५१
इदावत्सराय परिवत्सराय संवत्सराय प्रति वेदयाम एतत् ।
यद् व्रतेषु दुरितं निजग्मिम दुर्हार्दं तेन शमलेन आयुः ॥१॥
यन् मे व्रतं व्रतपते लुलोभाहोरात्रे समघातां म एतत्।
उद्यन् पुरस्ताद् भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभि गृणात्वेतत् ॥२॥
यद् व्रतमधिपेदे चित्त्या मनसा हृदा।
आदित्या रुद्रास्तन् मयि वसवश्च समिन्धताम् ॥३॥
व्रतानां व्रतपतय उपाकरोम्यग्नये।
स मे द्युम्नं बृहद्यशो दीर्घमायुष्कृणोतु मे ॥४॥
मयोभूर्वातो अभिवातूस्ना ऊर्जस्वतीरोषधीरा रिशन्ताम्॥
मेदस्वतीर्जीवधन्या मयोभुव: पद्वते ऽवसाय रुद्र मृड ॥५॥ भूवः
या एकरूपा विश्वरूपाः सरूपा यासामग्निरूधो वो जन्म वेद ।
या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥६॥
या देवेषु तन्व ऐरयन्त यासां सोमो रूपधेयानि वेद ।
ता अस्मभ्यं बहुलाः पिन्वमानाः प्रजावतीरिन्द्रो गोष्ठे ददृश्याम् ॥७॥
प्रजापतिर्मह्यमेता रराणो वह्वीस्मतीरुपमे गोष्ठ आकः ।
तासां वयं प्रजया संसदेम ज्योग्जीवन्तः शरदः पुरुचीः ॥८॥
अभिष्ठिता चकृदीति पिशङ्गी बहुकर्दिनी।
कर्दोह यज्ञे हलीक्ष्णाद् व्रीहेर्माषादथो यवात् ॥९॥
यथा भषद् हलीक्ष्णस्य न संभवति कर्दने।
एवाहलग्न कर्दय निर्ग्रामान् निर्विशो जहि ॥१०॥
यथापरस्त्वां शर्धते गर्दभः क्रतुं संदृशि ।
एवा ते शर्धतां भसद्धलीक्ष्णपर्ण शर्धय वृत्रहा साचि शर्धयः ॥११॥
पवीरवल्लाङ्गलं सुशेवं सोमसत्सरु ।
तदुत् कृषति गामविं प्रफर्व्यं च पीवरीं प्रस्थावद् रथवाहनम् ॥१२॥पीब
शुनं वरत्रामा यच्छ शुनमष्ट्रामुदिङ्गय।
शुनं वाहस्य युक्तस्याष्ट्रया जहि दक्षिणम् ॥१३॥
मधुमत् तन् निगृहाण फालं क्षेत्रेषु सर्वदा ।
तत् पर्जन्यो ऽभिवर्षतु भूम्ना धान्याय कर्तवे ॥१४॥
आयतादित्या रुक्षतायत र्वेद्यामधि ।
प्राहाग्निर्हव्यं देवेभ्यो मन्त्रो होता हविष्पति: ॥१५॥
एमा अगुर्मयोभुवो मधोरूधांसि बिभ्रती: । योभूवो
ता उप प्रशिक्षतं दुहानामक्षितं पयः ॥१६॥
ईडास्थ मधुपृचो विश्वरूपास्तामा विपश्यत् ।
सह प्राणेन तेजसा सह हरसा बलेन ॥१७॥

५२
दिवो नभः शुक्रं पयो दुहानर्तस्य नाभिरमृतं वि चष्टे ॥१॥
घृतं दुहाना विश्वतः प्रपीणामूर्जं दुहानामनपस्फुरन्तीम् ।
उपासतां सुकृत: स्वधाभि: ॥२॥
घृतमुत्सं पिन्वमानामिमां योनिमुपाध्वम् ।
स्वधायाश्चकृषे जीवन् तास्ते सन्तु मधुश्चुत: ॥३॥
सं रसा ओषधीनां समाकूतिर्नयन्तु मे ।
ऊर्जस्वन्तं पयस्वन्तं पृथिव्या हस्तमन्वागात् ॥४॥
परिणीतिरसि हस्तस्य पथः परिणीतिरसि ।
एवा ह दुष्वप्न्यं सर्वं स्तम्भे परिणयामसि ॥५॥
पयस्वन् मे क्षेत्रमस्तु पयस्वदुत धान्यम् ।
कृषि: पयस्वतीवाहं पयस्वान् भूयासम् ॥६॥
वृष्णे बृहते स्वर्विदे अग्नये शुक्ल हराम: त्विषीमते ।
स नः स्थिरान् बलवतः कृणोतु योक् च नो जीवातवे दधातु ॥७॥
वेद वै ते ऽग्ने नामाभिर्नामासि त्रिवरूथम् ।
त्रयः पोषास्त्रिवरूद् अस्मान् यज्ञः सचन्ताम् ॥८॥
प्रजापते: पयसा वावृधानावायुष्मन्तो वर्चस्विन: ।
ज्योग्जीवन्तीमुप स त्वा सदेम ॥९॥
उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनाङ् अनु॥
वेदाहं वेद सूर्यः किमेतौ किं करिष्यथः ॥१०॥
समाधिदम्भादधीयां न पाको अस्मि जनुषा न सुषाट्।
अभिषाडस्मि विश्वाषाट् पृतनाषाट् स्वर्विद्य दिवं विश्वं भुवनं सो अस्मि ॥११॥
अस्थादुदस्थादजनिष्ट विप्रो वि मिमीते वरिमाणं पृथिव्या:।
आसीदत् सम्राड् भुवनानि विश्वषाडिष्टाद् वेद वरुणस्य व्रतानि ॥१२॥
प्रजापतिः प्रजावान् स मां प्रजावान् प्रजावन्तं कृणोतु ॥१३॥
सूर्यो वर्चस्वान् स मां वर्चस्वान् वर्चस्वन्तं कृणोतु ॥१४॥     
सोमः पयस्वान् स मां पयस्वान् पयस्वन्तं कृणोतु ॥१५॥
त्रिंशन मुष्का: कववस्य दश मुष्कावुलूक्या: ।
चत्वारस्तव कर्दमाः ॥१६॥
तांस्त्वमुदग्र काशिनि मूलेन अपिकृन्ततात् ।
आसुरो ऽसि जन्मनस्तं त्वेतो नाशयामसि ॥१७॥
इन्द्रजा असि सोमजास्तं त्वेतो निष्प्रहिणामसि ।
उर्वामत्सोमधूलकं तस्य पात्सत्य यमनास्रावमरोगणम् ॥१८॥
(ह्रति त्र्यृचनाम ऊनविंशतिकाण्डे त्रयोदशो ऽनुवाकः)

५३
इषिराचास्यजिरा चासि ।
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकाम: प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ॥१॥
भूतिश्चासि प्रतिष्ठा चासि ।
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकाम: प्रत्यतिष्ठदेवाहं
त्वया प्रतिष्ठा काम: प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ॥२॥
अस्वप्ना चास्यनिद्रया चासि ।
प्रजापतेः समिदसि संसितिर्नाम लोमशा।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत्।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं
त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ॥३॥
रुचिश्चासि यक्षं चासि ।
प्रजापतेः समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकाम: प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ॥४॥
कीर्त्तिश्चासि यशश्चासि ।
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ॥५॥
अम्भश्चासि महश्चासि ।
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत्।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ॥६॥
अन्नं चास्यन्नाद्यं चासि । चसि
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ॥७॥
प्रयच्छन्ती चासि प्रवदन्ती चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ॥८॥
अनुकामा चासि कामदुघा चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आा मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ॥९॥
आहरन्ती चासि समाहरन्ती चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ॥१०॥
दिशन्ती चासि प्र दिशन्ती चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ॥११॥
अनुमतिश्चास्यनुमन्यमाना चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ॥१२॥
जितिश्चासि विजितिश्चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ॥१३॥
संजितिश्चासि सन्दनाजितं चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकाम: प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आा मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ॥१४॥
अग्निः पृथिव्याधिपतिः सोमस्त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिरस्यधिपतिं मा कृणु गवामश्वानां पुरुषाणां ब्रह्मचारीणां भूत्या ऽन्नाद्यस्य ॥१५॥
वायुरन्तरिक्षस्याधिपतिः सोमस्त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिरस्यधिपतिं मा कृणु गवामश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या ऽन्नाद्यस्य ॥१६॥
सूर्यो दिवोधिपतिः सोमस्त्वावतु विद्म त्वा विद्धि मा अधिपतिरस्यधिपतिं मा कृणु गवामश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या ऽन्नाद्यस्य ॥१७॥
विन्दन्तु वसवो विन्दन्तु मे गृहान् प्रजा पशून् वित्तिं भूतिं प्रतिष्ठाम् ॥१८॥
आ यन्तु वसवो आ यन्तु मे गृहाः प्रजाः पशवो वित्तिर्भूति: प्रतिष्ठाम् ॥१९॥
संयन्तु वसवो संयन्तु मे गृहा: प्रजाः पशवो वित्तिर्भूति प्रतिष्ठाम् ॥२०॥
जीतिरसि जीयासं पार्थिवै: पृतना जीयासम् ।
विजितिरसि वि जीयासं मानुषैः पृतना जीयासम् ॥२१॥
संजितिरसि सं जीयासं सर्वै: पृतना जीयासम् ॥२२॥

५४
बोधयैनं प्र बोधय स्वप्तवे नानु मन्यताम् । वोध
उर्ध्वस्तिष्ठान् ममाध्यानान्यासां कीर्त्तयश्च न: ॥१॥
आ वर्त्तय नि वर्त्तयाभ्यावर्त्तया कुरु ।
इदमस्य सर्वा चित्तानि स्मरेण प्रचयामसि ॥२॥
स्मरं तपति मरुतः समिद्धे जातवेदसि ।
उदस्य पततां मनस्तदस्य रमतां मयि ॥३॥
गणपते गणपतिं मा कृणु तस्मान् मा यवम् ।
अपिगणा अपिगणं मा कृणु तस्मान् मा छित्सि ॥४॥
सगण सगणं मा कृणु तस्मान् मा न सम् ।
गणवर्धन गणं मे वर्धय गवामश्वानां पुरुषाणां ब्रह्मचारीणां भूत्या ऽन्नाद्यस्य ॥५॥
गणाभिवर्धन गणं मे ऽभिवर्धय गवामश्वानां पुरुषाणां ब्रह्मचारीणां भूत्या ऽन्नाद्यस्य ॥६॥
गण प्रवर्धन गणं मे प्रवर्धय गवामश्वानां पुरुषाणां ब्रह्मचारीणां भूत्या ऽन्नाद्यस्य ॥७॥
यच्च खातं यच्चाखातं सर्वं तदरसं विषम् ।
यच्च पिष्टं यच्चापिष्टं सर्वं तदरसं विषम् ॥८॥
यच्च दिग्धं यच्चादिग्धं सर्वं तदरसं विषम् ।
यथा वृका जग्धपुत्रा व्याग्रावालला भवेत् ॥९॥
एवात्वमरललाभ वा धीभिः प्रेषितो मम ।
यथा दीप्तं सरतूलमग्निना ललाभवेत् ॥१०॥
एवा त्वमरललाभ वा धीभिः प्रेषितो मम ।
आक्रन्दस्य ललाभ वाहस्य कामेन शुष्व च ।
एवा त्वमरललाभ आधीभिः प्रेषितो मम ॥११॥

५५
ययो: सर्वमिदमार्पितं वशेभूतं च भव्यं निमिशच्च चेष्टत ।
तौ मे गृहीतामुपद्रष्टारमत्र मास्योछेष्वयथावत् प्रजापते ॥१॥
यो मा वदन्तं हृदयेन वाचा वाचा श्रोत्रेण मनसाजिहृक्षात् ।
तमिन्द्रो देवो वरुणो बृहस्पतिरीशानो देवो अभि यातु मृत्युर्यथा न जीवादुषसं तृतीयान् ॥२॥
यो माजिहृक्षाद वहीयान् मन्यमानं इत्थं विद्वांसं प्रमतिर्मतीनाम्।
तमिन्द्रो देवो वरुणो बृहस्पतिरीशानो देवो अभियातु मृत्युर्यथा न जीवादुषसं तृतीयान् ॥३॥
प्रत्यग्वधेनास्या ऽपि दधामि प्राणं मोदानं विदथ माजिहृक्षात् ।
सो अस्यायुराछिनन्तु कुलिशे नेव वृक्ष यथा न जीवादुषसं तृतीयान् ॥४॥
यस्या अक्षरमेकमेवपरः सहस्रा अयुतं च शाखाः ।
तस्या वाचो विदथ मा वदन्तं यो माजिहृक्षात् सन्वेत्वार्त्तिम् ॥५॥
उषावादित्य मयीन्धस उषसौ वा उद्यत्सं उद्यन् प्रजाभ्यां अपत सोपत मोहत सोन्नाद्यव मारुन्ध ॥६॥
अपतो मोहतोन्नादो भवति य एवं वेद ।
वातो वा ऽग्नि मयीन्धस वातेनेन्धोज्वलत्सो दीप्यत सः ॥७॥
मनोमयी ब्राह्मणा मयीन्धस ब्रह्मचर्यमवसत्सवेदमन्ववपत सोपत मोहतसन्नाद्यव मारुन्ध ।
अपतो मोहतोन्नादो भवति य एवं वेद ॥८॥
होमेन प्रतरं प्रजापते दंपती परि ददामि पुष्ट्या ।
रायस्पोषं सवितर्नि यच्छ जरामृत्यु कृणुहि सर्ववीरौ ॥९॥
अयं होमो वर्धयन्नेतु दंपती प्रजावन्तौ पशुवन्तौ सुवीरौ ।
रायस्पोषं सवितर्नि यच्छ जरामृत्यु कृणुहि सर्ववीरौ ॥१०॥
गोमन्तं पशुवन्तमश्ववन्तं होमं दंपतीभ्यां जुहोमि।
रायस्पोषं सवितर्नि यच्छ जरामृत्यु कृणुहि सर्ववीरौ ॥११॥
जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥१२॥
उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम् ॥१३॥
संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम् ॥१४॥
जीवला स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥१५॥
प्रजापतेराकूतिरसि साहस्री पुष्टिः ।
प्रजापतेराकूत्याहं साहस्र्यां पुष्ट्यां साहस्रं पशून् पुषेयम् ॥१६॥शुन्
बृहस्पतेराकूतिरसि साहस्री पुष्टिः ।
बृहस्पतेराकूत्याहं साहस्र्यां पुष्ट्यां साहस्रं पशून् पुषेयम् ॥१७॥
ब्रह्मण आकूतिरसि साहस्री पुष्टिः ।
ब्रह्मण आकूत्याहं साहस्र्यां पुष्ट्यां साहस्रं पशून् पुषेयम् ॥१८॥पशु

५६
विराडसि विराजं मा कृणु तस्यास्ते यशो भक्षीय ॥१॥
स्वराडसि स्वराजं मा कृणु तस्यास्ते मधु भक्षीय ॥२॥
सम्राडसि सम्राजं मा कृणु तस्यास्ते अन्नं भक्षीय ॥३॥
वीर्यावता ते हविषा जुहोमि जीवातवे न मर्तवे ।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् ॥४॥
अभिवीरेण ते हविषा जुहोमि जीवातवे न मर्त्तवे ।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् ॥५॥
सुवीरेण ते हविषा जुहोमि जीवातवे न मर्त्तवे ।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् ॥६॥
सर्ववीरेण ते हविषा जुहोमि जीवातवे न मर्त्तवे।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् ॥७॥
प्रजावता ते हविषा जुहोमि गर्भमा धत्स्व योन्याम् ।
सुकाले जायतां पुनर्दशमे मासि सूतवे ॥८॥
सुप्रजसा ते हविषा जुहोमि गर्भमा धत्स्व योन्याम् ।
सुकाले जायतां पुनर्दशमेमासि सूतवे ॥९॥
सुपुत्रेण ते हविषा जुहोमि गर्भमा धत्स्व योन्याम् ।
सुकाले जायतां पुनर्दशमे मासि सूतवे ॥१०॥
भूतये ते हविषा जुहोमीमं देवासो ऽभि हिंकराथ ।
अस्मिन्नेव पशव: सं विशन्तु चतुष्पदामुत वा ये द्विपादः ॥११॥
वित्तये ते हविषा जुहोमीमं देवासो ऽभि हिङ्कराथ ।
अस्मिन्नेव पशवः सं विशन्तु चतुष्पदामुत वा ये द्विपादः ॥१२॥
सुवृद्धेन ते हविषा जुहोमीमं देवासो ऽभि हिङ्कराथ ।
अस्मिन्नेव पशव: सं विशन्तु चतुष्पदामुत वा ये द्विपादः ॥१३॥
संवृद्धेन ते हविषा जुहोमीमं देवासो ऽभि हिङ्कराथ ।
अस्मिन्नेव पशवः सं विशन्तु चतुष्पदामुत वा ये द्विपादः ॥१४॥
क्षेम्येण ते हविषा जुहोमि क्षेम्यो भवासि पशुभिश्च वीरैः ।
इन्द्राग्नि त्वा सयुजा सखायौ विश्वेभिर्देवैरनु सं दधेताम् ॥१५॥
प्रतिष्ठितेन ते हविषा जुहोमि प्रति तिष्ठासि पशुभिश्च वीरैः ।
इन्द्राग्नि त्वा सयुजा सखायौ विश्वेभिर्देवैरनु सं दधेताम्। ॥१६॥
संभूतेन ते हविषा जुहोमि सं भवासि पशुभिश्च वीरैः ।
इन्द्राग्नि त्वा सयुजा सखायौ विश्वेभिर्देवैरनु सं दधेताम् ॥१७॥
प्रभूतेन ते हविषा जुहोमि प्र प्रभासि पशुभिश्च वीरैः ।
इन्द्राग्नि त्वा सयुजा सखायौ विश्वेभिर्देवैरनु सं दधेताम् ॥१८॥
(इति त्र्यृचनाम ऊनविंशतिकाण्डे चतुर्दशो ऽनुवाकः )
इत्यथर्ववेदे पैप्पलादसंहितायां त्र्यृचनाम ऊनविंशति काण्डः

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP