अरण्यकांडम् - काव्य ३०१ ते ३५०

अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


गृध्र रा जेन स तदा क्लिश्यमानो मुहुर्मुहुः
अमर्षस्फुरितोष्ठः सन् प्राकंपत निशाचरः. ॥३०१॥
तां वा म तोंऽकेन तदा संपरिष्वज्य जानकीम्
तलेनाभिजघानार्तो जटायुं क्रोधमूर्च्छितः. ॥३०२॥
क्रुद्धो ज टायु स्तं तस्य प्रहारमविचिंतयन्
तुंडेन त्रोटयामास शत्रोर्वामभुजान् दश. ॥३०३॥
भुजा य क्षपतेर्भ्रातुः पूर्ववत्सहसाऽभवन्
विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः. ॥३०४॥
ततो रा क्षसलोकेशः सीतामुत्सृज्य वीर्यवान्
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्. ॥३०५॥
संग्रा म स्तत्र स तयोर्मुहूर्तमतिवीर्ययोः
बभूव घोरो वयसां रक्षसामधिराजयोः. ॥३०६॥
यत्रं ज टायो रामार्थे कुर्वाणस्य दशाननः
पक्षौ पादौ च पार्श्वौ च खङ्गमुद्धृत्य सोऽच्छिनत्. ॥३०७॥
आल य स्तुतिसत्कीर्तिपुण्यर्धीनां स पक्षिराट्
निपपात च्छिन्नपक्षो धरण्यामल्पजीवितः. ॥३०८॥
दृष्ट्वा ज टायुषं भूमौ रक्तार्द्रं पतितं द्रतम्
अभ्यधावत वैदेही स्वबंधुमिव दुःखिता. ॥३०९॥
तं व य स्यं प्रियं राज्ञः श्वशुरस्यांडजेश्वरम्
सीता भुजाभ्यामालिंग्य रुरोद परया शुचा. ॥३१०॥
सा ता रा पमुखी सीता विललापाकुलेंद्रिया,
‘ क्कं रामलक्ष्मणौ वीरौ ? हा कष्टं दैव ! किं कृतम्. ॥३११॥
अयं म हात्मा कृपया त्रातुं मामिह संगतः
शेते विनिहतो भूमौ मम भाग्याद्विहंगमः. ’ ॥३१२॥
पुनः श्री दानुजः सीतां बंधूनिव महाद्रुमन्
परिष्वजंतीं जग्राह केशेष्वंतकसंनिभः ॥३१३॥
सच रा चरमुद्भ्रांतमंधेन तमसा वृतम्
प्रधर्षितायां वैदेह्यां जगत्सर्वमभूत्तदा. ॥३१४॥
पिता म हः परामृष्टां दृष्ट्वा ज्ञानेन जानकीम्
‘ कृतं कार्य ’मिति श्रीमान् व्याजहार भविष्यवित्. ॥३१५॥
ये द्वि ज प्रवराः सर्धे दंडकारण्यवासिनः
प्रधर्षितायां सीतायां आसन् खिन्नाश्च हर्षिताः. ॥३१६॥
आदा य रामरामेति रुदतीं लक्ष्मणेति ताम्
जगामाकाशमाविश्य राहुश्चंद्रप्रभामिव. ॥३१७॥
नूपु रा ख्यं मणिमयं भ्रंष्ट तच्चरणांबुजात्
पपात भूषणं भूमौ विद्युन्मंडलसंनिभम्. ॥३१८॥
दृष्ट्वा म हीधरे पंच वानरान् जनकात्मजा
तन्मध्ये सोत्तरीयाणि भूशणानि मुमोच सा. ॥३१९॥
ते तां ज नकजां देवीं विक्रोशंतीं प्लवंगमाः
नेत्रैरनिमिषैर्व्योम्नि ददृशुः पिंगलोचनाह. ॥३२०॥
विहा य सा गृहीत्वा तामंकेन भुजगीमिव
पंपां सिंधुमतिक्रम्य प्रविवेश निजां पुरीम्. ॥३२१॥
तां रा ज पुत्रीं निदधे रावणोंऽतःपुरे निजे
रक्षार्थं स्थापयामास राक्षसीर्घोरदर्शनाः. ॥३२२॥
निधा य स्वालये सीतां रावणोऽष्टौ निशाचरान्
ज्ञातुं प्रवृत्तिं रामस्य प्रेषयामास संमतान्. ॥३२३॥
स स्म रा र्तः पुनः सीतां प्रलोभयितुमात्मनः
प्रासादान् दर्शयामास मणिकांचननिर्भितान्. ॥३२४॥
नाना म णिमयान् भवान्महार्हानन्यदुर्लभान्
वापीश्च मणिसोपानाः सहस्राणि स्वयोषिताम्. ॥३२५॥
ततः श्री दानुजः सीतामुवाच, ‘ शृणु सुंदरि ?
द्वात्रिंशत्कोटिसंख्या मे राक्षसाः संति संमताः. ॥३२६॥
किंक रा स्ते विना वृद्धैर्बालैस्तेषां तु शोभने !
सहस्रमेकमेकस्य मम कार्यपुरःसरम्. ॥३२७॥
इदं म द्राज्यतंत्रं यत्त्वयि सर्वं प्रतिष्ठितम्
जीवितं च विशालाक्षि ! त्वं मेऽ‍सुभ्यो गरीयसी. ॥३२८॥
मां भ ज स्व त्यजाशंका मम भार्या भव प्रिये
किं करिष्यसि रामेण मानुषेणाल्पतेजसा ? ॥३२९॥
पडि य त्यसितापांगि ! कामो मां भृशदारुणः !
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते ॥३३०॥
न सु रा सुरसंधैर्मे शक्या धर्षयितुं पुरी
परिक्षिप्ता समुद्रेण लंकेयं शतयोजनम्. ॥३३१॥
बद्धुं म हाजवः पाशैर्न शक्यो वायुरंबरे
तथाहं विक्रमैरन्यैः सत्यं विद्धि वचो मम. ’ ॥३३२॥
एवं ज ल्पंतमल्पं तमुवाच जनकात्मजा
मा पाप ! व्यापदं प्राप्तुं मां कुलामय ! कामय. ॥३३३॥
त्वां प्र य त्रं विना रामो लक्ष्मणश्च महाबलः
हनिष्यत्यचिरात्पुत्रैर्भ्रातृभिः सचिवैः सह. ॥३३४॥
महा ज वैर्नवैर्बाणैः प्राणैस्त्वां रहितं रणे
कर्तुं समर्थो मे भर्ता स्मर्तासि वचनं तदा. ॥३३५॥
अन य ज्ञ ! जड ! त्वां धिक्परस्त्रीसंगलालसम्
कालसंकाशमस्त्रं मे पत्युर्जातु न सालसम् ॥३३६॥
अध्व रा भ्यर्चिता वेदिर्यथा स्रुग्भांडमंडिता
मंत्रपूता न शक्या सा चांडालेनावमर्दितुम्, ॥३३७॥
अध म ! स्प्रष्टुमुचिता तथा नाहं खलु त्वया
नेदं रक्ष्यं जीवितं मे बधान च्छिंधि वा वपुः. ’ ॥३३८॥
क्रुद्धः श्री मांस्तामुवाच, ‘ मासान् द्वादश जानकि !
प्रतीक्ष्येऽनेन कालेन यदि नाभ्येषि मां ततः ॥३३९॥
प्रात रा शाय सूदास्त्वां स्पष्टं छेत्स्यंति लेशशः. ’
इत्युक्त्वा राक्षसीर्घोरा उवाच दशकंधरः. ॥३४०॥
दर्प म स्या निशाचर्यो ! हरध्वं क्रव्यभोजनाः
अशोकवनिकामध्ये नीयतां घोरदर्शनाः. ॥३४१॥
गूढं ज नकजा तत्र रक्ष्यतां सांत्वतर्जनैः
आनयध्वं वशं सर्वा वन्यां गजवधूमिव. ’ ॥३४२॥
इति य त्ताः समादिष्टास्तच्चक्रुरतिदारुणाः
अशोकवनिकां जग्मुः परिगृह्याशु जानकीम्. ॥३४३॥
सुघो रा णां राक्षसीनां व्याघ्रीणां हरिणीव सा
जानकी वशमापन्ना शर्म लेभे न किंचन. ॥३४४॥
रामो म नसि तं शब्दं मारीचस्य स्मरन् द्रुतम्
निवृत्तः पृष्ठतः श्रुत्वा गोमायोर्भैरवं रवम्. ॥३४५॥
तूर्णं ज गाम रामः स्वं मैथिलीं द्रष्टुमाश्रमम्
‘ हंत ! घोराणि दृश्यंते निमित्तानी ’ति चिंतयन्. ॥३४६॥
हृद य स्वास्थ्यमलभन्नागच्छंस्तूर्णमध्वनि
दूरादनुजमायांतं दृष्ट्वाभूदतिशंकितः. ॥३४७॥
अनु ज स्य मुखं दृष्ट्वा परिम्लानं गतप्रभम्
मिलित्वा तेन तं रामः पप्रच्छागतिकारणम्. ॥३४८॥
‘ विहा य सीतां विपिने घोरे राक्षससेविते
कथं वत्सागतोऽसि त्वं ? कृतं गर्ह्यमिदं त्वया. ॥३४९॥
वीर ! रा त्रिंचरैः सीतापहृता भक्षिताथवा
नास्त्यत्र संशयश्चक्षुः स्फुरते वाममद्य मे. ॥३५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP