संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|लावानकनामा तृतीयो लम्बकः| वहिल्लकाख्यायिका लावानकनामा तृतीयो लम्बकः परहिताख्यायिका वहिल्लकाख्यायिका देवसेनाख्यायिका परिव्राडाख्यायिका पुण्यसेनाख्यायिका सुन्दोपसुन्दाख्यायिका पद्मावतीविवाहः उर्वश्याख्यायिका विहितसेनाख्यायिका सोमप्रभाख्यायिका अहल्याख्यायिका विदूषकाख्यायिका देवदासाख्यायिका श्रीवत्सेशदिग्विजयः हलभूत्याख्यायिका लावानकनामा वहिल्लकाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत वहिल्लकाख्यायिका Translation - भाषांतर युक्त्यैव नाशयिष्यामि नृपतेर्व्यसनामयम् । मन्त्रिभिः परिरक्ष्यन्ते सोन्मदा हि नरेश्वराः ॥११॥ मगधाधिपतेः पुत्रीं यदि पद्मावतीं नृपः । प्रोप्नोत्यस्मत्प्रयत्नेन तदेषा नः सहायता ॥१२॥ श्रुत्वेति मन्त्रिवचनं सेनापतिरभाषत । चक्रवर्तिवधूः सा हि भाविनीति श्रुतं मया ॥१३॥ न हि वासवदत्तायां सक्तायास्मै महीभुजे । ददाति मगधाधीशो याचितोऽपि प्रियां सुताम् ॥१४॥ इत्याकर्ण्याब्रवीन्मन्त्री दग्धा देवीति कृत्रिम म् । कृत्वा प्रयोगं सावश्यं लभ्यते मगधात्मजा ॥१५॥ श्रुत्वेति सेनाधिपतिः प्राह साहसशङ्कितः । कथं नु सहते राजा दग्धा देवीति दुर्वचः ॥१६॥ वियोज्यते नृपो देव्या यदेतच्छमलङ्घनम् । संशयाय वियोगो हि यूनोर्बद्धानुरागयोः ॥१७॥ विशाखिलेन वणिजा मथुरावासिना पुरा । वहिल्लकाख्यः सचिवो विसृष्टो रत्नविक्रये ॥१८॥ तेनादिष्टः स निपुणे युवजानिर्धनार्जने । ययौ प्रिया समामन्त्र्य सस्तभ्य विरहव्यथाम् ॥१९॥ सापि तस्मिन्गते द्वारकपाटलम्बिनी चिरम् । तद्वर्त्म वीक्ष्य शनकैर्बभूव गजजीविता ॥२०॥ निवर्तितोऽथ तद्भर्ता दृष्ट्वा तां च तथागताम् । शोचन्व्यसुरभूदेवं दुःसहो विरहानलः ॥२१॥ इति वहिल्लकाख्यायिका ॥२॥ N/A References : N/A Last Updated : October 05, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP