संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|त्र्यृचनाम ऊनविंशति काण्डः| ६ ते १० त्र्यृचनाम ऊनविंशति काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५६ ऊनविंशति काण्डः - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६वरणो वारयाता अयं देवो वनस्पतिः ।यक्ष्मो यो अस्मिन्नाविष्टस्तमु देवा अवीवरन् ॥१॥इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च ।देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः ।एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।अत्रा त इन्द्र: केवलीर्विशो बलिहृतस्करत् ॥४॥केबलीआ त्चाहार्षमन्तरभूर्युवस्तिष्ठाविचाचलत् ।विशस्त्वा सर्वा आ यन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥५॥इहैवैधि माप च्योष्ठा: पर्वत इवाविचाचलि ।इन्द्रेह ध्रुवस्तिष्ठेह राष्ट्रं नि धारय ॥६॥इन्द्र एतमदीधरद् ध्रुवं ध्रुवेण हविषा ।तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥७॥ध्रुवं ते देव: सविता ध्रुवं देवो बृहस्पतिः ।ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥८॥ध्रुवा द्यौर्ध्रुवा पृथिवी समुद्राः पर्वता ध्रुवाः ।देवा ह धर्मणा ध्रुवा ध्रुवो राजा विशामयम् ॥९॥वृषेन्द्रस्य वृषा दिवो वृषा पृथिव्या अयम् ।वृषा विश्वस्य भूतस्य त्वमेको वृषो भव ॥१०॥समुद्र ईशे स्रवतामग्निः पृथिव्या वशी ।सूर्यो नक्षत्राणामीशे त्वमेकवृषो भव ॥११॥सम्राडस्यसुराणां ककुन्मनुष्याणाम् ।देवानामर्थभागसि त्वमेको वृषो भव ॥१२॥परि वर्त्मान्येषामिन्द्रः पूषा चं सस्त्रतुः ।मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१३॥मुग्धा अमित्राश्चरत आशीर्षाण इवाहय: ।अथैषामग्निरुद्धानामिन्द्रो हन्तु वरंवरम् ॥१४॥ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।पराङ् अमित्र एषत्वर्वाची गौरुपेषतु ॥१५॥७संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ ।इडस्पदे समिध्यसे स नो वसून्या भर ॥१॥सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ।देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥समानो मन्त्र: समिति: समानी समानं चित्तं सह वो मनांसि ।समानेन वो हविषा जुहोमि यथा संमनसो स थ ॥३॥समानो मन्त्रः समितिः समानी समानं मन: सह चित्तमेषाम् ।समानं मन्त्रमभिमन्त्रये व: समानमेषां हविषा जुहोमि ॥४॥उत् सूर्यो दिव एति पुरो विश्वा निजूर्वन् ।आदित्यः पर्वताङ् अभि विश्वदृष्टो अदृष्टहा ॥५॥आयुर्विदं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।आहार्षं विश्वभेषजीमस्यादृष्टान् नि शमयत् ॥६॥नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।नि केतवो जनानां न्यदृष्टा अलिप्सत ॥७॥हिमवतः प्र स्रवत ता: सिन्धुमपि गच्छत ।आपो घ मह्यं तद् देवीर्ददन् हद्द्योतभेषजम् ॥८॥यदक्षीभ्यामादिद्योत पार्ष्णिभ्यां हृदयेन च।आपस्तत् सर्वं निष्करन् त्वष्टारिष्टमिवानशत् ॥९॥सिन्धुराज्ञै: सिन्धुपत्नीः सर्वा या नद्य स्थन: ।दत्त नस्तस्य भेषजं तेन वो भुनजामहै ॥१०॥ भूनजापुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥११॥पुनातु मा पवमान: क्रत्वे दक्षाय जीवसे ।ज्योक् च सूर्यं दृशे ॥१२॥उभाभ्यां देव सवित: पवित्रेण सवेन च ।अस्मान् पुनीहि चक्षसे ॥१३॥ईर्ष्याया ध्राजिं प्रथमामधमामुत्तमामुत ।मन्युं हृदय्यं शोकं तं ते निर्मन्त्रयामहे ॥१४॥एतद्यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥१५॥यथा भूमिर्मृतमना मृतान्मृतमनस्तरा ।यथोत ममुषो मन एवेर्ष्योर्मृतं मन: ॥१६॥८द्यौश्व मा पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणा मा पिपर्तु ।अनु स्वधा चिकितां सोमो अग्निर्वायुर्मा पातु सविता भगश्च ॥१॥पुनर्मन: पुनरायुर्न आगन् पुनश्चक्षुः पुनराकूतिरागन् !वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितादवद्यात् ॥२॥सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।त्वष्टा सुदत्रो वरिवः कृणोत्वनु नो मार्ष्टु तन्वो विरिष्टम् ॥३॥इदं तद्युज उत्तरं येनेन्द्रं शुम्भाम्यष्टये ।अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥४॥अस्य क्षत्रमग्नीषोमावस्य वर्धयतं रयिम् ।इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥५॥सबन्धुश्चासबन्धुश्च यो जातो यश्च निष्ट्यः ।यजमानाय शुन्धते सर्वं तं रीरधासि नः ॥६॥यशो बृहद् वर्धतामिन्द्रजूतं सहस्रभृष्टि: सुकृतं सहस्वत् । र्वर्धताप्रसर्स्राणमनु दीर्घाय जीवसे हविष्मन्तं वर्धय सर्वतातये ॥७॥यशा इन्द्रो यशा अग्निर्यशा: सोमो अजायत ।यशा विश्वस्य भूतस्याहमस्मि यशस्तम: ॥८॥वयं ते अग्ने यशसो यशोभिर्यशस्विनो हविषैना विधेम ।स नो देहि राष्ट्रमिन्द्रजूतं तव ते रातौ अधिवाके स्याम ॥९॥अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः ।यथा संमनसौ भूत्वा सखिकेव सचावहै ॥१०॥वि ते मन्युं नयामसि सखिकेव सचावहै ।अधस्ते अश्मना मन्युं गुरुणापि नि दध्मसि ॥११॥अभि तिष्ठामि ते मन्युं पार्ष्णिभ्यां प्रपदाभ्याम् ।परा ते दंष्ट्रिणं वधं परा मन्युं सुवामि ते ॥१२॥ बधंहिरण्मयः पन्था आसीदरित्राणि हिरण्मया ।नावो हिरण्मयीरासन् याभिः कुष्ठं निरावहन् ॥१३॥सुपर्णसुवने गिरौ जातं हिमवतस्परि ।धनैरभि श्रुतं यन्ति कुष्ठे हि तक्मनाशन ॥१४॥यो गिरिषु जायसे वीरुधां बलवत्तमः ।कुष्ठेहि तक्मनाशन तक्मानं नाशयन्नितः ॥१५॥(इति त्र्यृचनाम ऊनविंशतिकाण्डे द्वितीयो ऽनुवाकः)९इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः ।तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥१॥इहैव पन्था बहवो देवयाना अनु द्यावापृथिवी संचरन्ति ।तेषामज्यानिं यतमो न आवहत्तस्मै नो देवा: परि धत्तेह सर्वे ॥२ ॥जतमोशरद्धेमन्त: शिशिरो वसन्तो ग्रीष्मो वर्षाः स्विते नो दधात ।आ नो गोषु भजतौषधीषु निवात इद् वः शरणे स्याम ॥३॥वैश्वानर: न ऊतय आ प्र यातु परावतः ।अग्निरुक्थैर्नो अंहस: ॥४॥वैश्वानरो नो आगमदिमं यज्ञं सजूः ।उपेमं सुष्टुतिं मम ॥५॥वैश्वानरो नो अङ्गिरोभिस्तोमं यज्ञं च चाक्लृपत् ।ऐषु द्युम्नं स्वर्यमत् ॥६॥अजैषं त्वा संलिखितमजैषमुत संरुधम् ।अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥७॥यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति ।एवाहममुं कितवमक्षैर्बध्यासमप्रति ॥८॥तुराणामतुराणां विशां देवयतीनाम् ।समैतु विश्वतो भागो अन्तर्हस्तं कृतं मम: ॥९॥यावद्द्यौर्यावत् पृथिवी यावदाभाति सूर्यः । द्यौर्यातावत्सृजामि ते विषं यावदर्षन्ति सिन्धवः ॥१०॥उच्छवसन्त उदीरते गावो अवसथादिव ।अहीनां पश्यता विषमपवक्ता न विद्यते ॥११॥आ जघान पृथग्धनुः सङ्गथे धमनीनाम्।मूर्धन्यं विषमास्कद्याङ्गानि व्यसिस्रसत् ॥१२॥मा नो देवा अहिर्वधीत् सतोकान्सहपूरुषान् ।संयतं न वि ष्वरद् व्यात्तं न सं यमत् ॥१३॥सं ते ददामि दद्भिर्दत: सं ते हन्वा हनू ।सं ते जिह्वया जिह्वां संत्वास्नाह आस्यम् ॥१४॥नमो ऽहये असिताय नमस्तिरश्चिराजये ।स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥१५॥१०मनसे चेतसे धिय आकूतय उत चित्तये ।मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥१॥प्राणायपानाय व्यानाय भूरिरेतसे ।सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥२॥मानो हासिषुर्ऋषयो दैव्यासस्तनूपावानः शुचयस्तपोजाः । शूचअमर्त्या मर्त्याङ् अभि नः सचध्वमायुर्नः प्रतरं जीवसे धुः ॥३॥इदमिद् वा उ भेषजमिदं रुद्रस्य भेषजम् ।येनेषुमेकतेजनां शतशल्यामपब्रुवत् ॥४॥जालाषेणाभि षिञ्चत जालाषेणोप षिञ्चत॥जालाषे भद्रं भेषजं तस्य नो धत्त जीवसे ॥५॥शं च नो मयश्च नो मा च नः किं चनाममत् ।क्षमा रपो विश्वं नो ऽस्तु भेषजम ॥६॥यशसं मेन्द्रो मघवान् कृणोतु यशसं सोमो वरुणो वायुरग्नि:।यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया स्यामहम् ॥७॥यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु ।यथा विश्वेषु देवेष्वेवा देवेषु यशस: स्याम ॥८॥अच्छा वयमिन्द्रं यशसं यशोभिर्यशस्विनो हविषैना विधेम ।स नो दधद्राष्ट्रमिन्द्रजूतं तस्य राते अधिवाके स्याम ॥९॥एह यातु वरुणः सोम अग्निर्बृहस्पतिर्वसुभिरेह यातु ।अस्य श्रियमभिसंजात सर्व उग्रस्य चेत: संमनसः सजाताः ॥१०॥एह यातु माप याताध्यस्मत् पूषा व: परस्तादपथं कृणोतु ।वास्तोष्पतिरनु वो ऽयमह्वन् मयि सजाता रमतिर्वो अस्तु ॥११॥यो वः शुष्मो हृदयेष्वन्तर्या आक्फूतिर्मनसि प्रविष्टा ।तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ।१२॥मम चित्तः प्रयव मन्युते हेन्द्राग्न्योरिव हवमेत सर्वे ।बृहस्पतिर्वो नि युनक्तु मह्यं मम वाचमेकचित्ताः सचध्वम् ॥१३॥अहं गृह्वामि मनसा मनांसि मम चित्तमुप चित्तेभिरेत ।मम वशे हृदयं वः कृणोमि मम यातमनुवर्त्मान एत ॥१४॥मां वश्चक्षुर्गच्छतु मां प्राणो धाता पदमनुवर्त्म वः कृणोतु ।ये वो महान्त उत ये कुमारा मम यातमनु यातेभिरेत ॥१५॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP