संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|त्र्यृचनाम ऊनविंशति काण्डः| २१ ते २५ त्र्यृचनाम ऊनविंशति काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५६ ऊनविंशति काण्डः - २१ ते २५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २१ ते २५ Translation - भाषांतर २१यथा सूर्यो नक्षत्राणां वर्चांसि युवते दिवः।एवा सपत्नानामहं वर्च इन्द्रियमा ददे ॥१॥यच्च वर्च: सपत्नानां भ्रातृव्येषु च यद् वसु ।तदिन्द्रो वृत्रहा धाता सविता दीधरन् मयि ॥२॥याश्च गावः सपत्नानां भ्रातृव्येषु च यद् वसु ।तं निर्येयमवजित्या सविता दीधरन् मयि ॥३॥सत्यमेव जयतु नानृतं सत्यस्य पन्था रुजुरस्तु साधु: ।सत्यं वदन्तः समिधे विधेम सत्येन द्यावापृथिवी अप्रचेताम् ॥४॥वाग्भागस्य च सत्येन रुद्रस्य सुमनस्य या॥इन्द्रेणाधिब्रुवता वयं वसु प्राशं विधेमहि ॥५॥या ते रुद्रेषिरा यता वाचि वाते अरङ्कृता ।येनेदं विविदामहे तस्य प्राशं त्वं जहि ॥६॥जहि त्वं तस्य प्राशमुतसत्योमुतानृताम् ।यो ऽस्मानिन्द्र वृत्रहन् वाचा प्राशं जिगीषति ॥७॥उत् पमैतु प्राणो वह्वीर्यसी देवं पृणः।उतो दिव स्म सिञ्चतां समुद्रस्येव मध्यतः ॥८॥समुद्रस्य शतधार: सहस्रधारो आ क्षितिः ।पुरस्तादिन्द्र आचरत् पूर्णो गोष्ठमिदं पृण: ।इहोप पृण संपृण वृष प्रजनना: कृधि ॥९॥ बृषइह गाव: प्र जायध्वमिहाश्वा इह पुरुषा: ।इहो सहस्र दक्षिणो अभिप्रासा वि षीदतु ॥१०॥ज्येष्ठघ्न्यै नक्षत्राणामह्ने रात्र्या इदं नम: ।जुहोमि विश्वकर्मणे स शिवो मृडयाति नः ॥११॥मा ज्येष्ठं वधीदयमग्निरेषां मूलबर्हणं परिवृणक्त्वेनम् ।ग्राह्या: पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥१२॥उन्मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्थिता येभिरासन् ।मायं हिंसी: पितरं वर्धमानो मा मातरं प्रमिनीर्या जनित्री ॥१३॥ग्राह्याः पाशान् वि चृत ये सिनन्ति यां ब्रह्मणा परिवृञ्चन्ति वेधसः ।उन्मुच पाशांस्त्वमग्न एषां तज्जातस्यानहरहस्तु भद्रम् ॥१४॥नि वर्तध्वं मानु गातास्मान् सिषक्त रेवतीः ।अग्नीषोमा पुनर्वसू अस्य वर्धयतं रयिम् ॥१५॥पुनरेना नि वर्तय पुनरेना उपा कुरु ।इन्द्र एना नि यछत्वग्निरेना उपाजतु ॥१६॥परि वो विश्वतो दध ऊर्जा घृतेन पयसा ।ये देवा: के च यज्ञियास्ते रय्या सं सृजन्तु माम् ॥१७॥२२नमो ऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।ये अन्तरिक्षे ये दिवि तेभ्य: सर्पेभ्यो नम: ॥१॥ये चामी रोचने दिवो ये च सूर्यस्य रश्मिषु ।येषामप्सु सदस्कृतं तेभ्य: सर्पेभ्यो नम: ॥२॥या इषवो यातुधानानां ये वा वनस्पतीनाम् ।ये वावटेषु शेरते तेभ्य: सर्पेभ्यो नम: ॥३॥यवोच्छिष्ट हविषा वर्धयेमं यथा द्युम्नैः कृणुवद् वीर्याणि ।सजूर्देवेभिरभि भूः सपत्नान् आयुष्मत् क्षत्रमजरं ते अस्तु ॥४॥पुंसा यवेन हविषा पयस्वतोच्छिष्टस्यायं रक्षन्तु देवाः ।देवाह्यस्मिन् निदधुर्नृम्णं बृहदस्मादिन्द्रो वयो दधातु ॥५॥समुच्छिष्टस्य हविषा समुक्थै समायुषा वर्चसा पयो दधातु ।देवाह्यस्मिन् निदधुर्नृम्णं बृहदस्मादिन्द्रो वयो दधातु ॥६॥वायुरेना: समाकरत् त्वष्टा पोषाय ध्रियताम् ।इन्द्र आभ्यो अधि ब्रुवद् रुद्रो भूम्ने चिकित्सतु ॥७॥यथा चकुर्देवा असुरा यथा मनुष्या उत ।एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥८॥लोहितेन स्वधितिना मिथुनं कर्णयो: कृधि ।अकर्तामश्विनालक्ष्म तदस्तु प्रजया बहु ॥९॥कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत् पतन्ति ।आा च वर्तन्ते सदनादृतस्यादिद् घृतेन पृथिवीं व्युद्यते ॥१०॥पयस्वती: कृणुथाप ओषधीरिमा यदेजथा मरुतो रुक्मवक्षस: ।ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चता मधु ॥११॥सूमतिंउदप्लुतो मरुतस्तां इयर्त वृष्टिर्यद् विश्वा निवतस्पृणाथ ।एजाति गल्हा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥१२॥त्वष्टेव पूषे सूर्यो दमुनामहि स्वस्तिर्वृषणा न आगन् ।विश्वा आशा सुयवसा संरराणो ऽस्या रय्याः पुरएता न एहि ॥१३॥एह यन्तु मधुमद्युहाना अनमीवा उषतीर्विश्वरूपाः ।बह्वीर्भवन्तीरुपजायमानो इहेन्द्रो वो रमयतु गावः ॥१४॥रूपप्रजापतिर्जनयतु प्रजा इमास्त्वष्टा दधातु सुमनस्यमान: ।संवत्सर ऋतुभि: संविदानो मयि पुष्टिं पुष्टिपतिर्दधातु ॥१५॥२३सहसी नाम वा असि सहसस्परि यज्ञिषे ।सहस्वानिन्द्रो देवेषु सहसे त्वा खनामसि ॥१॥सहस्येन भेषजेन दिव्येन शतपर्वणा ।तेन सहस्र काण्डेन कृणोमि पुनराभृतम् ! ॥२॥सहसो ऽहं भेषजस्य दिव्यस्य नाम जग्रभ ।व्याशिष इव तस्थिरे यक्ष्मासः पुरुषादधि ॥३॥अपेत एतु निर्ऋतिर्नेहास्यापि किं चन ।अपास्यां सत्वन: पाशान् मृत्युनेकशतं नुदे ॥४॥ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे ।तांस्ते यज्ञस्य मायया सर्वाङ् अप यजामसि ॥५॥निरितो यन्तु नैर्ऋत्या मृत्योव एकशतं पर: ।सेधान्मैषां यत्तम: प्राणान् ज्योतिश्च दध्महे ॥६॥त्रिषप्ता वारणा इमास्ताभिर्मामिन्द्रो अब्रवीत् ।विषं वारयतादिति विषं दूषयतादिति ॥७॥अप ब्रूतेदं मरुतो महीन्द्रस्यापवाचनी ।एषां सहस्रमर्हत्येषां वारयते विषम ॥८॥अस्थाद् द्यौरस्थात् पृथिव्यस्थाद् विश्वमिदं जगत् ।अस्थुर्विषस्याभीतय: प्रतिकूल इवाबला: ॥९॥यथा वाण: सुसंशित: परापतत्याशुमत् ।एवा कासे परापतत् साकं वातस्य ध्राज्या ॥१०॥यथा चक्षुश्चक्षुष्मतः परापतति केतुमत् ।एवा कासे परापतत् साकं सूर्यस्य रश्मिभिः ॥११॥यथा मदो मन्युमतां परा पतति योजनम् ।एवा कासे परापतत् समुद्रस्यानु विक्षरम् ॥१२॥इत एवाव गच्छतोग्रा भवतु माबला: ।ह्वयन्तु सर्वे वो देवाः सर्वा वो वृण्वतां विशः ॥१३॥यदवगमेन हविषाव वी गमयामसि ।अत्रा त इन्द्र: केवलिर्विशी बलिहृतस्करत् ॥१४॥ केबलिइन्द्रः कश्यप आदग्निरिडा तुरिया व: सखा ।यद् भूतं भव्यमसुन्वत् तेनाव गमयामिव ॥१५॥२४न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।यं भेषजस्य गुग्गुलो: सुरभिर्गन्धो ऽश्नुते ॥१॥यं गुग्गुलोर्भेषजस्य सुरभिर्गन्धो ऽश्नुते ।विश्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते ॥२॥यद् गुग्गुलु सैन्धवं यद् वाघासि समुद्रियम् ।उभयोरग्रभं नामास्मा अरिष्टतातये ॥३॥देवा एतं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानव: ॥४॥बृहत् पलाशे सुभग उर्ध्वस्वप्न ऋतावरि ।मातेव पुत्रेभ्यो मृड केशेभ्यो न: शमि ॥५॥यस्ते मदोवकेशो यो विकेशो येनाभिहस्यं पुरुषं कृणोषि ।भृणघ्नो विरुवारा चर त्वं तस्य ते प्रजयाः प्र सुवामि केशान ॥६॥आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥७॥आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।अथो भगस्य नो धेह्यथो नः सुभगो भव ॥८॥बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् ।यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥९॥मनो न्वा हुवामहे नाराशंसेन स्तोमेन ।पितॄणां च मन्मभिः ॥१०॥आा न एतु मन: पुनः क्रत्वे दक्षाय जीवसे ।ज्योक् च सूर्यं दृशे ॥११॥पुनर्नः पितरो मनो ददातु दैव्यो जनः । पनजीवं व्रातं सचेमहि ॥१२॥वयं सोम व्रते तव मनस्तनूषु बिभ्रतः ।प्रजावन्त: सचेमहि ॥१३॥वर्चो मे मित्रावरुणा वर्चो देवी सरस्वती ।वर्चो मे अश्विनोभा धत्तां पुष्कर स्रजा ॥१४॥यच्च वर्चो यजमाने यच्च यज्ञेध्याहितम् ।सुरायां बभ्रु यद् वर्चस्तस्य भक्षीय वर्चसः ॥१५॥या उत्सेभ्यः प्रस्रवन्ति दिवोधारा नदीभ्यः ।तासां त्वा सर्वासामपामभि सिञ्चामि वर्चसा ॥१६॥यद्राजानं शकधूमं नक्षत्राण्यकृण्वत ।भद्राहमस्मै प्रायच्छन् ततो राष्ट्रमजायत ॥१७॥भद्राहमस्तु नः सायं भद्राहं प्रातरस्तु नः ।भद्राहमस्मभ्यं त्वं शकधूम सदा कृणु ॥१८॥यो नो भद्राहमकरत् सायं प्रातरथो दिवा ।तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥१९॥यदाहु: शकधूमं महा नक्षत्राणां प्रथमजं ज्योतिरग्रे ।तन्नः सतीं मधुमतीं कृणोतु रयिं च न सर्ववीरं नि यच्छात् ॥२०॥(ह्रति त्र्यृचनाम उनविंशतिकाण्डे षष्ठोऽनुवाकः )२५यूपेरन्ते विद्वेषणं देवानां वर्चसा कृतम् ।अग्निर्वामस्त्वन्तरा यथा वां न सहासति ॥१॥यथाहिं द्वेष्टि पूरुषो ऽहिर्वा द्वेष्टि पूरुषम् ।अग्निर्वामस्त्वन्तरा यथा वां न सहासति ॥२॥नानानं वामाकूतानि नाना चित्तानि सन्तु वाम् ।विश्वञ्चौ पर्यावर्तयेथां यथा वां न सहासति ॥३॥अडदेकमडद्दवे तुण्डे न मशीतकं भङ्गलापतेद् वः ।एतद् यत् ते यद् वा न चासन् नो च ते भूवत् ॥४॥स्वप्ने वित्तं यथा धनं नश्याद्यदेति रेचितम् ।आगिलो गिला पापाजितो गिल नश्यात् ब्रध्नकमभिकम् ॥५॥दीर्घायुत्वाय सहसे मह्या अरिष्टतातये ।सुपर्णो मह्यमब्रवीदेतदाश्लिष्ट भेषजम ॥६॥सक्तुर्नवति तुतउना पुनन्तो विद्वांसो वाचमग्रत ।अङ्गेभ्यो विश्वाङ्गेभ्यः प्र ते छिनद्भ्यांश्लिष्टम् ॥७॥अवछिन्द्याश्लिष्टं ऊर्वा ह्यसि भेषजी ।दिव्यः सुपर्णो अब्रवीदेतदाश्लिष्ट भेषजम् ॥८॥अभिभूरहमागमं विश्वकर्मास्यायुज: ।अहं मित्रस्य कल्पयन् आाश्वाश्वासुदुष्टर: ॥९॥अहं समित्ययनो अहं विशां पुरोहितः ।अहं मित्राणि कल्पयन्मयि वागस्तु धरुण्यसि ॥१०॥आवश्चक्षुरावो वाचमा व: समितिं ददे ।योगक्षेमं व आदायाहं भूम्यासमुत्तमः ॥११॥ब्रह्मणाग्नि: संविदानो रक्षोहा नुदतामित:।अरायो यस्ते तन्वां दुर्णामा योनिमाशये ॥१२॥यस्तेराया तन्वां दुर्णामा योनिमाशये ।अग्निष्टं ब्रह्मणा युजा रक्षोहा नुदतामित: ॥१३॥यान्यृत्व्यानि रक्षांसि येराया यातुधाना: ।अग्निष्टान् शग्मया तन्वा रक्षहा पातु तेभ्यः ॥१४॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP