कैलाससंहिता - अध्यायः ७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ईश्वर उवाच ॥
स्ववामे चतुरस्रं तु मण्डलं परिकल्पयेत् ॥
ओमित्यभ्यर्च्य तस्मिंस्तु शंखमस्त्रोपशोभितम् ॥१॥
स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ॥
आपूर्य्य शुद्धतोयेन चन्दनादिसुगंधिना ॥२॥
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा
अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ॥३॥
शंखमुद्रां च पुरतश्चतुरस्रं प्रकल्पयेत् ॥
तदन्तरेर्द्धचन्द्रं च त्रिकोणं च तदन्तरे ॥४॥
षट्कोणं वृत्तमेवेदं मण्डलं परिकल्पयेत् ॥
अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेनाथ मध्यतः ॥५॥
साधारमर्घ्यपात्रं च स्थाप्य गंधादिनार्चयेत् ॥
आपूर्य्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत् ॥६॥
कुशाग्राण्यक्षताश्चैव यवव्रीहितिलानपि ॥
आज्यसिद्धार्थ पुष्पाणि भसितं च वरानने ॥७॥
सद्योजातादिभिर्मंत्रैः षडंगैः प्रणवेन च ॥
अभ्यर्च्य गंधपुष्पाद्यैरभिमंत्र्य च वर्मणा ॥८॥
अवगुंण्ठ्यास्त्रमंत्रेण संरक्षार्थं प्रदर्शयेत् ॥
धेनुमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः ॥९॥
स्वात्मानं गंधपुष्पादिपूजोपकरणान्यपि ॥
पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम् ॥१०॥
गुर्वासनाय नम इत्यासनं परिकल्पयेत् ॥
गुरोर्मूर्तिं च तत्रैव कल्प येदुपदेशतः ॥११॥
प्रणवं गुं गुरुभ्योन्ते नमः प्रोच्यापि देशिकम् ॥
समावाह्य ततो ध्यायेद्दक्षिणाभिमुखं स्थितम् ॥१२॥
सुप्रसन्नमुखं सौम्यं शुद्धस्फटिकनिर्मलम् ॥
वरदाभयहस्तं च द्विनेत्रं शिवविग्रहम् ॥१३॥
एवं ध्यात्वा यजेद्गन्धपुष्पादिभिरनुक्रमात् ॥
पद्मस्य नैर्ऋते पद्मे गणपत्यासनोपरि ॥१४॥
मूर्तिम्प्रकल्प्य तत्रैव गणानां त्वेति मंत्रतः ॥
समावाह्य ततो देवं ध्यायेदेका ग्रमानसः ॥१५॥
रक्तवर्णं महाकायं सर्वाभरणभूषितम् ॥
पाशांकुशेष्टदशनान्दधानङ्करपङ्कजैः ॥१६॥
गजाननम्प्रभुं सर्वविघ्नौघघ्नमुपासितुः ॥
एवन्ध्यात्वा यजेद्गन्धपुष्पाद्यैरुपचारकैः ॥१७॥
कदलीनारिकेलाम्रफललड्डुकपूर्वकम् ॥
नैवेद्यं च समर्प्याथ नमस्कुर्याद्गजाननम् ॥१८॥
पद्मस्य वायुदिक्पद्मे संकल्प्य स्कान्दमासनम् ॥
स्कन्दमूर्तिम्प्रकल्प्याथ स्कन्दमावाहयेद्बुधः ॥१९॥
उच्चार्य्य स्कन्दगायत्रीं ध्यायेदथ कुमारकम् ॥
उद्यदादित्यसंकाशं मयूरवरवाहनम् ॥२०॥
चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम् ॥
वरदाभयहस्तं च शक्तिकुक्कुटधारिणम् ॥२१॥
एवन्ध्यात्वाऽथ गंधाद्यैरुपचारैरनुक्रमात् ॥
संपूज्य पूर्वद्वारस्य दक्षशाखामुपाश्रितम् ॥२२॥
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥२३॥
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥
दीप्तशूलमृगीटंकहेमवेत्रधरं विभुम् ॥२४॥
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥
उत्तरस्यान्तथा तस्य भार्यां च मरुतां सुताम् ॥२५॥
सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ॥
संपूज्य विधिवद्गन्धपुष्पाद्यैरुपचारकैः ॥२६॥
ततस्संप्रोक्षयेत्पद्मं सास्त्रशं खोदबिन्दुभिः ॥
कल्पयेदासनं पश्चादाधारादि यथाक्रमात् ॥२७॥
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥
तस्याः पुरस्तादुत्कंठमनन्तं कुंडलाकृतिम् ॥२८॥
धवलं पंचफणिनं लेलिहानमिवाम्बरम् ॥
तस्योपर्यासनं भद्रं कंठीरवचतुष्पदम् ॥२९॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ॥
आग्नेयादिश्वेतपीतरक्तश्यामानि वर्णतः ॥३०॥
अधर्मादीनि पूर्वादीन्युत्तरां तान्यनुक्रमात् ॥
राजावर्तमणिप्रख्यान्यस्य गात्राणि भावयेत् ॥३१॥
अधोर्द्ध्वच्छदनं पश्चात्कंदं नालं च कण्टकान् ॥
दलादिकं कर्णिकाञ्च विभाव्य क्रमशोऽर्चयेत् ॥३२॥
दलेषु सिद्धयश्चाष्टौ केसरेषु च शक्तिकाः ॥
रुद्रा वामादयस्त्वष्टौ पूर्वादिपरितः क्रमात् ॥३३॥
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥
वामाद्या एव पूर्वादि तदन्तश्च मनोन्मनी ॥३४॥
कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥
कर्णिकोपरि वाह्नेयं मंडलं सौरमैन्दवम् ॥३५॥
आत्मविद्या शिवाख्यं च तत्त्वत्रयमतः परम् ॥
सर्वासनोपरि सुखं विचित्रकुसुमोज्ज्वलम् ॥३६॥
परव्योमावकाशाख्यं विद्ययातीव भास्वरम् ॥
परिकल्प्यासनं मूर्त्तेः पुष्पविन्यास पूर्वकम् ॥३७॥
आधारशक्तिमारभ्य शुद्धविद्यासनावधि ॥
ॐकारादिचतुर्थ्यंतं नाममन्त्रं नमोन्तकम् ॥३८॥
उच्चार्य पूजयेद्विद्वान्सर्वत्रैवं विधिक्रमः ॥
अङ्गवक्त्रकलाभेदात्पंचब्रह्माणि पूर्ववत् ॥३९॥
विन्यसेत्क्रमशो मूर्त्तौ तत्तन्मुद्राविचक्षणः ॥
आवाहयेत्ततो देवं पुष्पाञ्जलिपुटस्थितः ॥४०॥
सद्योजातम्प्रपद्यामीत्यारभ्योमन्तमुच्चरन् ॥
आधारोत्थितनादं तु द्वादशग्रन्धिभेदतः ॥४१॥
ब्रह्मरन्धांतमुच्चार्य ध्यायेदोंकारगोचरम् ॥
शुद्धस्फटिकसंकाशं देवं निष्कलमक्षरम् ॥४२॥
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥
अन्तर्बहिः स्थितं व्याप्य ह्यणोरल्पं महत्तमम् ॥४३॥
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥
ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥४४॥
वेदसारञ्च विद्वद्भिरगोचरमिति श्रुतम् ॥
आविर्मध्यान्तरहितं भेषजं भवरोगिणाम् ॥४५॥
समाहितेन मनसा ध्यात्वैवं परमेश्वरम् ॥
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥४६॥
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥
ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम् ॥४७॥
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥
विद्युद्वलयसंकाशं जटामुकुटभूषितम् ॥४८ ॥
शार्दूलचर्मवसनं किंचित्स्मितमुखाम्बुजम् ॥
रक्तपद्मदलप्रख्यपाणिपादतलाधरम् ॥४९॥
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ॥
दिव्या युधकरैर्युक्तं दिव्यगन्धानुलेपनम् ॥५०॥
पञ्चवक्त्रन्दशभुजञ्चन्द्रखण्डशिखामणिम् ॥
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥५१॥
त्रिलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम् ॥
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥५२॥
भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम् ॥
दंष्ट्रा करालं दुष्प्रेक्ष्यं स्फुरिताधरपल्लवम् ॥५३॥
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥
सद्विलासन्त्रिनयनं चन्द्रार्द्धकृतशेखरम् ॥५४ ॥
पश्चिमम्पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥
चन्द्रलेखाधरं सौम्यं मन्दस्मितमनोहरम् ॥५५॥
पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम् ॥
अतीवसौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥५६॥
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥५७॥
पूर्व्वे पिनाकनाराचघण्टा पाशांकुशोज्ज्वलम् ॥
निवृत्त्याजानुपर्य्यंतमानाभि च प्रतिष्ठया ॥५८॥
आकण्ठं विद्यया तद्वदाललाटं तु शान्तया ॥
तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ॥५९॥
पञ्चाध्वव्यापिनं तस्मात्कलापञ्चकविग्रहम् ॥
ईशानमुकुटं देवम्पुरुषाख्यम्पुरातनम् ॥६०॥
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥
सद्योजातं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥६१॥
मातृकामयमीशानम्पञ्चब्रह्ममयन्तथा ॥
ॐकाराख्यमयं चैव हंसन्यासमयन्तथा ॥६२॥
पञ्चाक्षरमयन्देवं षडक्षरमयन्तथा ॥
अङ्गषट्कमयञ्चैव जातिषट्कसमन्वितम् ॥६३॥
एवन्ध्यात्वाथ मद्वामभागे त्वां च मनोन्मनीम् ॥
गौरी मिमाय मन्त्रेण प्रणवाद्येन भक्तितः ॥६४॥
आवाह्य पूर्ववत्कुर्यान्नमस्कारांतमी श्वरि ॥
ध्यायेत्ततस्त्वां देवेशि समाहितमना मुनिः ॥६५॥
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥
पूर्णचन्द्राभवदनान्नील कुंचितमूर्द्धजाम् ॥६६॥
नीलोत्पलदलप्रख्याञ्चन्द्रार्धकृतशेखराम् ॥
अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥६७॥
तनुमध्याम्पृथुश्रोणीम्पीतसूक्ष्मतराम्बराम् ॥
सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ॥६८॥
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥
सर्वतोऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥६९॥
हेमारविन्दं विलसद्दधानां दक्षिणे करे ॥
चण्डवच्चामरं हस्तं न्यस्यासीनां सुखासने ॥७०॥
एवम्मान्त्वां च देवेशि ध्यात्वा नियतमानसः ॥
स्नापयेच्छंखतोयेन प्रणवप्रोक्षणक्रमात् ॥७१॥
भवे भवे नातिभव इति पाद्यम्प्रकल्पयेत् ॥
वामाय नम इत्युक्त्वा दद्यादाचमनीयकम् ॥७२॥
ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रम्प्रकल्पयेत् ॥
श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम् ॥७३॥
रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ॥
कालाय नम इत्युक्त्वा गन्धन्दद्यात्सुसंस्कृतम् ॥७४॥
कलाविकरणाय नमोऽक्षतं च परिकल्पयेत् ॥
बलविकरणाय नम इति पुष्पाणि दापयेत् ॥७५॥
बलाय नम इत्युक्त्वा धूपन्दद्यात्प्र यत्नतः ॥
बलप्रमथनायेति सुदीपं चैव दापयेत् ॥७६॥
ब्रह्मभिश्च षडंगैश्च ततो मातृकया सह ॥
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥७७॥
मुद्राः प्रदर्शयेन्मह्यन्तुभ्यञ्च वरवर्णिनि ॥
मयि प्रकल्पयेत्पूर्वमुपचारांस्ततस्त्वयि ॥७८॥
यदा त्वयि प्रकुर्वीत स्त्रीलिंगं योजयेत्तदा ॥
इयानेव हि भेदोऽस्ति नान्यः पार्वति कश्चन ॥७९॥
एवन्ध्यानम्पूजनं च कृत्वा सम्यग्विधानतः ॥
ममावरणपूजां च प्रारभेत विचक्षणः ॥८०॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाशसंहितायां शिवध्यानपूजनवर्णनं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP