संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|त्र्यृचनाम ऊनविंशति काण्डः| २६ ते ३० त्र्यृचनाम ऊनविंशति काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५६ ऊनविंशति काण्डः - २६ ते ३० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २६ ते ३० Translation - भाषांतर २६अग्निश्च देव सवितरिषमूर्जं दधानौ ।पातं मा दुश्चरितादा मा सुचरिते भजतं युवयरवसा सुम्नमशीय ॥१॥इदं तदुप युव इदं तदुप ह्वये यच्छुश्रुमा त्वत् परि ।वाचस्पतिर्नियच्छतु मय्येवास्तु ममाश्रुतम् ॥२॥माप ज्यायस्ते अकरन् मा श्रुतेन वि राधिषि ।अमोघमस्माकं श्रान्तमग्ने द्रविणवत्कृधि ॥३॥मध्यमेष्ठा वर्चस्वत्यायुषे वर्चसे कृतम् ।वनुष्व विश्वदेवेषु वनुष्व त्वं बृहस्पतौ ॥४॥घृतेन प्रजां वनुते घृतेन रयिमश्नुते ।घृतेनायुष्यं वर्चस्यं देवेभ्यो वनुते परि ॥५॥पर्जन्य पिप्पलास्तुभ्यं नद्यो गर्भं स्वस्तये ।मर्यादा ब्रह्मदेवयीरायुष्यं वर्चसा सिचम् ॥६॥यथा हस्ती हस्तिन्या: पदेन पदमन्वगात् ।एवा त्वमग्ने वर्चस्य पदेन पदमन्विहि ॥७॥यथा रथस्य चक्रेण विपथ: पांसुमस्याथ: ।एवा ह मनो व्यस्यामि हृदं संवननाय कम् ॥८॥इन्द्रस्य प्रथमं वचो देवानामपर वच:॥तृतीयमश्विनोर्वचस्तेन गां वानयामसि ॥९॥उदितः शयावौ विथुरौ दिवं गृध्राविवेयथुः ।शोचनावभिशोचनावस्योच्छोचनौ हृद: ॥१०॥शोचयाभिशोचया दीपयोप दीपय: !अहेरग्ने विषं त्वं तृणमिव कल्वलं दह ॥११॥सीदतं निसक्ताराववेतं मोङ्कतम् ।कृष्णा वां गौ: सारस्वती ॥१२॥यथारात्री कृष्णतमा गौः कृष्णा कृष्णवर्त्मनी ।शाची: पूर्वो यथा रूपमेवेदं मामकं शिरः ॥१३॥यथाङ्गरोभिषिक्तो दर्विदाको यथासितः ।अनुस्यन्दस्य कल्मषमेवेदं मामकं शिर: ॥१४ ; :यथा दावाद् दह्यमानात्कृष्णो ज्वालोपध्वंसते ।नैषांन्यस्य यथा मुखमेवेदं मामकं शिरः ॥१५॥२७यत् किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुर्भि: ।तन्मृत्युना निर्ऋति: संविदाना पुरा दृष्टादाज्यं हन्त्वस्य ॥१॥यातुधाना निर्ऋतिरादु रक्षस्ते ऽस्यघ्नन्त्वनृतेन सत्यम्।इन्द्रेषिता आज्यमस्य मथ्नन्तु मा तत् सं पादि यदसौ जुहोति ॥२॥परित्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।भिषग्वर्णं दिवेदिवे हन्तारं भङ्गुरावतम् ॥३॥स्वर्जिदधिराजौ श्वेनौ संपातिनाविव ।आज्यं पृतन्यतो हतां यो ऽस्मान् पृतनायति ॥४॥पृथिव्यै वनस्पतिभ्य ओषधीभ्यो ऽग्नये ऽधिपतये स्वाहा ॥५॥अन्तरिक्षाय प्राणाय वातेभ्यो वायवे ऽधिपतये स्वाहा ॥६॥दिवे चक्षुषे नक्षत्रेभ्य: सुर्याया ऽधिपतये स्वाहा ॥७॥क्षुसेपिप्पल्य: समवदन्तायतीर्जननादधि ।यं जीवमश्नवामहै न स रिष्याति पूरुष: ॥८॥पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी ।तां देवा: समकल्पयनलं जीवितवा इति ॥९॥असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुन: ।वातीकृतस्य भेषजी पिप्पलीक्षिप्त भेषजी ॥१०॥यदुलूको वदति मोघमेतद्यत् कपोतः पदमग्नौ कृणोति ।यस्य दूतौ प्रहिताविदमेजथुस्तस्मै यमाय नमो ऽस्तु मृत्यवे ॥११॥यस्ते दूतो निर्ऋत आजगामाप्रहितः प्रहितो वा गृहं न: ।कपोतोलूकावपदन्तदस्त्ववैरहत्यामिदमाजगन्थसुवीरताया इदमा ससद्यात् तस्मै यमाय नमो ऽस्तु मृत्यवे ॥१२॥य: प्रथम: प्रवतमाससाद्य बहुभ्य: पन्थामनुपस्पशान: ।य ईशे ऽस्य द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो ऽस्तु मृत्यवे ॥१३॥यथासित: प्रथयते वशां अनु वपूंषि कृण्वन्नसुरस्य मायया ।एवा मे शेपः सहसायमर्को एनाङ्गेन संसमकं कृणोतु ॥१४॥यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत् ।यावदश्वस्य वाजिनस्तावन् मे वर्धतां पसः ॥१५॥यथा पसस्तायादरं वातेन स्थूलभं कृतम् ।यावत् परस्वतः पसस्तावन् मे वर्धतां पसः ॥१६॥२८यस्येदमा रजो युजस्तुजे जनं वनं स्व: ।इन्द्रस्य नाधृषे शव: ॥१॥धृषाणो धृषित: शव: पुरा यथा यतिष्ठन् ।इन्द्रस्य रन्त्यरियं महत् ॥२॥स नो ददातु नो रयिमुरुं पिशङ्ग संदृशम् ।इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥आयुरग्नि इहा वहाज्जातवेदास्तनू वशिन् ।यथाहं योग्जीव ऽसानि प्रजानामधिपावशी ॥४॥आयुरिन्द्रो दधातु मे आयुर्देवो बृहस्पति: ।आयुर्मे विश्वे देवा अहोरात्रे च चक्रतु: ॥५॥आयुरायुस्या पततां प्राणं प्राणो दधातु मे ।देवा यच्चक्रुर्देवेभ्य: स्वर्यन्तो यथायथम् ॥६॥उत् पतन्तुर्नभस्वती समुद्रादधि घोषिणी ।उच्चा समुद्रिया आपस्ताभिष्ट्वा तर्पयामसि ॥७॥या आपो दिव्या या वातात् परियज्ञिरे ।इन्द्रो मरुत्वांस्तप्तात्माताभिष्ट्वा तर्पयामसि ॥८॥या: शुष्का या हरिणीर्याभूमि मनुवा दधु ।सर्वा: समग्रा ओषधीस्ताभिष्ट्वा तर्पयामसि ॥९॥आ नो मेधा सुमतिर्विश्वरूपा गिरो बृंहतीरावेशयन्ती ।रुचो मे बह्वीर्नि युनक्तु गावो यथासाम भूवनेषु कर्ण न: ॥१०॥वह्वीदीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्या स योनिः ।वेदांसि विद्यामयुजन्त बह्वीरग्नीषोमौ यशो अस्मासु धत्तम् ॥११॥वह्वीयदग्ने तपसा तप उपप्रेक्षामहे वयम् ।प्रियाः श्रुतस्य भूयास्मायुष्मन्त: सुमेधसः ॥१२॥यस्त्वा मातुरुत वा पितुः परिजायमानमभिसंबभूव ।तं त्वद्यक्ष्मोमधिनाशयाम: सो ऽन्यस्मिंच्छ्रयातै: प्रविष्ट: ॥१३॥यस्ते यक्ष्मो हृदयेष्ठो नाभिष्टवा उदरंगमः ।अथो यः शिश्रिये परे तं त्वद्यक्ष्मोमधिनाशयाम: सो ऽन्यस्मिच्छ्रयातैः प्रविष्टः ॥१४॥शीर्षरोगमङ्गरोगं संस्रावणं विबर्हणमभिशाचं विसल्पकम् ।यस्ते यक्ष्मो मज्जसु परुषु यो गुदासु तं त्वद्यक्ष्मोमाधिनाशयाम: सो ऽन्यस्मिच्छ्रयातैः प्रविष्ट: ॥१५॥(इति त्र्यृचनाम ऊनविंशतिकाण्डे सप्तमो ऽनुवाक: )२९अग्निरक्षोहा तिग्मस्तिग्मशृङ्गो हन्तु रक्षो नुदतामरातिम् ।अपाघशंसमस्यतु ॥१॥आ न एतु परावतो बलमोजो दिवस्परि ।आा गिरिभ्य: पर्वतेभ्य आयुष्टे विश्वतो दधत् ॥२॥पुनस्ते ऽसुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् ।पुनस्ते सोमस्तन्वं ददातु पुन: पूषा पथ्यां या: स्वस्ति: ॥३॥कष्कषाः कर्षिपिषा: पिष्टा येवाषायेवषा: ।इष्टर्गवेषयन्त: सैकता: पांशवा: ॥४॥अदृष्टान्नदृष्टान् ।दृष्टा ङ् अदृष्टान्धनपते जहीन्द्रस्य वधेन ॥५॥एताश्च विश्वरूपाश्च गृध्रा: कोकाश्च ते हता: ।कामे कामयस्व मा प्रतीची: प्रती मा भव ॥६॥मामनु प्रते मनो वत्सा पाकेव धावतु ।अभिले अभिमादन्यसौमामभिमाद्यतु ॥७॥विद्म पतत्त्रिण्यवर्यमिषुके नामकं तव ।अहं ते मन आ ददे मनो मनोमुषिर्यथा ॥८॥मयि ते मन आहितं रथ इव रथवाहने ।उदसौ सूर्यो अगान्मह्यमवतुना सह ॥९॥अहं विशां पुरोहितो मधुहस्तो मधुजिह्वोः ।मयि वागस्तु धरुण्यसी ॥१०॥अहं विश्येन केतुना समक्ष्ये मानुषेष्वा ।अस्माकमस्तु केवलं बृहद्यशो अधि विश्वेषु राजसु । वृहद्यस्वादोश्चिन् मा स्वादीयांसं मधोश्चिन् मधुमत्तरम् ॥११॥प्रियाच्चित्सख्युरन्तरमादित्यास: कृणोतु मा ।अग्ने ब्रह्म त्वं ब्रह्मासि विद्धि त्वं प्रास्मभ्यं ब्रूहि ॥१२॥यदीदं तथा भविष्यसि यदि वा नामथैतस्य हविषोविहि स्वाहा ॥१३॥वि पृच्छे द्यावापृथिवी वीन्द्रं वि बृहस्पतिम् ।वि देवान् यज्ञियान् पृच्छे व्यसं जीवनाय कम् ॥१४॥विज्ञानायोद्यतः प्रस्तुत: सुगं यम राजन् हविरिदं जुषस्व ।अगतासोरिहविषो मादयस्व निर्ऋतिं गच्छतु यं गतासोः ॥१५॥३०य त्वां मांसे अपववौ यन् मन्थे यदोदने।अग्निष्ट्वा विश्वभेषजस्तस्मात् पात्वंहसः ॥१॥यस्त्वावातो आ वात्वधरादुत्तरादुत ।आपो या विश्वशंभुवस्तास्त्वा पात्वंहस: ॥२॥अपत्वं मृत्युं निर्ऋतिमपयक्ष्मं नि दध्मसि ।यथात्वमरपो अस उदोजा उत्तरो भव ॥३॥वैश्वानरो रश्मिभिर्न: पुनातु वातः प्राणेनेषिरो नमोभि: । रस्मिद्यावापृथिवी पयसा पयस्वती ऋतवारी यज्ञिये मा पुनीताम् ॥४॥प्रजापतिर्ऋतुभिः पञ्चभि: संवत्सरो धामभिः पातु विश्वै: ।इहैव प्राणः सख्ये नो अस्तु तमात्मनि पुनरावेशयामि ॥५॥वैश्वदेवीं सुनृतामा रभध्वं शुद्धा भवन्तः शुचय: पावका: ।तया गृणन्तः सधमादेषु वयं स्यामो पतयो रयीणाम् ॥६॥वैश्वानरीं वर्चस आा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः ।इडयेह सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥७॥अवत्कं ममभेषजमवत्कं परिवाचनम् ।नराव्यसिमातु दोवन्वानारोगभेषजम् ।शम्भुलेहमिहाहरत् तमुदक्षीरा उदस्यति ॥८॥तदास्रावस्य भेषजं तदु रोगमनीनशत् ।नदीषु नड्वलासु कुम्भेषु कलशेषु च ॥९॥प्रतीशेचन भेषजं तत्ते कृणोमि भेषजम् ।मध्यमं सं पिबोदकं पट्पटिङ्गं विपश्चलं विपश्य ॥१०॥ पिवोअविदामयदैच्छामि पिशाच क्षयणं हविः ।तेन क्रव्यादो हन्मि: सर्वाश्च यातुधान्य: ॥११॥इच्छन्ति त्वा पदातय इच्छन्ति रथिनस्त्वा ।प्रीणन्ति गोभिरश्वैरमृतस्येव वा असि ॥१२॥अमुं सुनाम भेषजं पृथिव्या अध्युद्भृतम् ।वक्ता तन्मह्यमब्रवीदिदं हि पारयादिति ॥१३॥चक्षुरसि पुरुषस्य चक्षुर्गोश्चक्षुरर्वतः ।चक्षुर्भूतस्य भव्यस्य चक्षुरप्सरसामसि ॥१४॥चक्षुरसि सुपर्णस्य चक्षुरहेरथो शुन: ।यक्षुः सर्वस्य पश्यतो अथोयद् विश्वमेजति ॥१५॥आदधानं सहस्राक्षं प्रतिस्पाशनमब्रुवन् । मब्रुदर्शय मा यातुधानान् दर्शय यातुधान्य: ॥१६॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP