संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|त्र्यृचनाम ऊनविंशति काण्डः| ३६ ते ४० त्र्यृचनाम ऊनविंशति काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५६ ऊनविंशति काण्डः - ३६ ते ४० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३६ ते ४० Translation - भाषांतर ३६दीर्घजिह्वा बृहद् वाचो याभिरिन्द्राणि वामासि ।गावो घृतस्य मातरो दिवि भेषजमक्रत ॥१॥अर्जुनीनामपचितां कृष्णा मातेति शुश्रोव ।मुनेर्देवस्य मूलेन सर्वा: छिनद्मि ता अहम् ॥२॥छिनद्म्यासां प्रथमां छिनद्म्युत मध्यमाम् ।उतो जघन्यामासामा छिनद्मि स्तुकामिव ॥३॥अपेहि मनसस्पते किमशस्तानि शंसति ।परेहि न त्वा कामये वृक्षान्वनानि सं चर: ॥४॥अवशसा नि:शसा यत् पराशसोपारिमः यज्जाग्रतो यत् स्वपन्तः ।अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद् दधातु ॥५॥यदिन्द्र ब्रह्मणस्पते उत मृषा चरामसि ।प्रचेता न आङ्गिरसो द्विषतस्पातु तेभ्य: ॥६॥एहमामुत्तरं कृधि सहस्व पृतनायत: ।व्यस्मत् कृत्या व्यस्मच्छपथाङ् अज ॥७॥यो नो ऽधिरुषान्मनसा यश्च पापेन नो भ्यमात् ।आकूतिं तस्य देवा हृदश्चित्तानि वृश्चन्ताम् ॥८॥अश्व इव धृतियोग: प्रति हायामहे धस ।कृत्वानं ब्रह्मणस्पते दंष्ट्राभ्यामभिसं जहि ॥९॥यो ऽन्या अधिप्रजायथा मूर्ध्नो ऽध्युदवर्धथाः ।त्वं सपत्नचातनो भ्रातृव्याङ् अव धूनुष्व ॥१०॥बहुरयं सङ्गुरुष्टो न्यक्तो भूम्यामधि ।तेनाहमास्यं कृत्स्यामि यथा त्वा मा गमिष्यति ॥११॥स्थामागं बृहदक्षत्रं स्थामन्ताक्षिणो व्यस्यति ।अनुष्ठानस्य यो राजा स उत्थाम गमिष्यति ॥१२॥अगमद्राजा सदनमगमत् सूर्यो दिवम् ।उदयन् वृत्रहन् प्लीहा अङ्गराजो अवीरहा ॥१३॥यथा पन्थां कवापथो अप्येति महापथम् ।एवा त्वं प्लिहीन्नप्लीहि यतीनस्यभ्यागत: ॥१४॥इन्द्रेण दत्तं बलमासुराभ्यां शितङ्गैः तच्छाल्वतायै च तुभ्यम् ।तौ नुदेथा कण्वा अशिवा अजुष्टा अधा गृहाणां गृहपास्तमेषाम् ॥१५॥त्वमग्ने गृहपतिर्गृहाणां त्वं प्रजानां जनिता सुजात: ।त्वं नुदस्व कण्वा अशिवा अजुष्टाः सदान्वा निदधस्येताः पापीः॥१६॥चर्माभ्यः क्रूरमानह्य हरिणस्य भयं कृधि ।मृगाङ् अनु प्र पातय मरीचीरनु नाशय ॥१७॥यद्यस्यप्सरावी यदि त्वा रक्षो अग्रभीत् ।तस्मा अपप्लवं हविर्मनसा जुहोमि ते ॥१८॥(इति त्र्यृचनाम ऊनविंशतिकाण्डे नवमो ऽनुवाकः )३७अभि त्वा शतपाशया अथो सहस्रपाशया ।दासोमत्स्यमिवतीदेन मयि बध्नामि ते मनः ॥१॥आ हि ते दक्षिणं पदं हृदय्यं ददे ।उपस्थे पदमोपि नि त्वामकृच्छ्रे ऽवसे ॥२॥परि त्वा गामिवासरं मम पत्तो निपातवे ।तं मारुतं ह वैरुधमाव तं करणं कृतम् ॥३॥आ नयामि ते मनो अश्वमिवाश्वाभिधान्या ।उप ते मुञ्चे मनः पदोरुपानहौ यथा ॥४॥यथा सुरा यथा मधु यथाक्षा अधि देवने ।यथाह गव्यतो मन एवा मामभि ते मनः ॥५॥एवा कृणुष्व मा प्रियामन्त: कृणुष्व मां हृदि ।यथा नान्यापचेतया नान्यासां कीर्तयाश्चन ॥६॥यस्येदं वैष्टपं हविर्भगस्य हस्तयोर्हितम् ।तेना त्वाभि मृणामसि सौभाग्याय स्वस्तये ॥७॥भगमेमां त्सं वष्ट्यारो मा पश्चान्मा पुरो दघः ।अधा भगस्य यो भगस्तेन मां संसृजा भग ॥८॥भगेन त्वा सं सृजामि मा ररेण सुरामिव ।अथाससि प्रियः पतिर्देवृग्भ्यः सुभगाससि ॥९॥उदितो दैव्यं वच इषुमिव त्रीण्यः इष्यते ।तेनासपत्नान् मामकान् सासहानि जहानि च ॥१०॥अग्निर्मा पातु वसुभिः पुरस्तात् सवितादित्यैरभि पातु दक्षिणात्।इन्द्रो मरुद्भिरभि पातु पश्चाद्विश्वे देवा अभिरक्षन्तु नोत्तरात् ॥११॥देवराक्षसान् मा पाहि मनुष्यराक्षसान् मा पाहि ।विश्वस्मान् मा रक्षसः पाहि ॥१२॥असौ यस्त्रिककुद्गिरिः शृङ्गाभ्यामभितिष्ठति ।स संपतत्रमुद्यगं बलासमिव तिष्ठतु ॥१३॥दिव्यः सुपर्णो आ पतदयोदंष्ट्रो अयोमुखः ।स संपतत्रमुद्यगमितो यक्ष्मं पराभवत् ॥१४॥साके बलास प्र पत चाषेण किकिदीविना ।सांक वातस्य ध्राज्या सह नश्य निहाकया ॥१५॥३८माभिगाय: शबलेयं श्रोणीयं साधुवाहनम् ।नमस्ते भद्रया कृण्मो ऽविह्वृता चक्षुषा त्वं शमका शमयाति त्वा ॥१॥तृङ्व विक्षिणीहि पयसः कुर्वाणि गा त्वम् ।जारेण पत्याजक्षती गृहान् गोपायमानिका शमका शमयाति त्वा ॥२॥आंक्ष्वाभ्यङ्क्ष्याभ्यंक्ता शपनं गमः ।अथो पितृभ्यो गा गछ ।विज्ञानेन भगेन च शमका शमयाति त्वा ॥३॥अपेहि मनसस्पापाप क्राम परश्चर ।परो निर्ऋत्या आ चक्षुर्बहुत्रा जीवतो मनः ॥४॥भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् ।भद्रं वैवश्वते चक्षुर्बहुत्रा जीवतो मनः ॥५॥यन्मे छिद्रं मनसो यच्च वाचः सरस्वतीं मन्युचित्तं जगाम ।विश्वैस्तद् देवैः सह संविदानः सं दधातु बृहस्पतिः ॥६॥स्फिरा स्फिरतरं स्फिर आत्तार: ।शतहस्त समाहर सहस्रहस्त सं किर ।इहैवा किर सं किरेहैवस्फातिमास्फिरम् ॥७॥स्फिरेयमस्त्वोषधिः समुद्रस्येव संस्रवः ।उत्तरा आगमं नुपोतरा न आगमम् ॥८॥इमा या: पञ्च प्रदिशो मानवीः पञ्च कृष्टयः ।वृष्टे शापं नदीरिवेह स्फातिं ससावहान् ॥९॥वि मयुखा आ यच्छन्तु गर्दभा इव तूर्यजाः ।मुह्यन्तु सर्वे तन्तवो व्रतानाड़ी वि तन्तिके ॥१०॥प्रवामीष्वे प्रपतां प्रययन्तु प्र निवेष्टनम् ।मुह्यन्तु सर्वे तन्तवोऽन्धे वितत वायौः ॥११॥आयवनी निवेष्टनं व्रतात सरमीष्वे ।मुह्यन्तु सर्वे तन्तवोऽन्धे वितत वायौः ॥१२॥मयारकारी प्रथमोर्णवाभिरथोशका ।देवानां पत्नी: कृत्तिका इमं तन्तुममोमुहन् ॥१३॥अग्निर्न एतु प्रथम: पुरएता बृहस्पति: ।अधा भग प्र णो यच्छ त्वं हि धनदा असि ॥१४॥प्रणः शूद्र उतार्यः प्र णो राजोत वृत्रहा ।अथो यत् सर्वमात्वन्वत् प्र णो यच्छतु दक्षिणाम्॥१५॥कविर्यज्ञस्य वि तनोषि पन्थामृतस्य पृष्ठे अधिदीध्यान: ।येन हव्यं वहसि देवदूत इत: प्रचेताममुतोवनीयान् ॥१६॥मधुहस्तो मधुजिह्वो मधुपर्णो मधुव्रत: । मदुअथो मधु प्रशामनो भगो मा वर्चसावतु ॥१७॥३९या त्रिसप्ताः पुनरेति नाना रूपाणि बिभ्रतीः ।वाचस्पतिर्बला तस्या आरे हेतिर्दधातु मत् ॥१॥वाचा नुत्ता कृत्यादीन्द्रवती जाग्रता स्वपथे कृता ।नुत्ता पाकस्य शंसेन प्रत्यक्कर्त्तारमृच्छतु ॥२॥यदेतद् भूरि स्पर्धसे कृत्या स्माति मन्यसे ।प्रतीचीना परेत्य विषादिव विषमन्धत: ॥३॥परेणैत्वघशंसो मैनेन समरामहै ।द्यौश्चास्मान् पृथिवी चोभेपातामंहसः ॥४॥यवयास्मद् द्वेषांसि यवमयेन हविषा ।दुर्हार्दे चकृषे कृत्यां ग्रीवासु प्रति मुञ्चता ॥५॥अन्या वो अन्यामव त्वन्यान्यस्या उपावत ।अश्वयवः प्रवल्गन्तीः कृत्यां हतौषधयो ऽरातिं हतौषधयः ॥६॥मेहोप गा मपरस्या पथानि दुर्गाण्यवेहि ।सपत्नीं नश्यतादितो दूरं गच्छाध्योकसः ॥७॥यस्यास्ते नाम गृह्णामि यस्मिन् धारमसेचने ।आपरस्या: परावत: सपत्नीं नाशयामसि ॥८॥त्रिंशतं त्रिंश्च पर्वतान् चतुरश्च गिरीनति ।सपत्नीं ब्रह्मणस्पते परो भ्रूणान्यर्पय ॥९॥उन् मादयत: मरुतः समुद्र्या उद् द्यावापृथिवी उभे ।उत्वा समुद्ररर्षतृद् उत्वामग्निरयं दुहात् ॥१०॥यत् सपत्नी सपत्न्या अमुष्या वर्च आददे ।अधस्तादुपवादिन्य सौम्यादहमुत्तरात् ॥११॥आ ते बध्नाम्योषधिं सपत्नेभ्यः प्रचातनीम्।यथा ते ऽसदुदंपतिः पुत्राणां ते भवत् पिता ॥१२॥यान्नृणान्यनुवर्त्तादस्मि यमस्य येन बलिना चरामि।इदं तदग्ने अनृणो भवामीदं तदग्ने अवदानमस्तु ॥१३॥ यास्ते सप्त प्रवतो या उ तिस्रो यास्ते सन्तु निवतो या अभिवतः।अर्वागतो अष्टधा त्रीणि रोचनास्तास्ते अग्ने संमनसो भवन्तु ।जानं यमाय निवहा कुसीदम् ॥१४॥यास्त उर्ध्वास्तन्वो जातवेदो यास्तिरश्चिरुत या अनूची: । नुचीःअभिष्टमग्ने सयुजाः स्तृणानो जानं यमाय निवहा कुसीदम् ॥१५॥४०नाशय पलितं शीर्ष्णो यः कृष्णास्तन्व आभर: ।तमोषधे त्वं वर्धय केशं कृष्णतरं कृधि ॥१॥यथाञ्जनं यथासित यथा त्रैककुदं तथा ।तत्संभवा तत् संभरते व्युच्छन्तीरनुषसः ॥२॥यत्रास्ति यत्र तिष्ठति यतो नश्यत्वासिनम् ।दिव्यः सुपर्णो ऽब्रवीदेतत् पलित भेषजम् ॥३॥दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसाय ।समिन्द्रियेण पयसाहमग्नि रुषीणां यज्ञै: सुकृतां कृतेन ॥४॥यदि वृक्षादभ्यपप्तत् फलं तदभ्यन्तरिक्षात् तदु वायुरेव ।यत्रास्पृक्षत् तन्वो यत्र वाससो न तत् प्राप्नोति निर्ऋति परस्तात् ॥५॥अभ्यञ्जनं सुरभ्यादुवासश्च तं हिरण्यमधि पूत्रिमं यत् ।सर्वा पवित्रा वितताध्यस्मच्छतं जीवाति शरदस्तवायम् ॥६॥य: कीकसा: प्रशृणाति तलीद्यमुपतिष्ठति ।परास्थं सर्वं जायान्यं य: कश्च ककुदि श्रितः ॥७॥पक्षी जायान्य: पतति य आ विशति पूरुषम् ।तस्याहं वेद ते नाम यती जायान्य जायसे ॥८॥वेद वै ते नाम यतो जायान्य जायसे ।कथं ह तत्र त्वं हन्या यत् कुर्यान् महद्धविः ॥९॥यः आस्यं प्रविशति करोत्युदरं महत् ।यक्ष्मो यो अत्र जायते तं जायान्यमनीनशम् ॥१०॥आरोहात् सर्वा जातास्मि ऋषभस्य पयो धनात्।स्वादीयसी सुराया लवणाच्चारुमुत्तरात् ।गोभ्यो वनीयसी दहम् ॥११॥यां त्वा वातोवरयदाद्रनाभामहर्षय: ।तस्यास्ते देवि पृथिव्याहं संवननं ददआ ते सौ: ष्कास्यन्ददे ॥१२॥युक्तौ मनसा सं च रेतसा देवेभ्यो हव्यं कृणवाम साधु ।येषां भागस्तु इदं जुषन्तामविक्षुद्वादयार्य भद्रया ॥१३॥येन देवा ज्योतिषा द्यामुपायन् येनादित्या वसवो येन रुद्राः।येनाङ्गिरसः स्वरारुरुहुस्तेनोदयद् यजमानः स्वस्ति ॥१४॥यं पपाच्चादिति: पुत्रकामा येन प्रजा: कश्यप: पर्यगृह्णात् ।य ओदनः पच्यते वैश्वदेवः स नो य मे अक्षतो भागो अस्तु ॥१५॥(इति त्र्यृचनाम ऊनविंशतिकाण्डे दशमो ऽनुवाकः ) N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP