संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ चर्यापादः| हिरण्यगर्भतुलाभरविधिपटलः अथ चर्यापादः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः अथ चर्यापादः - हिरण्यगर्भतुलाभरविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः हिरण्यगर्भतुलाभरविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि हैरण्यगर्भकन्तुलाम् ।दीक्षायुक्त नृपाणान्तु कर्तव्यौतौ प्रकीर्तितौ ॥१॥ग्रहणे विषुवेकाले अयने तु प्रशस्यते ।पौ-ऋषे चा-ऋषे चैव दैविके तु पुराणके ॥२॥पौ-ऋषैः स्थापितं लिङ्गं पौ-ऋषन्तु प्रकीर्तितम् ।ऋषिभिस्त्वा ऋषं प्रोक्तं देवैरेव तु दैविकम् ॥३॥स्वयमुद्भूत लिङ्गन्तु पुराणमिति निश्चितम् ।पौ-ऋषादि पुराणान्तं फलवृद्ध्युत्तरोत्तरम् ॥४॥तस्मत् पौराणिके स्थाने कारयेत् तत्र वित्तमः ।दैविके मध्यमं ज्ञेयमन्यत्रैवाधमं स्मृतम् ॥५॥प्रासादस्यैशदिक्भागे पूर्वे वा दक्षिणेऽपि वा ।पश्चिमे चोत्तरेवापि अन्तराले मनोरमे ॥६॥चतुरश्रमण्डपं कृत्वा चतुर्द्वारसमायुतम् ।दशद्वादशहस्तं वा षोडशस्तंभसंयुतम् ॥७॥चतुस्तोरणसंयुक्तं सर्वालंकारसंयुतम् ।दर्भमालाभिरावेष्ट्य मुक्तास्रग्दामशोभितम् ॥८॥तन्मध्ये वेदिकां कुर्यात् नवभागैक विस्तृतम् ।उत्सेधश्चरुमात्रेण दर्पणोदरवच्छुभम् ॥९॥अदिक्षुचाग्नि कुण्डानि पूर्वोक्तविधिनासह ।अथवा चतुरश्राणि वृत्तानि विदिशासु वै ॥१०॥चक्रशंकरयोर्मध्ये वृतकुण्डं प्रकल्पयेत् ।अग्निं वै पूर्ववद्धुत्वा विद्याङ्गं हृदयेन तु ॥११॥स्थण्डिलं वेदिकायान्तु शालिभिर्विमलैस्तथा ।तत्रैव संलिखेत् पद्ममष्टपत्रं सकर्णकम् ॥१२॥गन्धपुष्पैः समभ्यर्च्य धूपदीपैर्विशेषतः ।हिरण्यभाजनस्याधस्पटपत्रं (स्पृष्टपत्रं) सकणिकम् ॥१३॥ऊर्ध्वभागन्ततः कृत्वा चतुर्द्वारसमन्वितम् ।तथोभागे न्यसेन्मंत्री बीजमुख्येन मन्त्रतः ॥१४॥प्रक्षाल्य पञ्चगव्येन समभ्यर्च्य सदाबुधः ।जलस्नानं पुराकृत्वा दन्तधावन पूर्वकम् ॥१५॥भस्मस्नानं ततः कृत्वा शुक्लचन्दनलेपितः ।शुक्लवस्त्रोपवीतश्च शुक्लमाल्येरलङ्कृतः ॥१६॥सोष्णीषश्चोत्तरीयश्च सर्वाभरणभूषितः ।प्रविशेत् भाजनस्यान्तं पूर्वाभिमुखसंस्थितः ॥१७॥शिवमन्त्रं जपित्वा तु शिवध्यानपरायणः ।ऊर्ध्वभागेन सञ्च्छाद्य हृदयेन विचक्षणः ॥१८॥सूत्रैरावेष्ट्य यत्नेन पुष्पमाल्यैरलंकृतः ।शिवोहमिति संभाव्य यावत् स्वस्वाहितावतः ॥१९॥तस्मान्निर्गम्य नृपतिर्नमस्कृत्वा सदाशिवम् ।हिरण्यगर्भवेशात् तु पुनर्जन्म न तु वृजेत् ॥२०॥भूत्वा हिरण्यगर्भेण विधाता सर्वजन्तुषु ।प्रणिपत्य गुरुं तत्र संपूज्य च विशेषतः ॥२१॥होत्रान् संपूज्यविधिवद्वस्त्रहेमाङ्गुलीयकैः ।सर्वयज्ञफलं प्राप्य सर्वदानफलं लभेत् ॥२२॥दिक्षितानां नृपाणान्तु कर्तव्यं तत्प्रयत्नतः ।शैवमार्ग स्थितानां तु ग्रहिणां लिंगिनामपि ॥२३॥भक्तानां दापयेत् तत्र नृपसौवर्णभाजनम् ।प्रोक्तं हिरण्यगर्भन्तु तुलाभारं ततः शृणु ॥२४॥पूर्वोक्त स्थानकालेषु कर्तव्यं तन्नृपेण तु ।खदिरश्चन्दनञ्चैवस्तालं चंपकविल्वकैः ॥२५॥अन्यैस्तु सारवृक्षैर्वा कृत्वास्तं भद्वयं ततः ।तदूर्ध्वे चोत्तरन्यस्त्वा दण्डमध्ये तु योजयेत् ॥२६॥सप्तषट्पञ्चहस्तं वा नाहं द्वात्रिंशदंगुलम् ।अग्रयोः सुषिरं कृत्वा बध्वाशृंखलया दृढम् ॥२७॥समवृतं त्रिहस्तन्तु ताम्रपात्रद्वयन्तथा ।किञ्चिन् निम्नन्तु सुषिरन्तयोर्बध्वा तु रज्जुभिः ॥२८॥आयसेन तु मध्ये तु सुस्निग्धं कारयेत् बुधः ।दर्भमालाभिरावेष्ट्य पुष्पमालोपशोभितम् ॥२९॥स्तंभं वस्त्रैस्तु संवेष्ट्यः सर्वालंकारसंयुतम् ।तुलामारोप्य नृपतिः सर्वाभरणभूषितः ॥३०॥तुलामनुसमायुक्तं हृदयेन विचक्षणः ।शेषपात्रे तु संयोज्य हेमतत्तुल्यगर्तकः ॥३१॥शिवमन्त्रञ्जपित्वा तु शिवध्यानपरायणः ।अवतीर्यतुलायास्तु तत्सुवर्णन्तु पूर्ववत् ॥३२॥दैवानाञ्चैव शैवानां ब्राह्मणानाङ्गुरोस्तथा ।आदिशैवानुशैवानां दापयेत् तु यथार्हकम् ॥३३॥वा जपेय सहस्रैस्तु राजसूयशतैरपि ।अश्वमेध सहस्रैस्तु तैस्तुल्यं फलमाप्नुयात् ॥३४॥तुलाहैरण्यगर्भन्तु प्रोक्तं वै दहनं शृणु ।इति हिरण्यगर्भतुलाभारविधिपटलोष्टमः ॥८॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP