सुन्दोपसुन्दाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


मन्त्रयित्वेति विश्रब्धं बहु यौगन्धरायणः ।
गोपालमानिनायाशु स्वपुरीं नृपसेवने ॥५५॥
कृत्वा विदितवृत्तान्तं तं नरेन्द्रहित्ते रतम् ।
कूटं वासवदत्ताया दाहे निश्चयमाप्तवान् ॥५६॥
स लावानकयात्रायां चक्रे भूपतिमुत्सुकम् ।
देवीं च को हि जानीते चरितं प्रौढमन्त्रिणाम् ॥५७॥
अत्रान्तरे नरपतौ सर्वास्थानसभाश्रिते ।
विवेशनारदः श्रीमान्दीप्तः पिञ्जरिताम्बरः ॥५८॥
प्रणम्य पूजितो राज्ञा सह वासवदत्तया ।
देवर्षिरभ्याधाद्दिक्षु किरन्दशनचन्दिकाम् ॥५९॥
त्वां च वासवदत्तां च दृष्ट्वा राजीवलोचनाम् ।
स्मरामि पाण्डुपुत्रस्य कृष्णायाश्च मृगीदृशः ॥६०॥
वृत्तान्तं कथितं तस्य मया सुन्दोपसुन्दयोः ।
रक्षता भ्रातृजं भेदं द्रौपदीवरणे पुरा ॥६१॥
सुन्दोपसुन्दावसुरावभूतां वलिनौ पुरा ।
निदाधीकृतहेमन्तौ दिवापि कृतचन्द्रिकौ ॥६२॥
तत्पराक्रमवित्रस्तदेवैरभ्यर्थितस्ततः ।
वेधा विनिर्मये कान्तां सुरनारीं तिलोत्तमाम् ॥६३॥
सा विलासरसावासहासविभ्रमशालिनी ।
मत्तालिकोकिले काले विजहार तयोः पुरः ॥६४॥
तां दृष्ट्वा पृथुलश्रोणीं वायुनोच्चालितांशुकाम् ।
ममैवेयं ममैवेयमिति तौ भेदमापतुः ॥६५॥
ततस्तौ समरोत्तालौ करालभुजशालिनौ ।
कृतान्तातिथितां याताविति भेदोपपत्तये ॥६६॥
इति सुन्दोपसुन्दाख्यायिका ॥६॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP