संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|त्र्यृचनाम ऊनविंशति काण्डः| १६ ते २० त्र्यृचनाम ऊनविंशति काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५६ ऊनविंशति काण्डः - १६ ते २० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १६ ते २० Translation - भाषांतर १६अस्थाद् द्यौरस्थात् पृथिव्यस्थाद् विश्वमिदं जगत्।तिष्ठन्ति पर्वता इमे स्थामन्नश्वा अरंसत ॥१॥य उदानड्यायने य उदानट् परायणे।आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥आवृत्तोन्यावृतो ऽभ्यावर्तनमायनम् ।अग्निश्चतस्र आवृतस्ताभिष्ट्वा तर्पयामसि ॥३॥जातवेदो नि वर्तय शतं ते शान्त्वावृत: ।सहस्रं त उपावृत: ताभिरेनं नि वर्तय ॥४॥अदारसृग् भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता न: ।मा नो विददभिभा मो अशस्तिर्मा न: प्रापद दुच्छुना द्वेष्या या ॥५॥यो ऽद्य दैव्यो वध जिघांसन् न उपायति ।युवं तं मित्रावरुणावस्मद्यावयतं परि ॥६॥इतश्चामुतश्चाघं वरुण यावय ।वि महच्छर्म यच्छ वरीयो यावया वधम् ॥७॥वरियोअपेन्द्रो प्राची मघवन्नमित्रानपापाचो अभिभूते नुदस्व |अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥८॥तेन भूतस्य हविषा पुनरा प्यायतामयम् ।जायां यामस्मा आविदन् सा रसेनाभि वर्धताम् ॥९॥अभि वर्धतां प्रजया अभि राष्ट्रेण वर्धताम् ।इषा सहस्रवीर्याविमौ स्तामनुपक्षिती ॥१०॥त्वष्टा जायामजनयत् त्वष्टासै त्वां पतिं दधौ ।त्वष्टा सहस्रमायूंषि दीर्घमायुष्कृणोतु वाम् ! ॥११॥अन्तरिक्षेण पतति विश्वा भूतावचाकशत् ।शुनो दिव्योस्यैतन्महस्तस्मा एतेन हविषा जुहोमि ॥१२॥अप्सु ते जन्म दिवि ते सधस्थं समुद्रं आत्मा महिमा ते पृथिव्याम् ।शुनो दिव्योस्यैतन्महस्तस्मा एतेन हविषा जुहोमि ॥१३॥ये त्रय: कालकाञ्जा दिवि देवा इव श्रिताः ।तान् सर्वानह्व उतये ऽस्मा अरिष्टतातये ॥१४॥य: पुरुषं हविरिच्छयसि श्वा दिव्यै अवीरहा ।तं त्वाहं ब्रह्मणा नुदे पुरुषं मा परा वधी: ॥१५॥बधीःयः पिशङ्गो अयोदंष्ट्रा: श्वा दिव्यः परिप्लवः ।तस्याहं नामजग्रभास्मा अरिष्टतातये अयं नो जीवतादिति ॥१६॥अयं नो नभसस्पतिः संस्फानो ऽभिरक्षतु ।असमातिं गृहेषु न: ॥१७॥त्वं नो नभसस्पतिरूर्जं गृहेषु धारय ।आ पुष्टमेत्वा वसु ॥१८॥देव संस्फान सहस्रापोषस्येशिषे ।तस्य नो धेहि तस्य ते भक्षीमहि तस्य ते भक्तिवांसो भूयास्म स्वाहा ॥१९॥(इति त्र्यृचनाम उनविंशतिकाण्डे चतुर्थो ऽनुवाकः )१७यन्तासि यच्छसे हस्तावप रक्षांसि सेधसि ।प्रजां धनं च गृह्णान: परिहस्तो अभूदयम् ॥१॥परिहस्त वि धारय योनिं गर्भाय कर्तवे ।मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे ॥२॥यं परिहस्तमबिभरददितिः पुत्रकाम्या । रदितिःत्वष्टा तमस्या आ बध्नाद् यथा पुत्रं सुवादिति ॥३॥आगच्छत आगतस्य नाम गृह्णाम्यायत: ।इन्द्रस्य वृत्रघ्नो राज्ञो वासवस्य शतक्रतो: ॥४॥येन सूर्यां सावित्रीमश्विनोहतु: पथा ।तेन मामब्रवीद् भगो जायामा वहतादिति ॥५॥यस्ते अङ्कुशो वसुदानो बृहन्निन्द्र हिरण्ययः ।तेना जनीयते जायां त्वं धेहि शतक्रतो: ॥६ ।त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि ।त्वं सूर्यस्य रश्मिषु त्वं नो वसुदा यज्ञिया ॥७॥मेधामहं प्रथमा ब्रह्मण्वतीमृषिष्टुतां । व्रह्मप्रपीतां ब्रह्मचारिभि: देवानामवसा वृणे ॥८॥ व्रह्ममेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि ।मेधां सूर्येणोद्यतोदीराणा उत्तुष्टुमः ॥९॥पार्थिवस्य रसे देवा भगस्य तन्वो बले ।आयुरस्मै सोमो वर्च आा धाद् बृहस्पति: ॥१०॥आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेह्योन: ।रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥११॥आशीर्ण ऊर्जमुत सुप्रजास्त्वं दक्षं दधातु द्रविणं सुवर्चसम्।सं जयन् क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यानधरान्त्सपत्नान् ॥१२॥आयमगन् सविता क्षुरेणोष्णेन वाय उदकेनेहि ।आदित्या रुद्रा वसव: सचेतस: सोमस्य राज्ञो वपत प्रचेतसः ॥१३॥येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।तेन ब्रह्माणो वपतेदमस्यायुष्मान् दीर्घायुरयमस्तु वीरः ॥१४॥युस्माअदितिः शमश्रु वपत्वाप उन्दन्तु वर्चसा ।धारयतु प्रजापति: पुन: पुन: सुवप्तवे ॥१५॥१८यास्ते हिरा धमनयो ऽङ्गान्यनु विष्ठिताः ।तासां ते सर्वासां साकं निर्विषाणि ह्वयामसि ॥१॥यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च ।इमां तामद्य ते वयं विषूचीं वि वृहामसि ॥२॥नमस्ते रुद्रास्यते नम: प्रतिहिताभ्य: ।नमो विसृज्यमानाभ्यो नमस्त्रायताभ्यः ॥३॥अवाची: परिमूर्धन्या यास्ते धमनयः शतम् ।तास्ते प्रभद्यन्तां पृथगनु त्वं लोहितावटम् ॥४॥स्यन्दतां रोदनावतीरनु त्वं लोहितावटम् ।यथास्यामन्त्रं नरस्यन् नानुकूलमिवोदकम् ॥५॥प्रतीचीन: सूर्य एतु प्रतीची: स्रवत: कृता: ।अवाचीस्ते अस्न: कुल्या इयं तृणत्वोषधी: ॥६॥इमं यवमष्टायोगै: षड्योगेभिरचर्कृषुः ।स घा ते तन्वो रपः प्रतीचीनमपि व्ययत् ॥७॥न्यग् वातो वाति न्यक्तपति सूर्यः ।नीचीनमघ्न्या दुहे न्यग् भवतु ते रपः ॥८॥नग्आप इद् वा उ भेषजीरापो अमीवचातनी: ।आप: समुद्रार्था यती: परा वहन्तु ते रप: ॥९॥अमी ये युधमायन्ति केतून् कृत्वानीकश: ।इन्द्रस्तान पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥१०॥यावतीः सिञ्च आयन्त्विनीका नियतिष्ठन् ।इन्द्रस्तान् पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥११॥सं परमान् समवमानथो सं द्यामि मध्यमाम् ।इन्द्रस्तान् पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥१२॥संदानं वो बृहस्पतिः संदानं सविता करत् ।संदानमिन्द्रश्चाग्निश्च संदानं भगो अश्विना ॥१३॥यास्ते रुचो देव सूर्ये या अतो दिव्यातताः ।ताभिर्मामद्यसर्वाभिर्मनुष्येभ्यो रुचे कृणु ॥१४॥रुचे मा धेहि ब्रह्मसु रुचे राजसु धेहि माम् ।रुचे विश्येषु शूद्रेषु मयि धेहि रुचेरुचम् ॥१५॥या रुचो हिरण्यये याग्नौ याश्च सूर्ये ।इन्द्राग्नी म एता रुचो रुचो धेहि बृहस्पते ॥१६॥१९अव मा पाप्मन् सृज वशी सन्मृडयासि नः।आ मा भद्रेषु धामसु त्वं धेह्यविह्रुतम् ॥१॥यो मा पाप्मन् न जहासि तमु त्वा जहिमो वयम्।अन्यत्रास्मन् न्युच्यतु सहस्राक्षो ऽमर्त्य ॥२॥पथोर्वयं व्यावर्तने निष्पाप्मन् सुवामसि।यो नो द्वेष्टि तं गच्छ यं द्विष्मस्तं जहि ॥३॥स वा इवासि संन्नद्धो न भोगमविदं त्वयि ।शिरो भिनद्मि ते पाप्मन् यथा न पुनरायसि ॥४॥इन्द्रो अस्मान्दिवा पातु मृत्योः पाशात् स्वस्तये।द्यौर्न मध्यतः पातु भूमिराज्ञी स्वस्तये ॥५॥सूर्य अस्मान्दिवा पातु मृत्योः पाशात् स्वस्तये।वातो नो मध्यत: पान्त्वहोरात्री स्वस्तये ॥६॥सोमो अस्मान्दिवा पातु मृत्योः पाशाद् स्वस्तये । स्तस्तआपो नो मध्यतः पान्तु मानो निर्ऋति रिशत् ॥७॥सं वा चक्षुः सं हृदयं सं मनसावीवनम् ।अस्या: सरूपवत्साया घृते होमेन सर्पिषा ॥८॥यत् कक्षिवां संवननं पुत्रो अङ्गिरसामवेत् ।तेन मामद्य देवा: संप्रियो समवीवनन् ॥९॥संवननं वाङ् मनसो अथो संवननं हृद: ।अथो भगस्य यच्छ्रान्तं तेन संवनयामि व: ॥१०॥अहं ते मनसा मनश्चक्षुर्गृह्णामि चक्षुसा ।एवा परि षजस्व मा यथासन् मयि ते मन: ॥११॥आा रथस्येव चक्रे अभि आवर्ततामसौ ।रेष्मच्छिन्नं यथा तृणं वेष्टासौ मनसा मयि ॥१२॥परि त्वा पान्तुरसरं परि मातुः परि स्वसुः ।परि त्वानाभ्यस्तरीभ्यो न यौध्यासरम् ॥१३॥य इन्द्रस्य सभाधानो यस्मिन् समितिमासते ।हिरण्या यस्य पर्णानि तस्मा अश्वत्थ ते नमः ॥१४॥यः शाखाभिरन्तरिक्षमापूरयति निष्ट्यः । रएतिछन्दांसि यस्य पर्णानि तस्मै अश्वत्थ ते नम: ॥१५॥यं मृगो न समाप्नोति पक्षाभ्यां शकुनिष्पथम् ।दिवं यः सर्वास्तम्नाति तस्मा अश्वत्थ ते नमः ॥१६॥अश्वत्थोपरि टिप्पणी२०ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मायं हिंसीः पितरौ वर्धमान: ।स्योनी व्याघ्रावुत तौ शिवौ स्तामतित्वा नेषं दुरितानि विश्वा ॥१॥व्याघ्रे अह्न्यजनिष्ठवीरो नक्षत्रजा: सर्ववीर: सुवीर: ।स मा हिंसीः पितरौ वर्धमानस्तस्य ते देवाः प्रतिगृह्णन्तु होमम् ॥२॥या रोहिणीर्देवपत्या प्र धेनुरिव पिन्वते ।तत्र तिस्रो व्यष्टकाः सर्वाङ् अधि ब्रुवन्तु प्रजायै जगते च वाम् ॥३॥यदार्द्राभ्यामणिभ्यां देवा: शक्रा अमन्तं पुरुषेण पुरुषम् ।अत्रा पुष्यतं मिथुना सयोनि जीवां प्रजां जरदष्टिं सुतेजसा ॥४॥हतं पतङ्गमुततर्दमाखुमश्विना भिन्तं शिरो मृणतं हनू दत: ।यथा न: शस्यं नघवासं व्यद्धरा एवाभयं कृणुतं धान्याय नः ॥५॥तर्द है पतङ्ग है जभ्य हा उपक्वस ।अनदन्त इदं धान्यमहिंसन्तो अपोदित ॥६॥तर्दापते वघापते तृष्टजम्भा शृणोत न: ।होत्रेवा प्राशितं हविर्वृक्णजिह्वां उपाध्वम् ॥७॥तर्दा द्यामोपजिह्वया यद् इमं दिव्यं पीयुषं प्रथमस्ति तृप्सात् ।तं प्रत्यञ्चमर्चिषा विध्व मर्मन् ॥८॥ये अभ्रजा ये वातजा ये दिवस्परि यज्ञिरे ।मरिच्याः पुत्राणा वयमपिनह्याम्यास्यम् ॥९॥ये अर्जुना ये हरिता ये कृष्णा ये च रोहिता: ।कबन्धस्य प्रशासने शलभ्यां जम्भयामसि ॥१o॥अन्तरिक्षेण पततमासस्यमभि मध्वम् ।गिरिणां सानुषु सीदति तृणं कपालमुत्तम: शलभास्तद् दिशामिव ॥११॥यथाश्वासो यथा धुरं युक्ता वहन्ति साधुया । धूरंएवा मूत्र प्र भिद्यस्व वि वस्तेरा सं सृज ॥१२॥विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।प्र ते भिनद्मि मेहनं वर्त्तं वेशन्त्या इव ॥१३॥या: समुद्रादुच्चरन्ति जरतीरुपजिह्विका: । रूपप्रमेहणस्य ता विदुरुभयोर्मेहनस्य च ॥१४॥शीर्ष्णोबलीरास्नोबलीरङ्गादङ्गान् मुखाद बली: ।सर्वास्ता इन्द्राणी बलीरप माष्ट्रधि त्वच: ॥१५॥यास्त्चचो बलयो जाता या जातास्तन्वस्परि ।सर्वास्ता इन्द्राणी बली: शमीशाखास्वा सजात् ॥१६॥आशमी मामकी बलीरुरोहाति जहाति माम् ।एताविन्द्रस्य जाया बलि धानीमकृण्वत ॥१७॥( इति त्र्यृचनाम ऊनविंशतिकाण्डे पञ्चमो अनुवाकः) N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP