संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ चर्यापादः| मण्डलविधिपटलः अथ चर्यापादः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः अथ चर्यापादः - मण्डलविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः मण्डलविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि मण्डलं सार्वकामिकम् ।मण्डलं सारमित्युक्तं सर्वदेवालयं कृतः ॥१॥मण्डलन्तेन विख्यातं शिवेन परमात्मना ।सर्वपापानिमुच्यन्ते ततो मण्डलदर्शनात् ॥२॥दीक्षाकालस्य पूर्वे तु मण्डलं विधिनाबुहः ।यथा भूमिं परिक्ष्याथ तथा भूमिपरिग्रहम् ॥३॥महेन्द्रेमलये विन्ध्य हिमवत् पारियात्रके ।गङ्गातीरे सरित्पुण्ये सामुद्रायाश्रितेऽपि वा ॥४॥पुष्पोद्यानेथवा नित्यं क्षीरवृक्षसमीपके ।शुद्धदेशे मनोरम्ये ग्रहे देवालयेपि वा ॥५॥प्रागुदक् प्लवणेदेशे मण्डलंत्वा लिखेत्बुधः ।सप्तम्याञ्च नवम्याञ्च एकादश्यामथापि वा ॥६॥त्रयोदश्याममावास्यां दीक्षाकर्मप्रशस्यते ।नक्षत्राणि शुभान्याहुरादित्ये सोमवासरे ॥७॥गुरुशुक्रेन्दु सूनौ च दीक्षाकर्मणिशोभनम् ।शिष्यान् संवत्परात् पूर्वे परीक्ष्यात्र गुणागुणान् ॥८॥गुणयुक्तान्तु सङ्ग्राह्य गुणहीनांश्च वर्जयेत् ।अङ्कुरानर्पयित्वा तु पूर्वोक्तविधिनैव तु ॥९॥प्रथमं मण्डलं विद्यात् दीक्षाकर्मद्वितीयकम् ।तृतीयमभिषेकन्तु क्रमेणैव विधीयते ॥१०॥अधुना मण्डलं यत्तत् समासात् च्छृणुसुव्रत ।हस्तमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् ॥११॥तथाधिकापिसा श्रेष्ठा समासामध्यमा स्मृता ।न्यूनैव कन्यसाभूमिस्तद्वत् भूमेस्तु तत्फलम् ॥१२॥उत्तमं सर्वसिद्ध्यर्थं मध्यमं स्वेष्टकामदम् ।वर्जितञ्चाधमं यत्र तन्मध्योत्तमके शुभे ॥१३॥चतुरश्रं समंकृत्वा संप्रोक्ष्यपञ्चगव्यकैः ।मण्डपं वा प्रपां वापि सर्वालङ्कारसंयुतम् ॥१४॥विंशत् षोडशहस्तैर्वा हस्तैर्द्वादशभिस्तु वा ।दिक् रन्ध्रवसुहस्तैर्वा मध्यस्तं भविहीनकम् ॥१५॥चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।तन्मध्ये वेदिकां कुर्यात् तन्मध्ये मण्डलं बुधः ॥१६॥शिवभक्तान्भोजयेच्च प्रोक्षयेदस्त्रवारिणा ।वास्तुपूजाविधानेन वास्तुहोमन्तु कारयेत् ॥१७॥स्थण्डिलन्तत्र कर्तव्यं शिवाख्यं कलशं न्यसेत् ।वर्द्धनीं वामपार्श्वे तु हेमरत्नांबुसंयुतम् ॥१८॥वस्त्रयुग्मसमायुक्तौ सकूर्चौ सा पिधानकौ ।शिवाख्यं शिवमन्त्रेण उमाख्यं गौरिनामतः ॥१९॥संपूज्यैवं विधानेन तत् कुंभाभ्याञ्जलैः शुभैः ।भूमिं द्रव्याणि शिष्यांस्तु संप्रोक्ष्यास्त्रोदकेन तु ॥२०॥ऋषियज्ञमिदं कृत्वा पूर्वरात्रौ तु देशिकः ।अधिवास्य ततः पश्चाच्छिवमन्त्रगणैः सह ॥२१॥शिवद्रव्येण संयुक्तं शिवयज्ञमथाखिलम् ।योगपीठं न्यसेन्मध्ये तत्वत्रयसमन्वितम् ॥२२॥शिवं यष्ट्वा विधानेन कुण्डेवा स्थण्डिलेपि वा ।शिवाग्निं जनयित्वा तु पूर्ववद्विधिना यथा ॥२३॥संपूज्य विधिनाचाग्निं शिष्याश्चैवाधिवासयेत् ।विप्रादीनांश्च वर्णानां स्त्रीपुमाश्च नपुंसकान् ॥२४॥चोदितां छिवभक्तांस्तु दीक्षयेन्मन्त्रवित् सदा ।चरुन्दत्वा ततस्तेषां शिवमन्त्रैस्तु साधितम् ॥२५॥आनयित्वा ततस्थालीं क्षालयित्वा शिवांभसा ।गन्धपुष्पार्चिताङ्कृत्वा तण्डुलैराढकैर्युतम् ॥२६॥पुष्पैर्दर्भैस्तु परितः कवचेन तु बुद्धिमान् ।कपिलायास्तु पयसा घृतमिश्रेण पूरयेत् ॥२७॥न्यस्त्वाग्नि मध्यमेस्थालीं शनैर्मृद्वग्निनापचेत् ।यदा पक्वञ्चरुन्तत्र तदा तमवतारयेत् ॥२८॥गोघृतेन हृदामन्त्री चरुं तत्राभिघार्य च ।संपाद्य विधिनाहुत्वा मन्त्रैः सर्वैः सकृत् सकृत् ॥२९॥सेत्यग्नौ तु हुतं हुत्वा आज्यशेषमथोदरे ।निवेदयित्वा देवस्य चर्तर्भागैकभागिकम् ॥३०॥उपोषितानां शिष्याणां त्रिभागञ्चैव दापयेत् ।दन्तैर स्पृश्य विधिवत् पञ्चब्रह्माप्यनुस्मरन् ॥३१॥भक्षयित्वा विधानेन पिण्डं प्रत्याचरेत् बुधः ।दन्तकाष्ठं ततः कृत्वा पञ्चगव्यन्तु पाययेत् ॥३२॥दशाक्षरञ्जपित्वा तु विद्यांगैर्ब्रह्मभिर्युतम् ।बीजमुख्यं ततो जप्त्वा क्षुरिकान्तु विशेषतः ॥३३॥ततः प्रतिसरं बध्वा शिष्यानाचार्यकः पृथक् ।गन्धपुष्पादिनाभ्यर्च्य शिवपार्श्वे स्वपेन्निशि ॥३४॥भस्मशय्या समारूढः शिवद्ध्यानपरायणः ।ओं शंभवे त्रिणेत्राय पिङ्गलाय महात्मने ॥३५॥वामाय विश्वरूपाय स्वप्नाधिपतये नमः ।इमं मत्रञ्जपित्वा तु शिष्यन्तु शयने तथा ॥३६॥यागस्थाने वसेन्मंत्री शिष्यैः सार्धं शिवाग्रतः ।ततः प्रभाते यत् स्वप्नं रात्रौ दृष्टं गुरोस्तदा ॥३७॥स्वप्नं संश्राव्ययत्तथ्यं शुभवाप्यशुभं तथा ।शुभेसु खमवाप्नोति शिष्याणान्त्वैहिकं फलम् ॥३८॥अशुभञ्चेत्तदामोक्षमैहिकी सिद्धिवर्जितम् ।शिष्यद्रव्येण कर्तव्यं दीक्षायज्ञमथाखिलम् ॥३९॥त्यक्त्वा प्रतिसरन्धिमान्तत स्नानं विधानतः ।रात्रा वै वं कृते पश्चात् प्रभाते मण्डलं लिखेत् ॥४०॥तद्दृष्ट्वामुच्यते देही त्वशेषपशुबन्धनात् ।एकहस्तं द्विहस्तं वा चतुर्हस्ताष्ट हस्तकम् ॥४१॥द्वादशं षोडशं हस्तं मत ऊर्ध्वं न कारयेत् ।सूत्राणामन्तरं बध्वा द्वित्रिभागस्तु लक्षयेत् ॥४२॥वामदेवेन मन्त्रेण सूत्रपातस्तु कारयेत् ।पूर्वपश्चिम दिक्भागे सूत्रं दत्वा समाहितः ॥४३॥तत्वसूत्रं प्रसार्याथ दक्षिणोत्तरगं शुभम् ।तस्य सूत्रं ततो ग्राह्य आश्रमेन विनिर्मिते ॥४४॥पूर्वादिचोत्तरान्तञ्च सूत्रन्तत्र प्रसारयेत् ।आग्नेय्यां प्रभवं सूत्रं वायव्यान्तु विसार्य च ॥४५॥ऐशान्यां प्रभवं सूत्रं नै-ऋत्यान्तु विसारयेत् ।चतुरश्रं समंकृत्वा नवभागं विभज्यताम् ॥४६॥मध्यभागेन पद्मस्य कर्णिकायां समालिखेत् ।चतुर्भागैस्तु तत्पद्ममष्टपत्रोपशोभितम् ॥४७॥प्रथमं कर्णिकाभागं द्वितीयं केसराणि वै ।तृतीयं दलसन्धौ तु दलाग्राणि चतुर्थकम् ॥४८॥प्रतिमावरणे रेखां पद्मबाह्ये तु बुद्धिमान् ।पद्मस्यैवं प्रमाणन्तदनन्तत्वाच्छिवस्य च ॥४९॥स्वल्पे स्वल्पन्तु कर्तव्यं विस्तारे विस्तरं भवेत् ।वीधिः पद्मार्धमानेन पद्ममानेन वा पुनः ॥५०॥वीध्यासमोभवेत् पद्मं शोभापद्मं समाश्रिता ।तत्समानकपोले तु शोभान्तुल्यापशोभका ॥५१॥पञ्चमन्तु समद्वारञ्चतुर्दिक्षु विशेषतः ।द्विहस्तमेकहस्तं वा अत ऊर्ध्वं विवर्जयेत् ॥५२॥निस्थूलं न कृशं हीनं वक्रबिन्दुविवर्जितम् ।देवस्य भवनं कृत्वा प्रोक्तं तन्मोक्षसिद्धिदम् ॥५३॥स्थूलं सर्वभयं प्रोक्तं वक्त्रे कलहमादिशेत् ।हीने तु सिद्धिहीनन्तु बिन्दौ शत्रुभयपदम् ॥५४॥कृशे व्याधिसमुत्पन्नं दुर्भिक्षं वर्णमिश्रके ।सान्निध्यं न भवेच्छोभा राजतः सूत्रलघने ॥५५॥तस्मात् सर्वप्रयत्नेन कर्तव्यं लक्षणान्वितम् ।शुक्लं रक्तासितासूत्रं रजतस्त्रिविधं स्मृतम् ॥५६॥वामे ज्येष्ठा च रौद्री च वर्णानामधितेदवता ।मुहूर्तस्य प्रकाशार्थं शुक्लवर्णस्य पातनम् ॥५७॥तद्राग जननार्थाय रक्तवर्णस्य पातनम् ।तामसस्तु निव्रत्यैव कृष्णवर्णं प्रपातयेत् ॥५८॥तेषां यागफलप्राप्त्यै पीतवर्णं प्रपातयेत् ।आलिख्य शुक्लवर्णाद्यैः कनिष्ठाङ्गुलिनाहतः ॥५९॥सूत्रान्तरं यवं प्रोक्तं हृस्वाद्धृस्वन्तरं स्मृतम् ।असव्येन तु मुक्त्यर्त्थी भुक्त्यर्त्थी सव्यकेन तु ॥६०॥सर्वसिद्धिकराग्रेण श्रीकामिमुष्टिना लिखेत् ।मुक्ताचूर्णैस्तु सम्मिश्रं शुक्लवर्णं विशेषतः ॥६१॥पद्मरागस्य चूर्णैस्तु रक्तवर्णं प्रशस्यते ।इन्द्रनीलस्य चूर्णैस्तु कृष्णवर्णं प्रकीर्तितम् ॥६२॥चामीकरस्य चूर्णैस्तु उमावर्णमुदाहृतम् ।अलाभे संखचूर्णैश्च जातिलिङ्गस्य चूर्णकैः ॥६३॥कृष्णाञ्जनस्य चूर्णैस्तु मनःशिलायाश्च चूर्णकैः ।तेषामलाभे चूर्णानां शालितण्डुलचूर्णकैः ॥६४॥पक्वेष्टकायाश्चूर्णैश्च दग्धतण्डुलचूर्णकैः ।ततो हरिद्राचूर्णैस्तु कारयेदब्जमत्र वै ॥६५॥कर्णिकापीतवर्णेन पुष्करा हेमसन्निभैः ।यवमात्रोन्नतास्तस्यां पञ्चविंशति पुष्करम् ॥६६॥केसरागुणसङ्काशास्त्वधोर्ध्वे शुक्लवर्णकाः ।पद्मस्याष्टदलं श्वेतं कृष्णं रेखान्तरेषु वै ॥६७॥रेखापार्श्वे तु रक्तान्तौ तथैव प्रतिवारणम् ।रक्तवर्णेन वीधीस्यात् पद्मस्य परितस्तदा ॥६८॥द्वाराणि पीतवर्णानि कर्तव्यौ द्वारपार्श्वयोः ।शोभाश्चाप्युपशोभाश्च सर्ववर्णैस्तु कारयेत् ॥६९॥एवं समाप्तेन लिने शिवमावाहयेत् बुधः ।मद्ध्ये सदाशिवं यष्ट्वा गन्धपुष्पादिभिर्युतम् ॥७०॥गर्भावरणसंपूज्य विद्येशावरणं ततः ।गणेशावरणं पश्चाल्लोकेशावरणं ततः ॥७१॥अस्त्रावरणमेवन्तु पूजयेत् तु यथा विधि ।ईश्वरं दक्षिणे यष्ट्वा गौरीं तस्यैव वामके ॥७२॥मण्डलस्य विधिः प्रोक्तं दीक्षाविधिमतः शृणु ।इति मण्डलविधिपटस्तृतीयः ॥३॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP