कैलाससंहिता - अध्यायः १२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


श्रीब्रह्मण्य उवाच ॥
साधुसाधु महाभाग वामदेव मुनीश्वर ॥
त्वमतीव शिवे भक्तश्श्विज्ञानवतांवरः ॥१॥
त्वया त्वविदितं किंचिन्ना स्ति लोकेषु कुत्रचित् ॥
तथापि तव वक्ष्यामि लोकानुग्रहकारिणः ॥२॥
लोकेस्मिन्पशवस्सर्व्वे नानाशास्त्रविमोहिताः ॥
वञ्चिताः परमेशस्य माययातिविचित्रया ॥३॥
न जानति परं साक्षात्प्रणवार्थम्महेश्वरम् ॥
सगुणन्निर्गुणं ब्रह्म त्रिदेवजनकम्परम् ॥४॥
दक्षिणम्बाहुमुद्धृत्य शपथम्प्रब्रवीमि ते ॥
सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं पुनः पुनः ॥५॥
प्रणवार्थश्शिवः साक्षात्प्राधान्येन प्रकीर्त्तितः ॥
श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च ॥६॥
यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ॥
आनन्दं यस्य वे विद्वान्न बिभेति कुतश्च न ॥७॥
यस्माज्जगदिदं सर्वं विधिविष्ण्विन्द्रपूर्वकम् ॥
सह भूतेन्द्रियग्रामैः प्रथमं सम्प्रसूयते ॥८॥
न सम्प्रसूयते यो वै कुतश्चन कदाचन ॥
यस्मिन्न भासते विद्युन्न न सूर्यो न चन्द्रमाः ॥९॥
यस्य भासो विभातीदञ्जगत्सर्वं समन्ततः ॥
सर्व्वैश्वर्य्येण सम्पन्नो नाम्ना सर्व्वेश्वरस्स्वयम् ॥१०॥
यो वै मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ॥
सर्वव्यापी प्रकाशात्मा भासरूपो हि चिन्मयः ॥११॥
यस्य पुंसः परा शक्तिर्भावगम्या मनोहरा ॥
निर्गुणा स्वगुणैरेव निगूढा निष्कला शिवा ॥१२॥
तदीयन्त्रिविधंरूपं स्थूलं सूक्ष्मं परन्ततः ॥
ध्येयं मुमुक्षुभिर्नित्यं क्रमतो योगिभिर्मुने ॥१३॥
निष्कलस्सर्व्वदेवानामादिदेवस्सनातनः ॥
ज्ञानक्रियास्वभावो यः पर मात्मेति गीयते ॥१४॥
तस्य देवाधिदेवस्य मूर्त्तिस्साक्षात्सदाशिवः ॥
पञ्चमंत्रतनुर्देवः कलापञ्चकविग्रहः ॥१५॥
शुद्धस्फटिकसंकाशः प्रसन्नः शीतलद्युतिः ॥
पंचवक्त्रो दशभुजस्त्रिपंचनयनः प्रभुः ॥१६॥
ईशानमुकुटोपेतः पुरुषास्यः पुरातनः ॥
अघोरहृदयो वामदेवगुह्यप्रदेशवान् ॥१७॥
सद्यपादश्च तन्मूर्त्तिः साक्षात्सकलनिष्कलः ॥
सर्व्वज्ञत्वादिषट्शक्तिषडंगीकृतविग्रहः ॥१८॥
शब्दादिशक्तिस्फुरितहृत्पंकजविराजितः ॥
स्वशक्त्या वामभागे तु मनोन्मन्या विभूषितः ॥१९॥
मन्त्रादिषड्विधार्थानामर्थोपन्याससार्गतः ॥
समष्टिव्यष्टिभावार्थं वक्ष्यामि प्रणवात्मकम् ॥२०॥
उपदेशक्रमो ह्यादौ वक्तव्यश्श्रूयतामयम् ॥
चातुर्व्वर्ण्यं हि लोकेस्मिन्प्रसिद्धम्मानुषे मुने ॥२१॥
त्रैवर्णिकानामेवात्र श्रुत्याचारसमन्वयः ॥
शुश्रूषामात्रसारा हि शूद्राः श्रुतिबहिष्कृताः ॥२२
त्रैवर्णिकानां सर्व्वेषां स्वस्वाश्रमरतात्मनाम् ॥
श्रुतिस्मृत्युदितो धर्मोऽनुष्ठेयो नापरः क्वचित् ॥२३॥
श्रुतिस्मृत्युदितं कर्म्म कुर्व्व न्सिद्धिमवाप्स्यति ॥
इत्युक्तम्परमेशेन वेदमार्गप्रदर्शिना ॥२४॥
वर्णाश्रमाचारपुण्यैरभ्यर्च्य परमेश्वरम् ॥
तत्सायुज्यं गतास्सर्वे बहवो मुनिसत्तमाः ॥२५॥
ब्रह्मचर्येण मुनयो देवा यज्ञक्रियाध्वना ॥
पितरः प्रजया तृप्ता इति हि श्रुतिरब्रवीत् ॥२६॥
एवं ऋणत्रयान्मुक्तो वानप्रस्थाश्रमं गतः ॥
शीतोष्णसुखदुःखादिसहिष्णुर्विजितेन्द्रियः ॥२७॥
तपस्वी विजिताहारो यमाय योगम भ्यसेत् ॥
यथा दृढतरा बुद्धिरविचाल्या भवेत्तथा ॥२८॥
एवं क्रमेण शुद्धात्मा सर्व्वकर्म्माणि विन्यसेत् ॥
सन्यस्य सर्व्वकर्म्माणि ज्ञानपूजापरो भवेत् ॥२९॥
सा हि साक्षाच्छिवैक्येन जीवन्मुक्तिफलप्रदा ॥
सर्व्वोत्तमा हि विज्ञेया निर्विकारा यतात्म नाम् ॥३०॥
तत्प्रकारमहं वक्ष्ये लोकानुग्रहकाम्यया ॥
तव स्तेहान्महाप्राज्ञ सावधानतया शृणु ॥३१॥
सर्व्वशास्त्रार्थतत्त्वज्ञं वेदांतज्ञानपारगम् ॥
आचार्य्यमुपगच्छेत्स यतिर्म्मतिमतां वरम् ॥३२॥
तत्समीपमुपव्रज्य यथाविधि विचक्षणः ॥
दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतस्सुधीः ॥३३॥
यो गुरु्स्स शिवः प्रोक्तो यश्शिवस्स गुरुस्स्मृतः ॥
इति निश्चित्य मनसा स्वविचारन्निवेदयेत् ॥३४॥
लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोव्रती ॥
शुक्लपक्षे चतुर्थ्यां वा दशम्यां वा विधानतः ॥३५॥
प्रातः स्नात्वा विशुद्धात्मा कृतनित्य क्रियस्सुधीः ॥
गुरुमाहूय विधिना नांदीश्राद्धं समारभेत् ॥३६॥
विश्वेदेवाः सत्यवसुसंज्ञावंतः प्रकीर्त्तिताः ॥
देवश्राद्धे ब्रह्मविष्णु महेशाः कथितास्त्रयः ॥३७॥
ऋषिश्राद्धे तु सम्प्रोक्ता देवक्षेत्रमनुष्यजाः ॥
देवश्राद्धे तु वसुरुद्रादित्यास्सम्प्रकीर्त्तिताः ॥३८॥
चत्वारो मानुषश्राद्धे सनकाद्या मुनीश्वराः ॥
भूतश्राद्धे पंच महाभूतानि च ततः परम् ॥३९॥
चक्षुरादीन्द्रियग्रामो भूतग्रामश्चतुर्विधः ॥
पितृश्राद्धे पिता तस्य पिता तस्य पिता त्रयः ॥४०॥
मातृश्राद्धे मातृपितामह्यौ च प्रपितामही ॥
आत्मश्राद्धे तु चत्वार आत्मा पितृपितामहौ ॥४१॥
प्रपितामहनामा च सपत्नीकाः प्रकीर्त्तिताः ॥
मातामहात्मकश्राद्धे त्रयो मातामहादयः ॥४२॥
प्रतिश्राद्धं ब्राह्मणानां युग्मं कृत्वोपकल्पितान् ॥
आहूय पादौ प्रक्षाल्य स्वयमाचम्य यत्नतः ॥४३॥
समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ॥
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादरेणवः ॥४४॥
आपद्धनध्वान्तसहस्रभानवः समीहिता र्थार्पणकामधेनवः ॥
समस्ततीर्थांबुपवित्रमूर्त्तयो रक्षंतु मां ब्राह्मणपादपांसवः ॥४५॥
इति जप्त्वा नमस्कृत्य साष्टांगं भुवि दण्डवत् ॥
स्थित्वा तु प्राङ्मुखः शम्भोः पादाब्जयुगलं स्मरन् ॥४६॥
सपवित्रकरश्शुद्ध उपवीती दृढासनः ॥
प्राणायामत्रयं कुर्य्या च्छ्रुत्वातिथ्यादिकं पुनः ॥४७॥
मत्संन्यासांगभूतं यद्विश्वेदेवादिकं तथा ॥
श्राद्धमष्टविधं मातामहगतं पार्वणेन वै ॥४८॥
विधानेन करिष्यामि युष्मदाज्ञापुरस्सरम् ॥
एवं विधाय संकल्पं दर्भानुत्तरतस्त्यजेत् ॥४९॥
उपस्पृश्याप उत्थाय वरणक्रममारभेत् ॥
पवित्रपाणिः संस्पृश्य पाणी ब्राह्मणयोर्वदेत् ॥५०॥
विश्वेदेवार्थ इत्यादि भवद्भ्यां क्षण इत्यपि ॥५१॥
प्रसादनीय इत्यन्तं सर्व्व त्रैवं विधिक्रमः ॥
एवं समाप्य वरणं मण्डलानि प्रकल्पयेत् ॥५२॥
उदगारभ्य दश च कृत्वाभ्यर्चनमक्षतैः ॥
तेषु क्रमेण संस्थाप्य ब्राह्मणान्पादयोः पुनः ॥५३॥
विश्वेदेवादिनामानि ससंवबोधनमुच्चरेत् ॥
इदं वः पाद्यमिति सकुशपुष्पाक्षतोदकैः ॥५४॥
पाद्यं दत्त्वा स्वयमपि क्षालितांघ्रिरुदङ्मुखः ॥
आचम्य युग्मक्लृप्तांस्तानासनेषूपवेश्य च ॥५५॥
विश्वेदेवस्वरूपस्य ब्राह्मणस्येदमासनम् ॥
इति दर्भासनं दत्त्वा दर्भपाणिस्स्वयं स्थितः ॥५६॥
अस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ॥
भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ॥५७॥
प्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ॥
वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुंगवौ ॥५८॥
संपूर्णमस्तु संकल्पसिद्धिरस्त्विति तान्प्रति ॥
भवन्तोऽनुगृह्णंत्विति प्रार्थयेद्द्विजपुंगवान् ॥५९॥
ततश्शुद्धकदल्यादिपात्रेषु क्षालितेषु च ॥
अन्नादिभोज्यद्रव्याणि दत्त्वा दर्भैः पृथक्पृथक् ॥६०॥
परिस्तीर्य्य स्वयं तत्र परिषिच्योदकेन च ॥
हस्ताभ्यामवलंब्याथ पात्रं प्रत्येकमादरात् ॥६१॥
पृथिवी ते पात्रमित्यादि कृत्वा तत्र व्यवस्थितान् ॥
देवादींश्च चतुर्थ्यन्ताननूद्याक्षतसंयुतान् ॥६२॥
उदग्गृहीत्वा स्वाहेति देवार्थेऽन्नं यजेत्पुनः ॥
न ममेति वदेदन्ते सर्वत्रायं विधिक्रमः ॥६३॥
यत्पादपद्मस्मरणाद्यस्य नामजपादपि ॥
न्यूनं कर्म भवेत्पूर्णन्तं वन्दे साम्बमीश्वरम् ॥६४॥
इति जप्त्वा ततो ब्रूयान्मया कृत मिदं पुनः ॥
नान्दीमुखश्राद्धमिति यथोक्तं च वदेत्ततः ॥६५॥
अस्विति ब्रूतेति च तान्प्रसाद्य द्विजपुंगवान् ॥
विसृज्य स्वकरस्थोदं प्रणम्य भुवि दण्डवत् ॥६६॥
उत्थाय च ततो ब्रूयादमृतम्भवतु द्विजान् ॥
प्रार्थयेच्च परं प्रीत्या कृतांजलिरुदारधीः ॥६७॥
श्रीरुद्रं चमकं सूक्तं पौरुषं च यथाविधि ॥
चित्ते सदाशिवन्ध्यात्वा जपेद्ब्रह्माणि पञ्च च ॥६८॥
भोजनान्ते रुद्रसूक्तं क्षमा पय्य द्विजान्मुनः ॥
तन्मन्त्रेण ततो दद्यादुत्तरापोशणं पुरः ॥६९॥
प्रक्षालितांघ्रिराचम्य पिण्डस्थानं व्रजेत्ततः ॥
आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ॥७०॥
नान्दीमुखोक्तश्राद्धांगं करिष्ये पिण्डदानकम् ॥
इति संकल्प्य दक्षादिसमारभ्योदकान्ति कम् ॥७१॥
नव रेखाः समालिख्य प्रागग्रान्द्वादश क्रमात् ॥
संस्तीर्य्य दर्भान्दक्षादिदेवादिस्थानपञ्चकम् ॥७२॥
तूष्णीं दद्यात्साक्षतोदं त्रिषु स्थानेषु च क्रमात् ॥
स्थानेष्वन्येषु मातृषु मार्ज्जयन्तास्ततः परम् ॥७३॥
अत्रेति पितरः पश्चात्साक्षतोदं समर्च्य च ॥
दद्यात्ततः क्रमेणैव देवादिस्थानपञ्चके ॥७४॥
तत्तद्देवादिनामानि चतुर्थ्यन्तान्युदीर्य्य च ॥
पिण्डत्रयं ततो दद्यात्प्रत्येकं स्थानपञ्चके ॥७५॥
स्वगृह्योक्तेन मार्गेण दद्यात्पिण्डान्पृथक्पृथक् ॥
दद्यादिदं साक्षतं च पितृसाङ्गुण्यहेतवे ॥७६॥
ध्यायेत्सदाशिवं देवं हृदयाम्भोजमध्यतः ॥
तत्पादपद्मस्मरणादिति श्लोकं पठन्पुनः ॥७७॥
नमस्कृत्य ब्राह्मणेभ्यो दक्षिणां च स्वश क्तितः ॥
दत्त्वा क्षमापय्य च तान्विसृज्य च ततः क्रमात् ॥७८॥
पिण्डानुत्सृज्य गोग्रासं दद्यान्नोचेज्जले क्षिपेत् ॥
पुण्याहवाचनं त्वां भुंजीत स्वजनैस्सह ॥७९॥
अन्येद्युः प्रातरुत्थाय कृतनित्यक्रियस्सुधीः ॥
उपोष्य क्षौरकर्मादि कक्षोपस्थविवर्जितम् ॥८०॥
केशश्मश्रुनखानेव कर्म्मावधि विसृज्य च ॥
समाष्टकेशान्विधिवत्कारयित्वा विधानतः ॥८१॥
स्नात्वा धौतपटश्शुद्धो द्विराचम्याथ वाग्यतः ॥
भस्म संधार्य्य विधिना कृत्वा पुण्याहवाचनम् ॥८२॥
तेन संप्रोक्ष्य संप्राप्य शुद्धदेहस्वभावतः ॥
होमद्रव्यार्थमाचार्य्य दक्षिणार्थं विहाय च ॥८३॥
द्रव्यजातं महेशाय द्विजेभ्यश्च विशेषतः ॥
भक्तेभ्यश्च प्रदायाथ शिवाय गुरुरूपिणे ॥८४॥
वस्त्रादि दक्षिणां दत्त्वा प्रणम्य भुवि दण्डवत् ॥
दोरकौपीनवसनं दण्डाच्च क्षालितम्भुवि ॥८५॥
आदाय होमद्रव्याणि समिधादीनि च क्रमात् ॥
समुद्रतीरे नद्यां वा पर्व्वते वा शिवालये ॥८६॥
अरण्ये चापी गोष्ठे वा विचार्य्य स्थानमुत्तमम् ॥
स्थित्वाचम्य ततः पूर्व्वं कृत्वा मानसमञ्जरीम् ॥८७॥
ब्राह्ममोंकारसहितं नमो ब्रह्मण इत्यपि ॥
जपित्वा त्रिस्ततो ब्रूयादग्निमीळे पुरोहितम् ॥८८॥
अथ महाव्रतमिति अग्निर्वै देवा नामतः ॥
तथैतस्य समाम्नायमिषेत्वोर्ज्जे त्वा वेति तत् ॥८९॥
अग्न आयाहि वीतये शन्नो देवीरभिष्टये ॥
पश्चात्प्रोच्य मयरसतजभनलगैः सह ॥९०॥
सम्मितं च ततः पञ्चसंवत्सरमयं ततः ॥
समाम्नायस्समाम्नातः अथ शिक्षां वदेत्पुनः ॥
प्रवक्ष्यामीत्युदीर्याथ वृद्धिरादैच्च सम्वदेत् ॥९१॥
अथातो धर्मजिज्ञासेत्युच्चार्य पुनरंजसा ॥
अथातो ब्रह्मजिज्ञासा वेदादीनपि संजपेत् ॥९२॥
ब्रह्माणमिन्द्रं सूर्य्यञ्च सोमं चैव प्रजापतिम् ॥
आत्मानमन्तरात्मानं ज्ञानात्मानमतः परम् ॥९३॥
परमात्मानमपि च प्रणवाद्यं नमोंतकम् ॥
चतुर्थ्यन्तं जपित्वाऽथ सक्तुमुष्टिं प्रगृह्य च ॥९४॥
प्राश्याथ प्रणवेनैव द्विराचम्याथ संस्पृशेत् ॥
नाभिं मन्त्रान्वक्ष्यमाणन्प्रणवाद्यान्नमोन्तकान् ॥९५॥
आत्मानमन्तरात्मानं ज्ञानात्मानं पुरं पुनः ॥
आत्मानं च समुच्चार्य प्रजापतिमतः परम् ॥९६॥
स्वाहांतान्प्रजपेत्पश्चात्पयोदधिघृतं पृथक् ॥
त्रिवारं प्रणवेनैव प्राश्याचम्य द्विधा पुनः ॥९७॥
प्रागास्य उपविश्याथ दृढचित्तः स्थिरासनः ॥
यथोक्तविधिना सम्यक्प्राणायामत्रयञ्चरेत् ॥९८॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासविधिवर्णनं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP