संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|लावानकनामा तृतीयो लम्बकः| देवदासाख्यायिका लावानकनामा तृतीयो लम्बकः परहिताख्यायिका वहिल्लकाख्यायिका देवसेनाख्यायिका परिव्राडाख्यायिका पुण्यसेनाख्यायिका सुन्दोपसुन्दाख्यायिका पद्मावतीविवाहः उर्वश्याख्यायिका विहितसेनाख्यायिका सोमप्रभाख्यायिका अहल्याख्यायिका विदूषकाख्यायिका देवदासाख्यायिका श्रीवत्सेशदिग्विजयः हलभूत्याख्यायिका लावानकनामा देवदासाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत देवदासाख्यायिका Translation - भाषांतर इत्येवं सत्त्वमहतां शूराणां विजयः करे । इति वत्सेश्वरवचः श्रुत्वा सर्वे मुदं ययौ ॥२७५॥ स गृहीतजयोद्योगस्तपसा त्रिपुरान्तकम् । अतोषयदसाध्यं हि किं शिवस्मरणान्नृणाम् ॥२७६॥ विद्याधरेश्वरो भावी तनयाद्विजयश्च ते । इति शर्वाद्वरं प्राप त्रिरात्रोपोषितो नृपः ॥२७७॥ नृपवृत्तानुवृत्ते च देव्यौ दृष्ट्वा पतिव्रते । हृष्टो वसन्तकः प्राह प्रशंसंस्तद्विचेष्टितम् ॥२७८॥ पुरा शर्यातितनया सुकन्या च्यवनं मुनिम् । लोपामुद्रा तथागस्त्यं तपसैवमतोषयत् ॥२७९॥ इति गोपालकादीनां पुरो जल्पन्वसन्तकः । पद्मावतीं व्रतक्षामां नर्मोक्तिभिरहासयत् ॥२८०॥ अन्येद्युरथ भूपाले जयोद्योगकथान्तरे । पौरुषं दैवसफलं प्राह यौगन्धरायणः ॥२८१॥ अवश्यं पृथिवीपाल भूभुजां विजयः श्रियः । भवत्युत्साहनित्यानामिहामुत्र च सिद्धये ॥२८२॥ अवाप्यते शुभफलं सुकृतैः पूर्वसंचितैः । पश्याचिन्तितमेवाप्तं त्वया यौधिष्ठिरं धनम् ॥२८३॥ बभूव पाटलिपुरे देवदासाभिधो वणिक् । महाधनकुले जातो द्यूताद्दुर्गतिमागतः ॥२८४॥ स ध्वस्तवदनच्छायो नगरे पुण्ड्रवर्धने । श्वशुरस्य गृहं प्रायात्स्कन्धालम्बिपटाम्बरः ॥२८५॥ श्वशुरावसथोपान्तमवाप्याचिन्तयत्क्षणम् । कथं दीनो गतच्छायः प्रविशामीति लज्जितः ॥२८६॥ धन्यः शवो निरुच्छ्वासो दीर्घनिद्रातिशीतलः । सावज्ञः करुणापात्रं बन्धूनां न तु दुर्गतः ॥२८७॥ दावाग्निश्चन्दनं तस्य विषपानं मधूत्सवः । विश्रान्तिर्मरणं चास्य स्वजनो येन पाचय्ते ॥२८८॥ शूरो विदग्धः सुजनोऽभिमानी विद्वान्कुलीनः कुशलः कलावान् । तावद्यशस्वीह विभाति पुंसां यावन्न देहीति वचोऽभ्युपैति ॥२८९॥ देवदासो विचिन्त्येति निशि प्राप्य प्रतिश्रियम् । केनापि वणिजादिष्टो भाण्डशालां पुरःस्थिताम् ॥२९०॥ अपश्यत्तत्र वणिजो ललनां स्वैरमागताम् । निजजायां परिज्ञाय तामेवाभूत्सुदुःखितः ॥२९१॥ रतान्ते साप्युपपतिं प्राह मद्भर्तृमन्दिरे । तत्पूर्वपुरुषन्यस्तं निधानं विद्यते प्रिय । स्नुषाणामेव तत्कर्णे पारम्पर्यक्रमात्स्थितम् ॥२९२॥ देवदासः स मे भर्ता नष्टो द्यूतेन दुःखगः । तद्गृहाप्तं धनं सर्वं गत्वा तूर्णं समानय ॥२९३॥ इति गूढस्थितः श्रुत्वा देवदासो मनोजवः । रात्रावेव ययौ गेहे गत्वा च प्राप तद्धनम् ॥२९४॥ तेन स्वपदवीं प्राप्ते तस्मिंस्तत्र सुखस्थिते । आगत्योपपतिस्तस्मात्तन्मन्दिरमयाचत ॥२९५॥ निधानोत्पाटनमनाः क्रीडामूल्येन तद्गृहम् । दृष्ट्वा शून्यं महाखातं मूल्यमेवान्वयाचत ॥२९६॥ विवादे भूपतिपुरो देवदासो यथाश्रुतम् । निवेद्य निजवृत्तान्तं तामाहूयासतीं वधूम्म ॥२९७॥ परदाररते राज्ञा निगृहीते स तामपि । कर्णनासाविरहितां कृत्वा तामाप्तवान्वधूम् ॥२९८॥ इत्थं पितामहधनैर्देवदासोऽभवत्सुखी । इति पुण्यवतां दैवात्स्वयमायान्ति संपदः ॥२९९॥ इति देवदासाख्यायिका ॥१३॥ N/A References : N/A Last Updated : October 10, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP