कैलाससंहिता - अध्यायः ८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ईश्वर उवाच ॥
अत्रास्ति च महादेवि खल्वावरणपंचकम् ॥
पंचावरणपूजान्तु प्रारभेत यथाक्रमम् ॥१॥
प्रथमम्पूजितौ यत्र तत्रैव क्रमशस्सुधीः ॥
गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥२॥
पंच ब्रह्माणि परितो वृत्ते सम्पूजयेत्क्रमात् ॥
ईशानदेशे पूर्वे च दक्षिणे चोत्तरे तथा ॥३॥
पश्चिमे च ततस्तस्मिन्षडंगानि समर्चयेत ॥
आग्नेये च तथैशाने नैर्ऋते वायुदेशके ॥४॥
मध्ये नेत्रन्तद्वदस्त्रम्पूर्वादिपरितः क्रमात् ॥
प्रथमावरणम्प्रोक्तं द्वितीयावरणं शृणु ॥५॥
अनन्तम्पूर्वदिक्पत्रे सूक्ष्मन्दक्षिणतस्तथा ॥
शिवोत्तमं पश्चिमत एकनेत्रन्तथोत्तरे ॥६॥
एकरुद्रन्तथैशाने त्रिमूर्तिं वह्निदिग्दले ॥
श्रीकण्ठं नैर्ऋते वायौ शिखण्डीशं समर्चयेत् ॥७॥
द्वितीयावरणे चैव पूज्यास्ते चक्रवर्तिनः ॥
पूर्वद्वारस्य मध्ये तु वृषेशानम्प्रपूजयेत् ॥८॥
तद्दक्षिणे नन्दिनञ्च महाकालन्तदुत्तरे ॥
भृंगीशन्दक्षिणद्वारपश्चिमे सम्प्रपूजयेत् ॥९॥
तत्पूर्वकोष्ठे गन्धाद्यैस्सम्प्रपूज्य विनायकम् ॥
पश्चिमोत्तरकोष्ठे च वृषभन्दक्षिणे गुहम् ॥१०॥
उत्तरद्वारपूर्वे तु प्रदक्षिणविधानतः ॥
नामाष्टकविधानेन पूजयेदुच्यते हि तत् ॥११॥
भवं शर्वं तथेशानं रुद्रम्पशुपतिम्पुनः ॥
उग्रम्भीमम्महादेवन्तृतीयावरणन्त्विदम् ॥१२॥
यो वेदादौ स्वर इति समावाह्य महेश्वरम् ॥
पूजयेत्पूर्वदिग्भागे कमले कर्णिकोपरि ॥१३॥
ईश्वरम्पूर्वदिक्पत्रे विश्वेशन्दक्षिणे ततः ॥
सौम्ये तु परमेशानं सर्वेशम्प श्चिमे यजेत् ॥१४॥
दक्षिणे तु यजेद्रुद्रमावोराजानमित्यृचा ॥
आवाह्य गन्धपुष्पाद्यैः कर्णिकायान्दलेषु च ॥१५॥
शिवः पूर्वे दक्षिणतो हर उत्तरतो मृडः ॥
भवः पश्चिमदिक्पत्रे पूज्या एते यथाक्रमम् ॥१६॥
उत्तरे विष्णुमावाह्य गन्धपुष्पादिभिर्यजेत् ॥
प्रतद्विष्णुरिति प्रोच्य कर्णिकायान्दलेषु च ॥१७॥
वासुदेवम्पूर्वभागे दक्षिणे चानिरुद्धकम् ॥
सौम्ये संकर्षणञ्चैव प्रद्युम्नम्पश्चिमे यजेत् ॥१८॥
ब्रह्माणम्पश्चिमे पद्मे समावाह्य समर्चयेत् ॥
हिरण्यगर्भः समवर्तत इति मंत्रेण मंत्रवित् ॥१९॥
हिरण्यगर्भं पूर्वस्यां विराजन्दक्षिणे ततः ॥
उत्तरे पुष्करञ्चैव कालम्पश्चिमतो यजेत् ॥२०॥
सर्वोर्द्ध्वपंक्तौ पूर्वादिप्रदक्षिणविधानतः ॥
तत्तत्स्थानेषु संपूज्य लोकपालाननुक्रमात् ॥२१॥
रान्तंपान्तं तथा ज्ञान्तं लान्तं लान्तमपूर्वकम् ॥
षान्तं सान्तञ्च वेदाद्यं श्रीबीजञ्च दशक्रमात् ॥२२॥
बीजानि लोकपालानामेतैरेतान्समर्चयेत् ॥
नैर्ऋते चोत्तरे तद्वदीशानस्य च दक्षिणे ॥२३॥
ब्रह्म विष्णू च विधिना पूजयेदुपचारकैः ॥
बाह्यरेखासु देवेशम्पञ्चमावरणे यजेत् ॥२४॥
श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ॥
परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥२५॥
नैर्ऋते तु यजेत्खड्गम्पाशं वरुणगोचरे ॥
अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥२६॥
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥
यथाविधि विधानज्ञश्शिवप्रीत्यर्थमेव च ॥२७॥
कृताञ्जलिपुटास्सर्वे चिन्त्याः स्मितमुखाम्बुजाः ॥
सादरं प्रेक्षमाणाश्च देवं देवीञ्च सर्वदा ॥२८॥
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ॥
पुनरभ्यर्च्य देवेशम्प्रणवं च शिवं वदेत् ॥२९॥
एवमभ्यर्च्य विधिवद्गन्धाद्यैरुपचारकैः ॥
उपचर्य्य ततो दद्यान्नैवेद्यं विधिसाधितम् ॥३०॥
पुनराचमनीयं च दद्यादर्घ्यं यथा पुरा ॥
ततो निवेद्य पानीयन्ताम्बूलं चोपदेशतः ॥३१॥
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥
ध्यात्वा देवं च देवीञ्च मनुमष्टोत्तरं जपेत् ॥३२॥
तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः ॥
जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात् ॥३३॥
यो वेदादौ स्वरः प्रोक्त इत्यंतम्परमेश्वरि ॥
पुष्पाञ्जलिन्ततो दत्त्वा त्रिः प्रदक्षिणमाचरेत् ॥३४॥
साष्टांगम्प्रणमेत्तं स भक्त्या परमयान्वितः ॥
पुनः प्रदक्षिणां कृत्वा प्रणमेत्पुनरेकधा ॥३५॥
स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ॥
साधु वासाधु वा कर्म यद्यदाचरितं मया ॥३६॥
तत्सर्वं भगवञ्छम्भो भवदाराधनम्परम् ॥
इति शंखोदकेनैव सपुष्पेण समर्पयेत् ॥३७॥
पूज्यं पुनस्समभ्यर्च्य सार्थं नामाष्टकं जपेत् ॥
तदेव शृणु देवेशि संब्रुवे तव भक्तितः ॥३८॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामावरणपूजावर्णनं नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP