श्रीवत्सेशदिग्विजयः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुत्वेति मन्त्रिवचनं राजा विजयलालसः ।
दिदेश दिग्जयोद्योगे सेनान्यमपि तद्द्युतिः ॥३००॥
ततो भ्रातरमाहूय पद्मावत्या नरेश्वरः ।
विदधी सिंहवर्माणं चेद्दि राज्ये बलाधिकम् ॥३०१॥
गोपालकं च विदशाराज्ये धृत्वा जयोत्सुकः ।
कृत्वा मन्त्रिगिरा दृप्तं वाराणस्यां महीपतिम् ॥३०२॥
ब्रह्मदत्तं स संहृष्टसर्वसामन्तमण्डलम् ।  
जेतुं सज्जगजानीकतुरगोत्खातभूतलः ।
ययौ सुभटसंमर्दव्यालोलितदिगन्तरः ॥३०३॥
पाण्डुरेणातपत्त्रेण यात्रायां विबभौ विभुः ।
क्षीरक्षोभसमुत्थेन शशाङ्केनेव मन्दरः ॥३०४॥
पार्थवंश्यस्य तस्याग्रे गिरिवर्णा गजा बभुः ।
सेवाव्रतमिवापन्ना मेघाः खाण्डवतर्जिताः ॥३०५॥
तस्य सैन्ये भटाधूता विबभौ खङ्गमण्डली ।
पातालवासिप्रीत्येव संप्राप्ता भुजगावली ॥३०६॥
कापालिकप्रणधिभिर्दैवजव्यञ्जनैरपि ।
आचकर्ष रिपोर्मन्त्रं गूढं यौगन्धरायणः ॥३०७॥
ब्रह्मदत्तस्य सचिवो धीमान्योगकरण्डिकः ।
व्यधाद्वत्सेश्वरस्याम्भो घासं च विषदूषितम् ॥३०८॥
उल्कासंदर्शनं घोरं मायास्ताश्च सुदुःसहाः ।
यौगन्धरायणस्तस्य प्रतियोगैरिवाभवत् ॥३०९॥
व्यर्थं चकार सकलं मायानिर्माणडम्बरम् ।
ततो बद्धाञ्जलिर्धीमान्रत्नोपायनसंयुतः ॥३१०॥
ब्रह्मदत्तं स जित्वैव सर्वासाविजयी नृपः ।
न्यवेशयत्सूर्य इव प्रतापं मूर्ध्नि भूभृताम् ॥३११॥
ततः समस्तसामन्तमस्तकन्यस्तशासनः ।
पूजितोऽवन्तिराजेन मागधेन च सानुगः ॥३१२॥
देवीभ्यां सहितः श्रीमांलावानकपुरं ययौ ।
पौरनारीमुखाम्भोजविकासनवभास्करः ॥३१३॥
इति श्रीवत्सेशदिग्विजयः ॥१४॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP