TransLiteral Foundation

अरण्यकांडम् - काव्य १०१ ते १५०

अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य १०१ ते १५०
दृष्टा ज गत्यनुपमा तयोर्मध्ये सुमध्यमा
तरुणी रूपसंपन्ना सर्वाभरणभूषिता. ॥१०१॥
संभू य ताभ्यां भ्रातृभ्यां निमित्तीकृत्य तां स्त्रियम्‍
इमामवस्थां नीताहं यथानाथासती तथा ॥१०२॥
तयो रा गस्कृतोरद्य तस्याश्चापि खरानृजोः
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि. ' ॥१०३॥
एव म स्याः खरः श्रुत्वा स्वसुः प्रियचिकीर्षया
वीरानाज्ञापयामास चतुर्दश निशाचरान्‍. ॥१०४॥
रामः श्री मांस्तया सार्धमात्मानं हन्तुमागतान्‍. ॥१०५॥
ऊचू रा क्षसवीरास्ते, `भर्तुर्नः कर्तुरप्रियम्‍
तव रक्तमियं पातुं राम ! कामयते‍धुना. ' ॥१०६॥
ते प्र म त्ताः परे शूलान्येवमुक्त्वा प्रचिक्षिपुः
तानि चिच्छेद तावद्भिः शरै रामश्चतुर्दश. ॥१०७॥
ततो ज घान तान्‍ रामश्चतुर्दशभिराशुगैः
क्रुद्धा प्रधाविता भूयः सा किंचिच्छुष्कशोणिता. ॥१०८॥
` दत्ता य त्तेऽत्यभिमतं तत्कर्तुं राक्षसा मया
स्वसः ! पुना रोदिषि किं ' पप्रच्छेति स तां खरः. ॥१०९॥
` पाम रा स्ते हतास्तेन तदैवे 'ति शशंस सा
निनिंद च खरं, ` मर्त्याद्भीतस्त्वं बालिशे 'ति तम्‍. ॥११०॥
सोऽति म न्युः खरः प्राह दूषणं स्वचमूपरितम्‍,
` चतुर्दश सहस्राणि निर्यातु मम राक्षसाः. ॥१११॥
रथं ज यावहं क्षिप्रमुपस्थापय सायुधम्‍. '
तेन चोद्योजिता सेना स्यंदनः स्थापितोऽग्रतः, ॥११२॥
तं ज य प्रदमारुह्य स्थंदनं राक्षसः खरः
निर्जगाम जनस्थानात्कृत्वा स्वबळमग्रतः. ॥११३॥
परा ज यदमत्युग्रमुत्पातशतमुद्धतः
अचिंतयन्‍ खरः प्रपत आश्रमं कालचोदितः. ॥११४॥

तद्भ य प्रदमुद्दामदुंदुभिध्वनिसूचितम्
रक्षःसैन्यं हंतुकामो रामो लक्ष्मणमब्रवीत्. ॥११५॥
‘ त्वं वी रा शुधनुय्ष्पाणिर्गृहीत्वा जानकीं द्रुतम्
गुहामाश्रय शैलस्य दुर्गा पादपसंकुलाम्. ॥११६॥
वत्स ! म द्वाक्वमेतन्न प्रत्याख्येयमिह त्वया
ममासि शापितोंऽघ्रिभ्यां ! सौमित्रे गच्छ मा चिरम्. ’ ॥११७॥
गते श्री मति सौमित्रौ गुहामादय जानकीम्
रामो बभूव सन्नद्धो रक्षसां निधनेप्सया. ॥११८॥
व्योम्नि रा न्रिचरध्वंसं द्रष्टुं देवाः समागताः
तेजसाप्यायितं रामं ददृशुर्विस्मयान्विताः. ॥११९॥
अथा म र्षवन्नं सैन्यं खरस्य विविधायुधम्
ववर्ष रामे सर्वत्र मेघजालमिवाचले. ॥१२०॥
यथा ज लधरं वातः शस्त्रौघं व्यधमत्प्रभुः
गांधर्वेण बलं कृत्स्नं जघानाशु खरस्य तत्. ॥१२१॥
अप्र य त्नेन तत्सैन्यं हत्वा दाशरथी रणे
न्यबधीद्दूषणं सेनापतिं त्रिशिरसं च तम्. ॥१२२॥
प्रख रा युध उद्दामः खरो राक्षसपुंगवः
मुष्टिदेशे रघुपतेर्धनुश्चिच्छेद संगरे. ॥१२३॥
ततो म हद्धनुर्दत्तं यदगस्त्येन वैष्णवम्
तत्सज्यमकरोद्द्रामस्तं ततक्ष खरैः शरैः. ॥१२४॥
खरो ज न्ये छिन्नगदश्छिन्नसालो निरायुधः
मत्तो रुधिरगंधेन राममभ्यद्द्रवद् द्रुतम्. ॥१२५॥
दृष्ट्वा य शस्विराजस्तमापतंतं महाजवम्
अपासपद्द्वित्रिपदं किंचित्त्वरितविक्रमः. ॥१२६॥
धनं ज याभं नाशाय खरस्य समरे शरम्
रामो जप्राह दिव्यं तं ब्रह्मदंडमिवापरम्. ॥१२७॥
जया य दत्तं मुनिना कुंभजेन महात्मना
संदधे च स धर्मात्मा मुमोच च खरं प्रति. ॥१२८॥
मुक्तो रा घवराजेन खरोरस्यपतच्छरः
स पपात खरो भूमौ दह्यमानः शराग्निना. ॥१२९॥
पुरा म हेशनिर्दग्धः श्वेतारण्ये यथांधकः
स वृत्त इव वज्रेण फेनेन नमुचिर्यथा. ॥१३०॥
रामे श्री मति संप्राप्तविजये निहते खरे
देवदुंदुभयो नेदुः पुष्पवृष्टिर्महत्यभूत्. ॥१३१॥
अम रा अब्रुवन् हृष्टा, ‘ अहो सर्वे निशाचराः
अर्धाधिकमुहूर्तेन रामेण निहता रणे. ’ ॥१३२॥
रामं म हर्षयोऽगस्त्यप्रमुखा हर्षनिर्भराः
पूजयित्वोचुरिंद्रस्तं शरभंगाश्रमं स्वयम् ॥१३३॥
समा ज गामैतदर्थमिमं देशमुपायतः
आनीतस्त्वं वधायैषां राक्षसानां महर्षिभिः. ॥१३४॥
प्रत्य य स्त्वयि नो राम ! राजर्षिकुलभूषण !
स्वस्त्यस्तु ते, कृतं कार्यं महद्दशरथात्मज ! ’ ॥१३५॥
एवं रा क्षसहंतारं पूज्यमानं महर्षिभिः
लक्ष्मणो मुदितोऽभ्येत्य ननामाग्रजमीश्वरम्. ॥१३६॥
रक्षो म र्दनमाश्लिष्टं समीक्ष्य विजयश्रिया
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे. ॥१३७॥
ततो ज वेन निर्गत्य जनस्थानादकंपनः
प्रविश्य लंकां वित्रस्तो रावणं वाक्यमब्रवीत्. ॥१३८॥
‘ सैन्यं य त्ते जनस्थाने प्रभो तत्सकलं हतम्
खरश्च निहतः संख्ये कथंचिदहमागतः. ’ ॥१३९॥
श्रुत्वा ज गुद्दुर्निवार्यप्रतापो दशकंधरः
अकंपनमुवाचेदं निर्दहन्निव तेजसा. ॥१४०॥
‘ रे ! को य मेवं बलवान् जनस्थानविनाशकृत् ?
कृत्वा मे विप्रियं शक्यं सुखं प्राप्तुं न वज्रिणा. ॥१४१॥
राज रा जेन न न वा यमेन न च विष्णुना
कालस्य चाप्यहं कालो दहेयमपि पावकम्. ॥१४२॥
मृत्युं म रणधर्मेण संयोजयितुमुत्सहे. ’
अकंपनस्तथा क्रुद्धं ययाचेऽभयमीश्वरम्. ॥१४३॥
ददौ श्री मान्दशग्रीवोऽभयं तत उवाच सः
‘ पुत्रो द्शरथस्यास्ते रामो नाम महाबलः, ॥१४४॥
तेन रा वण वीरेण भास्कराधिकतेजस
सदूषणः सत्रिशिरा जनस्थाने हतः खरः. ’ ॥१४५॥
तत्स म न्युर्दशग्रीवः श्रुत्वाकंपनभाषितम्
नागेंद्र इव निश्वस्य वचनं चेदमब्रवीत्. ॥१४६॥
‘ मनु ज स्त्रिदशैर्युक्तः स रामो वेंद्र संयुतः
उपयातो जनस्थानं ब्रूहि कच्चिदकंपन ! ’ ॥१४७॥
अभ य प्रदमुग्रं तमुवाचेदमकंपनः,
‘ रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम्. ॥१४८॥
तस्य रा केंदुसंकाशवदनो दुंदुभिस्वनः
कनीयान् लक्ष्मणो भ्रातानुरूपो वीर्यसंपदा. ॥१४९॥
यथा म रुत्सहायोऽग्निर्दुःसहः सर्वदेहिनाम्
तथा सलक्ष्मणो रामो द्विषतां राक्षसेश्वर ! ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:36.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

असिवाद

  • पु. तरवारीचें युध्द . असिवादा असिवार तों ठाई - ऐपो २६९ . 
RANDOM WORD

Did you know?

चोवीस शिवलिंगे कोणती?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.