संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|त्र्यृचनाम ऊनविंशति काण्डः| ११ ते १५ त्र्यृचनाम ऊनविंशति काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५६ ऊनविंशति काण्डः - ११ ते १५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १५ Translation - भाषांतर ११अश्वत्थो देव सदनस्तृतीयस्यामितो दिवि॥तत्रामृतस्य चक्षणं ततः कुष्ठो ऽजायत ॥१॥देवेभ्यो ऽधिजातो ऽसि सोमस्य सखा हित: ।स प्राणायपानाय चक्षुषे ऽस्य मृड ॥२॥अयस्मये द्रुपदे बेधिषे यदभिहितो मृत्युभिर्ये सहस्रम् ।यमो मह्यं पुनरित् त्वां ददाति तस्मै देवाय हविषा विधेम ॥३॥यत् ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविचृत्यम् ।तत् ते वि ष्याम्यायुषे बलायानमीवं पितुमद्धि प्रसूतः ॥४॥नमस्तु ते निर्ऋते विश्ववारे अयस्मयान् विचृता बन्धमेतम् ।यमेन त्वं पितृभिः संविदानोत्तमे नाके अधि रोहयेमम् ॥५॥आराद्रक्षांसि प्रति दह अग्ने मास्माकं तन्वमुप तीतपन्तु ॥६॥शर्वो वो ग्रीवा अशरीत् पिशाचाः पृष्टीर्वो ऽपि शृणात्वग्नि: ।विरुद् वो विश्वधा वीर्या मृत्युना समजीगमत् ॥७॥अपिशाचं नो अधरादपिशाचं न उत्तरात् ।इन्द्रापिशाचं नः पश्चादपिशाचं पुरस्कृधि ॥८॥इन्द्रश्चकारप्रथमो नैर्हस्तमसुरेभ्यः ।वृश्चामि शत्रूणां बाहून् अनेन हविषा वयम् ॥९॥निर्हस्तः शत्रुरभिदासन्नो ऽस्तु ये सेनाभिर्युधमायन्त्यस्मान् ।समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥१०॥अव मन्युरवायता अव बाहू मनोयुजा |पराशर त्वं तेषां पराञ्चं शुष्ममर्दयार्वाञ्चं रयिमा कृधि ॥११॥आतन्वाना आयच्छन्तोस्यन्तो ये व धावथ ।निर्हस्ता: शत्रवः स्थनेन्द्रो वो ऽद्य पराशरीत् ॥१२॥निर्हस्ताः सन्तु शत्रवो ऽङ्गैषां म्लापयामसि ।यथैषामिन्द्र वेदांसि यूथेसु वि भजामहै ॥१३॥निर्हस्तेभ्यो नैर्हस्तं यं देवा: शरुमस्यथ ।जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥१४॥१२शमीमश्वत्थ आरुढस्तत्र पुंसवनं कृतम् ।तदेव तस्य भेषजं यत् स्त्रीष्वाहरन्ति तम् ॥१॥पुंसि वै रेतो भवति तत् स्त्रियामनु षिच्यते ।तद् वै पुत्रस्य वेदनं तत् प्रजापतिरब्रवीत् ॥२॥प्रजापतिरन्वमंस्त सिनीवाल्यचीक्लृपत् ।स्त्रैषूयमन्यत्र दधत् पुमांसमु दधादिह ॥३॥अथो यमस्य पड्बीशाद् विश्वस्माद् देवदुष्कृतात् ॥५॥यच्चक्षुषा यन्मनसा यच्च वाचोपारिम यज्जाग्रतो यत् स्वपन्तः ।सोमो मा तस्मादेनसः स्वधया पुनातु विद्वान् ॥६॥अभिभूर्यज्ञो अभिभूरग्निरस्त्वभिभूः सोमो अभिभूरिन्द्रो अस्तु ।अभ्यहं विश्वाः पृतना यथासीदेवा विधेमाग्निहोत्रा इदं हविः ॥७॥स्वधास्तु मित्रावरुणा प्रजावत् क्षत्रं मधुनेह पिन्वतम् ।बाधेथां द्वेषो निर्ऋतिं पराचैरस्मै क्षत्रं वर्च आ धत्तमोजः ॥८॥इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सत्वानो अनु सं रभध्वम् ।ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥९॥अग्नेरिव प्रसितिरस्य शुष्मिण उतेव मत्तो विलपन्नपायति ।तस्मै तेरुणाय बभ्रवे तपुर्मघाय नमो ऽस्तु तक्मने ॥१०॥नमो यमाय नमो अस्तु मृत्यवे नमो राज्ञे वरुणाय त्विषीमते ।नमः क्षेत्रस्य पतये नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥११॥अयं यो जनान् हरितान् कृणोत्युच्छोचयन्नग्निरिवाभिदुन्वन् ।अधा हि तक्मन्नरसो हि भूया अधा न्यङ्ङ् अधराङ् वा परेहि ॥१२॥इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।चर्कत्य ईड्य: शंसस्वोपसद्यो नमस्यो भवेह ॥१३॥त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम् ।त्वं दैवीर्विश इमं वि राजायुष्मत् क्षत्रमजरं ते अस्तु ॥१४॥प्राच्यां दिशि त्वमिन्द्राधिराजोदीच्यां दिशि वृत्रहन् शत्रुहोसि ।यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभोसि हव्यः ॥१५॥(इति त्र्यृचनाम उनविंशतिकाण्डे तृतीयो अनुवाक: )१३अभि त्वेन्द्र वरिमत: पुरा त्वांहुरणेभ्य: ।ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् ॥१॥योऽद्य सेन्यो वधो जिघांसन् न उदीरते ।इन्द्रस्य तत्र बाहू समन्तं परि दध्महे ॥२॥परि दध्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः ।देव सवित: सोम राजन् सुमनसं मा कृणु तं स्वस्तये ॥३॥देवा अदुः सूर्यो अदाद् द्योरदात् पृथिव्यदात् ।सर्वाः सरस्वतीरदुः सचित्ता विषदूषणम् ॥४॥यद् वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् ।तेन देवप्रसूतेनेदं दूषयता विषम् ॥५॥असुराणामसि दुहिता देवानामसि स्वसा ।दिवस्पृथिव्या यज्ञिषे सा चकर्थारसं विषम् ॥६॥अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम्।बलासं सर्वं निष्कृध्यङ्गेष्ठा यश्च पर्वसु ॥७॥निर्बलासं बलासिनः क्षिणोमि पुष्करं यथा ।छिनद्म्यस्य वन्धनं मूलमुवार्वा यथा ॥८॥निर्वलासेत: प्र पत: सुपर्णो वसतेरिव ।अथी इट इव हायनोप द्राह्यवीरहा ॥९॥आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च ।यथाङ्गं वर्धतां ते शेपस्तेन योषितमिज्जहि ॥१०॥येना कृशमेधयन्ति येन हिन्वन्त्यातुरम् ।तेनास्य ब्रह्मणस्पते धनुरिवा तानया पस: ॥११॥आहं तनोमि ते पसो अधि ज्वामिव धन्वनि ।क्रमस्वर्श इव रोहितमनवग्लायता त्वम् ॥१२॥देवाः कपोत इषितो यदिच्छन् दूतो निर्ऋत्या इदमाजगाम ।तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥१३॥शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहे न: ।अग्निर्हि विप्रो जुषतां हविर्नः परि हेति: पक्षिणी नो वृणक्तु ॥१४॥हेतिः पक्षिणी न दभात्यस्मानाष्ट्री पदं कृणुते अग्निधाने ।शं नो गोभ्य उत पुरुषेभ्यो मा नो देवा इह हिंसीत् कपोत: ॥१५॥इषं मदन्त: परि गां नयाम: संयोपयन्तो दुरिता पदानि ।ऋचा कपोतं नुदत प्रणोदं हित्वा न ऊर्जं प्र पतात् पथिष्ठ: ॥१६॥नुदे त्वा प्र णुदे त्वा कपोत रक्षसा सह ।क्षणेन पुनरायासि तत्र त्वा गमयामसि ॥१७॥१४यथायं वाहो अश्विना समैति सं च वर्तते ।एवा मामभि ते मन: समैतु सं च वर्तताम् ॥१॥आहं खिदामि ते मनो राजाश्व: पृष्ट्यामिव ।रेष्मच्छिन्त्र यथा तृणं मयि ते वेष्टतां मन: ॥२॥आञ्जनस्य मधुघस्य कुष्ठस्य नलदस्य च ।तुरो भगस्य हस्याभ्यामनुरोधनमाभरे ॥३॥अयमा यात्यर्यमा पुरस्ताद् विषितस्तुप: ।स इच्छेदग्रुवै पतिमथो जायामजानये ॥४॥अश्रमदियमर्यमन्नन्यासां समनं यती ।अङ्गो न्वस्या अर्यमन्नन्याः समनमायति ॥५॥धाता दाधार पृथिवी धाता द्यामुत सूर्यम् ।धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥६॥मह्यमापो मधुमतेरयन्त मह्यं सूर्यो अभरज्ज्योतिषा कम् ।मह्यं देवा उत विश्वे तपोजा मह्यं देव: सविता व्यचो धात् ॥७॥अहं दाधार पृथिवीमुत द्यामहं सिन्धूनजनयं सप्त साकम् ।अहं सत्यमनृतं यद् वदाम्यहं वाचं परि सर्वाभि षिञ्चे ॥८॥अहं विव्यज्मि पृथिवीमुत द्यामहमृतूनसृजे सप्त साकम् ।अहं वाचं परि सर्वामभूवन् यो ऽग्नीषोमावजुषे सखायै ॥९॥अनडुद्भ्यो नः प्रथमं धेनुभ्यस्त्वमरुन्धति ।अधेनवे वयसे शर्म यच्छ चतुष्पदे ॥१०॥शर्म यच्छत्वोषधिः सह देवीररुन्धती ।करत् पयस्वन्तं गोष्ठमयक्ष्मां उत पूरुषान् ॥११॥विश्वरूपां सुभगामच्छावदामि जीवलाम् ।सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥१२॥यमो मृत्युरघमारो निर्ऋथो भवः शर्वोऽस्ता नीलशिखण्ड: ।भबःदेवजनाः सेनामुत्तस्थिवांसस्ते ऽस्माकं परि वृञ्जन्तु वीरान् ॥१३॥मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज़े भवाय ।नमस्येभ्यो नम एभ्य: कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥१४॥त्रायध्वं नो अघविषाभ्यो वधादग्नीषोमा मरुतः पूतदक्षाः ।विश्वे देवा मरुतो विश्ववेदसो वातापर्जन्ययोः सुमतौ स्याम ॥१५॥१५सं जानतां मनसा सं चिकित्वा मा यच्छत मन्युना दैव्येन ।मा घोषा उत्थाद् बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥१॥सं वो मनांसि सं व्रता समाकूतीर्नयामसि ।इमे ये विव्रता स्थन तान् व: सं ज्ञपयामसि ॥२॥संज्ञपनं वो मनसो अथो संज्ञपनं हृदः ।अथो भगस्य यच्छ्रान्तं तेन संज्ञपयाति वः ॥३॥सं वः पृच्यन्तां तन्वः सं मनांसि समु त्वचः ।सं वोयं ब्रह्मणस्पति: सोम: संज्ञपयाति वः ॥४॥संज्ञानं न: स्वेभ्य: संज्ञानमरणेभ्यः ।संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ॥५॥यथादित्या वसुभिः संबभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।एवा त्रिणामन्नहृणीयमान इमान् जनान्त्संमनसं कृणुत्वम् ॥६॥निरमुं नुद ओकसः सपत्नो यः पृतन्यति।निर्बाध्येन हविषेन्द्र एनं पराशरीत् ॥७॥इहि तिस्रः परावत इहि पञ्च जनाङ् अनु।इहि सप्ताति रोचना यावत् सूर्यो असद् दिवि ॥८॥परमां त्वा परावतमिन्द्रो देवो अजीगमत्।यथा न पुनरायसि शश्वतीभ्यः समाभ्यः ॥९॥प्रतीचीनो फलो हि त्वमपामार्ग बभूविथ।सर्वान् मच्छपथाङ्अधि वरीयो यावया त्वम् ॥१०॥अघद्विष्टा देवजूता वीरुच्छपथयोपनी।उद्गा मलमिवावानैः सर्वान्मच्छपथाङ् अधि ॥११॥यदेनं परिषीदन्ति समादधति चक्षसे।संप्रेद्धो अग्निर्जिह्वाभिरुदेति हृदयादधि ॥१२॥अग्नेः सांतपनस्याहमायुषे पदमा रभे।अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥१३॥यो स्यसमिधं वेद क्षत्रियेण समाहिताम्।नाभिह्वारे पदं नि दधाति स मृत्यवे ॥१४॥नैनं घ्नन्ति पर्यायिणो न सन्नाङ् अव गच्छति।अग्नेर्यः क्षत्रियो विद्वान्नाम गृह्णात्यायुषे ॥१५॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP