाषणः ।एककालन्तु भैक्षाशि वसेन्नित्यं गुरोर्ग्रहे ॥६॥वर्ज्यं तत्गन्धमाल्यादि दर्पणं पादुकं तथा ।हरिद्रमञ्जनञ्चैव तांबूलं लवणं तथा ॥७॥शिखा वृतेश्वरं यागङ्कृत्वा चार्यपरिग्रहे ।ब्रह्मचारी वृतं ह्येवं ग्रहस्थानां वृतं शृणु ॥८॥गृहिणी संग्रहं कृत्वा विवाहं विधिना तथा ।अभ्यागता तिथिंश्चैव यथा शक्तिः सुपूजनम् ॥९॥देवाग्नि गुरुपूजा च ग्रहेधर्मञ्च नित्यशः ।शिवागमोक्त षट्कर्म श्रद्धाभक्त्या तु वर्धयेत् ॥१०॥शिखी वा बद्धके शीवा शुक्लयज्ञोपवीतकम् ।स्वर्णरजत ताम्रैश्च स्फटिकैश्चापि भूषयेत् ॥११॥सुदारान् संग्रहं नित्यं ऋतुकाले विशेषतः ।चन्दनादीनिमाल्यानि त्वलं कृत्य शुभे ग्रहे ॥१२॥ग्रहस्थानं वृतं ह्येतद्वानप्रस्थाश्रमं शृणु ।अपत्नीकः सपत्नीको द्विविधं शिवभाषणे ॥१३॥वने संवासिको नित्यं शाकमूलादिभक्षयेत् ।ग्रहस्थस्य वृतं यद्वत् सपत्नीकस्तथैव तु ॥१४॥सपत्निकवृतं प्रोक्तमपत्निकवृतं शृणु ।ब्रह्मचर्यञ्चरेन्नित्यं प्रतिग्रहविवर्जितम् ॥१५॥सुभूमौ वान्ति?ने वापि कुशे वा शयनेऽथवा ।सर्वेषु हेद्रियार्थेषु सप्त?मन्तु विवर्जयेत् ॥१६॥कृत्वा स्नानं त्रिकालेषु देवाग्नि गुरुपूजनम् ।वनेषु वासयेन्नित्यं फलमूलादिभक्षणम् ॥१७॥अपत्निकवृतमिदं यतिनाञ्च वृतं शृणु ।आत्मानं शिववद्दृष्ट्वा सर्वकर्मसमर्प्य च ॥१८॥सुशिष्ये स्वाधिकारञ्च स्वयं दीक्षा विवर्जितः ।सर्वाणि चान्यरूपाणि ममत्वं हि सुभावितम् ॥१९॥समत्वं सुखदुःखेषु सर्वारंभ विवर्जितम् ।काञ्चनं कोष्टवत् स्मृत्वा प्रियाप्रिय समंभवेत् ॥२०॥स बाह्याभ्यन्तरं शौचा ग्रामान्तेषु निवासनम् ।य निवृत्तिरियं प्रोक्तं शृणु वै शेषिकां वृतान् ॥२१॥शिवलिङ्गात् तथा ज्योतिः सावित्री चेति गोचरा ।शिवदेह समुत्भूतं गोचरं तुलमुच्यते ॥२२॥काश्यपादि ऋषिणान्तु शिवगोचरसंज्ञकम् ।भारद्वाजमुनिनान्तु ज्योतिर्गोचरसंज्ञकम् ॥२३॥गौतमादि ऋषिणान्तु नाम सावित्रगोचरः ।आत्रेयादि ऋषिणान्तु प्रोक्तञ्च व्योमगोचरः ॥२४॥तेषां वै शुद्धशैवानां वृत्तिवै शेषिकान् शृणु ।चतुर्णां गोचराणान्तु प्रजापत्यादि कर्मतः ॥२५॥प्राजापत्यादिकं पूर्वं महिपालं द्वितीयकम् ।कपोतं हि तृतीयं वै चतुर्थ्ं ग्रन्धिकं स्मृतम् ॥२६॥ब्रह्मचर्यादिभिक्षान्तं प्राजापत्यादिक त्विह ।शिवगोचरसंज्ञानां वृत्तिभेदाः प्रकीर्तिताः ॥२७॥धृतराष्ट्र वृतं पूर्वं बल?वृत्तिद्वितीयकम् ।अंसगोपालकश्चैव ज्योतिर्गोचर वृत्तिका ॥२८॥प्रथमन्तुदिकं प्रोक्तं द्वितीयं ममांकुरं तथा ।तृतीयङ्कुलितं प्रोक्तं सावित्री नामगोचरे ॥२९॥चतुर्गोचर संज्ञन्तु प्रोक्तं भेदानि मे शृणु ।स्वाद्ध्यायङ्कुरु शुश्रूषा संयमः सत्यवाचकम् ॥३०॥प्राजापत्यवृतञ्चैव ब्रह्मचारि सदाचरेत् ।शान्त्यादिकर्मकुशला मारणादि सुपेशका ॥३१॥रक्षकान्तु महिसर्वां महिपालवृतात् तु वै ।पततिर्णकणान् भूमौ भक्षयित कपोतवत् ॥३२॥कपोत जीविताये च कपोतास्तु प्रकीर्तिताः ।सत्ग्रन्ध सतताव्यासन्धनमात्मानमेव हि ॥३३॥त्यजन्ति देवतानां हि ग्रन्धिकास्तेप्युदा हृताः ।समुद्रे वा नदीतीरे कुटिं कृत्वा निवासयेत् ॥३४॥ब्रह्मचारि वृतं ह्येते कुटिकान्तं तथा मताः ।क्षेमारामेसु तीर्थे वा तत्प्त्नि सहजीवनः ॥३५॥सदोत्साह समायुक्ता वेतालास्ते भवन्ति वै ।दिव्यतीर्थार्क पत्राशी पद्महोमपरायणः ॥३६॥पानप्रस्थाश्रमं कृत्वा पद्म चण्डे प्रकीर्ताः ।वैदिकाचार विज्ञान ज्ञानयोगसमन्विताः ॥३७॥अष्टात्विर्गुलि?काभिस्तु भुक्त्वा देशविपत्य वै ।आशनं गुलिकामात्रं गुलिकान्ते महावृताः ॥३८॥शरीरदण्डनं कृत्वा वीरासन रतः सदा ।वृतैश्च दण्डन अस्मात् ते नैव दण्डनं स्मृतम् ॥३९॥कार्यो गुरु ग्रहेवासः त्रिकाल स्नाधिभक्ष्य भुक् ।रक्षयेत् ब्रह्मचर्यन्तु प्रोक्तं ब्रह्मोदहवृतम् ॥४०॥स्वदारार्चिः शुद्धचेतस्त्वयाचित धनान्वितः ।चरन्ति कुटिके यस्मात् ते कुटीचारकास्त्विह ॥४१॥चरन्ति संसवद्ये च निर्मले कलसं श्रये ।वने स्मवासिता नित्यं हंसास्ते तु प्रकीर्तिताः ॥४२॥ग्रामैकरात्रि न्यायेन पर्यान् प्रधिनिमिमतम्? ।वृता वै शेषिकाः प्रोक्ता गोचराणामिदं वृतम् ॥४३॥अन्ते वृतेश्वरं यागं कृत्वा तद्वृतमोक्षणम् ।वृतं वृतेश्वरं यागं समासाच्छृणु तत्वतः ॥४४॥चतुरश्रमण्डलङ्कृत्वा गोमयेनानुलिप्य वै ।पञ्चपद्मं लिवेत्तत्र मध्ये श्वेताब्जमुच्यते ॥४५॥पूर्वाब्जं पीतवर्णन्तु कृष्णवर्णन्तु दक्षिणे ।पाण्डरं पश्चिमे भागे रविवर्णमथोत्तरे ॥४६॥ईशानं मध्यपत्त्रे तु पूर्वाब्जे पुरुषं तथा ।अघोरं दक्षिणे पद्मे सद्यं पश्चिमपंकजे ॥४७॥सौम्येब्जे वामदेवन्तु ईशानादिसुपूज्य वै ।तत्तन्मन्त्रेण गन्धाद्यैः पूजयेत् सुसमाहितः ॥४८॥तत्तन्मन्त्रजपं कृत्वा शतं वार्द्धार्धमेव वा ।व्रतेश्वरं नमस्कृत्वा व्रतपूर्णेच्छया पुनः ॥४९॥व्रतमीशस्य विज्ञाप्य पूर्वाह्ने तु विसर्जयेत् ।स्नपनन्तु ततः कृत्वा देवदेवं विशेषतः ॥५०॥प्रणम्य वृतनाथन्तु वृतशुद्ध्यन्तु श्रावयेत् ।व्रतेशपूजनं ह्येवं वृतसिद्धिकराय वै ॥५१॥तदभावे जलेलिङ्गे प्रक्षेपणविधिं शृणु ।नद्यां वापि तटाके वा तीरे समतले शुभे ॥५२॥अन्नमृत्गोमयाद्यैसु लिङ्गं कृत्वा विशेषतः ।संपूज्य वृतशुद्ध्यन्तु संग्राह्य विधिवत् ततः ॥५३॥व्योमव्यापि शिवे नैव तल्लिङ्गन्तु जलेक्षिपेत् ।स्नपनं वर्जयित्वा तु चान्यत् सर्वं समानकम् ॥५४॥प्रोक्तं वृतेश्वरं यागं समाचारविधिं शृणु ।प्रणवं सर्ववर्णाख्यं शिवं सर्वमयं विभुम् ॥५५॥ऋषिः सनत्कुमारस्तु ओंकारः शुक्लवर्णकम् ।गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वजः ॥५६॥ओमित्येकाक्षरं ब्रह्मवदन्ते सर्वयोगिनः ।प्रणवन्तु समासोक्ता ततः पञ्चाक्षरं शृणु ॥५७॥वाचकः सतुविज्ञेयस्तद्वाच्यस्तु शिवं स्मृतम् ।जपं भुक्तिप्रदं शस्तन्तल्लयोमुनिरिष्यते ॥५८॥ऋषिच्छन्दोवर्ण तत्वदेवतास्तु शृणु क्रमात् ।काश्यपः कौशिकश्चैव भारद्वाजश्च गौतमः ॥५९॥आत्रेयास्तु नारदादिमुनयः क्रमश स्मृताः ।अनुष्टुप्चत्रिजगती - - - - - - -- ॥६०॥छन्दांसि सर्वमाख्यातं वर्णान्येव मम शृणु ।रक्तं कृष्णं तथा श्यामं पीतं स्फटिकसन्निभम् ॥६१॥पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् ।सद्यादि पञ्चब्रह्माणि तेषां देवाः प्रकीर्तिताः ॥६२॥प्रणवेन समायुक्तं जपकाले तथा चरेत् ।तथा षडक्षरं प्रोक्तं त्रिशूलास्तु न तत्समम् ॥६३॥जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् ।मानसञ्चैव कण्ठे तु ह्युपांशु व्यक्तमेव च ॥६४॥व्यक्तं दशगुणोपांशु तस्मात् कण्ठोष्ठकं शतम् ।सहस्रं मानसं तस्मादंगुल्यादि जपं शृणु ॥६५॥अङ्गुल्या जपसंख्या तु तुल्या एकफलं तथा ।रेखायाष्टगुणं प्रोक्तं जीवैर्दशगुणान्वितम् ॥६६॥सन्ध्याकाले कुशग्रन्धिः प्रवालैस्तु सहस्रकम् ।मणिभिर्दशसाहस्रं मौक्तिकं लक्षमुच्यते ॥६७॥पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते ।रुद्राक्षस्य ततोत्पत्तिं शृणुत्वं वक्ष्यतेऽधुना ॥६८॥दिव्यवर्षसहस्रन्तु चक्षुरुन्मिलितं मया ।मुञ्चन्ति मम नेत्राभ्यामश्रु रुद्राक्षमुच्यते ॥६९॥एकवक्त्रं शिवं साक्षादनन्तं धारणात् फलम् ।सन्धार्य मृयते यस्तु सयाति परमांगतिम् ॥७०॥द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमुच्यते ।चतुर्वक्त्रन्तु बिन्दुस्यात् पञ्चवक्त्रं सदाशिवम् ॥७१॥षड्वक्त्रमीश्वरं प्रोक्तं रुद्रः सप्तमुखं स्मृताः ।अष्टवक्त्रं तथा विष्णुर्नववक्त्रञ्चतुर्मुखम् ॥७२॥नववक्त्रैक वक्त्रान्तं फलन्दशगुणोत्तरम् ।हस्ते कण्ठे शिखाकर्णे सन्धार्यसहभस्मना ॥७३॥सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ।दर्शनं पापनाशस्तु स्पर्शनं सर्वसिद्धिदम् ॥७४॥प्रागुक्तं धारणात् पुण्यं सर्वसिद्धिफलप्रदम् ।रुद्राक्षन्धारणात् पुण्यं रुद्राक्षन्धारयेत् सदा ॥७५॥प्रयाणकाले रुद्राक्षं भक्षयित्वा मृतन्तु ये ।ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते ॥७६॥तस्मात् सर्वप्रयत्नेन जपं रुद्राक्षकैः सदा ।जपकालञ्च शेषञ्च वक्ष्यते तु समासतः ॥७७॥पूर्वाह्णे चैव मध्याह्णे चापराह्णेर्धरात्रिके ।चतुष्कालं त्रिकालं वा तद्देशञ्च शृणुष्व हि ॥७८॥नदीतटाकतीरे वा गोष्ठे वाप्यालयेऽपि वा ।वने वाथगिरौ देशे पुण्यस्थाने ग्रहे यजेत् ॥७९॥दृष्टे दूरेपिमाने तु नमस्कृत्वास्तु भक्तितः ।पथिश्रान्ते विमानन्तु यदा दृष्टेनमस्कृते ॥८०॥पूर्वं शान्तं तदर्धाय प्रदक्षिणन्तु कारयेत् ।लिङ्गदर्शनकाले तु पुष्पं कृत्वा प्रणम्य च ॥८१॥रिक्तपाणिर्नगन्तव्यो देवदेवस्य सन्निधौ ।पत्रपुष्पफलैर्वापि न शून्यं मस्तकं तथा ॥८२॥भस्मयुक्ते यदा दृष्टे लिङ्गमुद्रान्तु दर्शयेत् ।शिवचिन्हधराश्चैव भक्तियुक्तास्तदन्वगाः ॥८३॥पंकमग्नं पशुं दृष्ट्वा तदुत्थाप्याथगच्छति ।पैशुन्यञ्च शिवेत्यक्त्वा सर्वप्राणिदया परः ॥८४॥अदीक्षितजनं स्पृष्ट्वा पापयुक्तांस्तु वर्जयेत् ।जपं समासतः प्रोक्तं पवित्रारोहणं शृणु ॥८५॥इति वृताचारविधि पटलः षष्ठः ॥६॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP